उत्तरभागः - अध्यायः २३

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


अथाश्वरूढया क्षिप्ते कुरण्डे भण्डदानवः ।
कुटिलाक्षमिदं प्रोचे पुनरेव युयुत्सया ॥१॥

स्वप्नेऽपि यन्न संभाव्यं यन्न श्रुतमितः पुरा ।
यच्च नो शङ्कितं चित्ते तदेतत्कष्टमागतम् ॥२॥

कुरण्डदुर्मदौ सत्त्वशालिनौ भ्रातरौ हितौ ।
दुष्टदास्याः प्रभावोऽयं मायाविन्या महत्तरः ॥३॥

इतः परं करङ्कादीन्पञ्चसेनाधिनायकान् ।
शतमक्षौहिणीनां च प्रस्थापय रणाङ्गणे ॥४॥

ते युद्धदुर्मदाः शूराः संग्रामेषु तनुत्यजः ।
सर्वथैव विजेष्यन्ते दुर्विदग्धविलासिनीम् ॥५॥

इति भण्डवचः श्रुत्वा भृशं चत्वरयान्वितः ।
कुटिलाक्षः करङ्कादीनाजुहाव चमूपतीन् ॥६॥

ते स्वामिनं नमस्कृत्य कुटिलाक्षेण देशिताः ।
अग्नौ प्रविष्णव इव क्रोधान्धा निर्ययुः पुरात् ॥७॥

तेषां प्रयाणनिःसाणरणितं भृशदुःसहम् ।
आकर्ण्य दिग्गजास्तूर्णं शीर्णकर्णा जुघूर्णिरे ॥८॥

शतमक्षौहिणीनां च प्राचलत्केतुमालकम् ।
उत्तरङ्गतुरङ्गादि बभौ मत्तमतङ्गजम् ॥९॥

ह्रेषमाणहयाकीर्णं क्रन्दद्भटकुलोद्भवम् ।
बृंहमाणगजं गर्जद्रथयक्रं चचाल तत् ॥१०॥

चक्रनेमिहतक्षोणीरेणुक्षपितरोचिषा ।
बभूवे तुहिनासारच्छन्नेनेव विवस्वता ॥११॥

धूलीमयमिवाशेषमभवद्विश्वमण्डलम् ।
क्वचिच्छब्दमयं चैव निःसाणकठिनस्वनैः ॥१२॥

उद्भूतैर्धूलिकाजालैराक्रान्ता दैत्यसैनिकाः ।
इयत्तयातः सेनायाः संख्यापि परिभाविता ॥१३॥

ध्वजा बहुविधाकारा मीनव्यालादिचित्रिताः ।
प्रचेलुर्धूलिकाजाले मत्स्या इव महोदधौ ॥१४॥

तानापतत आलोक्य ललितासैनिकं प्रति ।
वित्रेसुरमराः सर्वे शक्तीनां भङ्गशङ्कया ॥१५॥

ते करङ्कमुखाः पञ्च सेनापतय उद्धताः ।
सर्पिणीं नाम समरे मायां चक्रुर्महीयसीम् ॥१६॥

तैः समुत्पतिता दुष्टा सर्पिणी रमशांबरी ।
धूम्रवर्णा च धूम्रोष्ठी धूम्रवर्मपयोधरा ॥१७॥

महोदधिरिवात्यन्तं गंभीरकुहरोदरी ।
पुरश्चचाल शक्तीनान्त्रासयन्ती मनो रणे ॥१८॥

कद्रूरिवापरा दुष्टा बहुसर्पविभूषणा ।
सर्पाणामुद्भवस्थानं मायामयशरीरिणाम् ॥१९॥

सेनापतीनां नासीरे वेल्लयन्तीमहीतले ।
वेल्लितं बहुधा चक्रे घोरारावविराविणी ॥२०॥

तथैव मायया पूर्वं तेऽसुरेद्रा व्यजीजयन् ।
करङ्काद्या दुरात्मानः पञ्चपञ्चत्त्वकामुकाः ॥२१॥

अथ प्रववृते युद्धं शक्तीनाममरद्रुहाम् ।
अन्योन्यवीरभाषाभिः प्रोत्साहितघनक्रुधाम् ॥२२॥

अत्यन्तसंकुलतया न विज्ञातपरस्पराः ।
शक्तयो दानवश्चैव प्रजहुः शस्त्रपाणयः ॥२३॥

अन्योन्यशस्त्रसंघट्टसमुत्थितहुताशने ।
प्रवृत्तविशिखस्रोतःप्रच्छन्नहरिदन्तरे ॥२४॥

बहुरक्तनदीपूरह्रियमाणमतङ्गजे ।
मांसकर्दमनिर्मग्ननिष्पन्दरथमण्डले ॥२५॥

विकीर्णकेशशैवालविलसद्रक्तनिर्झरे ।
अतिनिष्ठुरविध्वंसि सिंहनादभयङ्करे ॥२६॥

रजोऽन्धकारतु मुले राक्षसीतृप्तिदायिनि ।
शस्त्रीशरणिविच्छिन्नदैत्यकण्ठोत्थितासृजि ॥२७॥

प्रवृत्ते घोरसंग्रामे शक्तीनां च सुरद्विषाम् ।
अथस्वबलमादाय पञ्चभिः प्रेरिता सती ।
सर्पिणी बहुधा सर्पान्विससर्ज शरीरतः ॥२८॥

तक्षकर्केटकसमा वासुकिप्रमुखत्विषः ।
नानाविधवपुर्वर्णा नानादृष्टिभयङ्कराः ॥२९॥

नानाविधविषज्वालानिर्दग्धभुवनत्रयाः ।
दारदं वत्सनाभं च कालकूटमथापरम् ॥३०॥

सौराष्ट्रं च विषं घोरं ब्रह्मपुत्रमथापरम् ।
प्रतिपन्नं शौक्लिकेयमन्यान्यपि विषाणि च ॥३१॥

व्यालैः स्वकीयवदनैर्विलोलरसनाद्वयैः ।
विकिरन्तः शक्तिसैन्ये विसम्रुः सर्पिणीतनोः ॥३२॥

धूम्रवर्णा द्विवदना सर्पा अतिभयङ्कराः ।
सर्पिण्या नयनद्वन्द्वा दुत्थिताः क्रोधदीपिताः ॥३३॥

पीतवर्णास्त्रिफणका दंष्ट्राभिर्विकटाननाः ।
सर्पिण्याः कर्णकुहरादुत्थिताः सर्पकोटयः ॥३४॥

अग्रेपुच्छे च वदनं धारयन्तः फणान्वितम् ।
आस्यादा नीलवपुषः सर्पिण्याः फणिनोऽभवन् ॥३५॥

अन्यैश्च बलवर्णाश्च चतुर्वक्त्राश्चतुष्पदाः ।
नासिकाविवरात्तस्या उद्गता उग्ररोचिषः ॥३६॥

लंबमानमहाचर्मावृत्तस्थूलपयोधरात् ।
नाभिकुण्डाच्च बहवो रक्तवर्णा भयानकाः ॥३७॥

हलाहलं वहन्तश्च प्रोत्थिताः पन्नगाधिपाः ।
विदशन्तः शक्तिसेनां दहन्तो विषवह्निभिः ॥३८॥

बध्नन्तो भोगपाशैश्च निघ्नन्तः फणमण्डलैः ।
अत्यन्तमाकुलां चक्रुर्ललितेशीचमूममी ॥३९॥

खण्ड्यमाना अपि मुहुः शक्तीनां शस्त्रकोटिभिः ॥४०॥

उपर्युपरि वर्धन्ते सपिण्डप्रविसर्पिणः ।
नश्यन्ति बहवः सर्पा जायन्ते चापरे पुनः ॥४१॥

एकस्य नाशसमये बहवोऽन्ये समुत्थिताः ।
मूलभूता यतो दुष्टा सर्पिणी न विनश्यति ॥४२॥

अतस्तत्कृतसर्पाणां नाशे सर्पान्तरोद्भवः ।
ततश्चशक्तिसैन्यानां शरीराणि विषानलैः ॥४३॥

दह्यमानानि दुःखेन विप्लुतान्यभवन्रणे ।
किङ्कर्तव्यविमूढेषु शक्तिचक्रेषु भोगिभिः ॥४४॥

पराक्रमं बहुविधं चक्रुस्ते पञ्च दानवाः ।
करीन्द्री गर्दभशतैर्युक्तं स्यन्दनमास्थितः ॥४५॥

चक्रेण तीक्ष्णधारेण शक्तिसेनाममर्दयत् ।
वज्रदन्ताभिधश्चान्यो भण्डदैत्यचमूपतिः ॥४६॥

वज्रबाणाभिघातेन होष्ट्रतो हि रणं व्यधात् ।
अथ वज्रमुखश्चैव चक्रिवन्तं महत्तरम् ॥४७॥

आरुह्य कुन्तधाराभिः शक्तिचक्रममर्दयत् ।
वज्रदन्ताभिधानोऽन्यश्चमूनामधिपो बली ॥४८॥

गृध्रयुग्मरथारूढः प्रजहार शिलीमुखैः ।
तैः सेनापतिभिर्दुष्टैः प्रोत्साहितमथाहवे ॥४९॥

शतमक्षौहिणीनां च निपपातैकहेलया ।
सर्पिणी च दुराचारा बहुमायापरिग्रहा ॥५०॥

क्षणेक्षणे कोटिसंख्यान्विससर्ज फणाधरान् ।
तथा विकलितं सैन्यमवलोक्य रुषाकुला ॥५१॥

नकुली गरुडारूढा सा पपात रणाजिरे ।
प्रतप्तकनकप्रख्या ललितातालुसम्भवा ॥५२॥

समस्तवाङ्मयाकारा दन्तैर्वज्रमयैर्युता ।
सर्पिण्यभिमुखं तत्र विससर्ज निजं बलम् ॥५३॥

तयाधिष्ठिततुङ्गांसः पक्षविक्षिप्तभूधरः ।
गरुडः प्राचलद्युद्धे सुमेरुरिव जङ्गमः ॥५४॥

सर्पिणीमायया जातान्सर्पान्दृष्ट्वा भयानकान् ।
क्रोधरक्तेक्षणं व्यात्तं नकुली विदधे मुखम् ॥५५॥

अथ श्रीनकुलीदेव्या द्वात्रिंशद्दन्तकोटयः ।
द्वात्रिंशत्कोटयो जाता नकुलाः कनकप्रभाः ॥५६॥

इतस्ततः खण्डयन्तः सर्पिणीसर्पमण्डलम् ।
निजदंष्ट्राविमर्देन नाशयन्तश्च तद्विषम् ।
व्यभ्रमन्समरे घोरे विषघ्नाः स्वर्णबभ्रवः ॥५७॥

उत्कर्णाः क्रोध सम्पर्काद्धूनिताशेषलोमकाः ।
उत्फुल्ला नकुला व्यात्तवदना व्यदशन्नहीन् ॥५८॥

एकैकमायासर्पस्य बभ्रुरेकैक उद्गतः ।
तीक्ष्णदन्तनिपातेन खण्डयामास विग्रहम् ॥५९॥

भोगिभोगसृतै रक्तैः सृक्किणी शोणतां गते ।
लिहन्तो नकुला जिह्वापल्लवैः पुप्लुवुर्मृधे ॥६०॥

नकुलैर्दश्यमानानामत्यन्तचटुलं वपुः ।
मुहुः कुण्डलितैर्भोगैः पन्नगानां व्यचेष्टत ॥६१॥

नकुलावलिदष्टानां नष्टासूनां फणाभृताम् ।
फणाभरसमुत्कीर्णा मणयो व्यरुचन्रणे ॥६२॥

नकुलाघातसंशीर्णफणाचक्रैर्विनिर्गतैः ।
फणयस्तन्महाद्रोहवह्विज्वाला इवाबभुः ॥६३॥

एवंप्रकारतो बभ्रुमण्डलैरवखण्डिते ।
मायामये सर्पजाले सर्पिणी कोपमादधे ॥६४॥

तया सह महद्युद्धं कृत्वा सा नकुलेश्वरी ।
गारुडास्त्रमतिक्रूरं समाधत्त शिलीमुखे ॥६५॥

तद्गारुडास्त्रमुद्दामज्वालादीपितदिङ्मुखम् ।
प्रविश्य सर्पिणीदेहं सर्पमायां व्यशोषयत् ॥६६॥

मायाशक्तोर्विनाशेन सर्पिणी विलयं गता ।
क्रोधं च तद्विनाशेन प्राप्ताः पञ्च चमूवराः ॥६७॥

यद्बलेन सुरान्सर्वान्सेनान्यस्तेऽवमेनिरे ।
सा सर्पिणी कथाशेषं नीता नकुलवीर्यतः ॥६८॥

अतःस्वबलनाशेन भृशं क्रुद्धाश्चमूचराः ।
एकोद्यमेन शस्त्रौघैर्नकुलीं तामवाकिरन् ॥६९॥

एकैव सा तार्क्ष्यरथा पञ्चभिः पृतनेश्वरी ।
लघुहस्ततया युद्धे चक्रे वै शस्त्रवर्षिणी ॥७०॥

पट्टिशैर्मुसलैश्चैव भिन्दिपालैः सहस्रशः ।
वज्रसारमयैर्दन्तैर्व्यदशन्मर्म सीमसु ॥७१॥

ततो हाहारुतं घोरं कुर्वाणा दैत्यकिङ्कराः ।
उदग्रदंशनकुलैर्नकुलैराकुलीकृताः ॥७२॥

उत्पत्य गगनात्केचिद्घोरचीत्कार कारिणः ।
देशन्तस्तद्द्विषां सैन्य सकुलाः प्रज्वलक्रुधः ॥७३॥

कर्णेषु दष्ट्वा नासायामन्ये दष्टाः शिरस्तटे ।
पृष्ठतो प्यदशन्केचिदा गत्य व्याकृतक्रियाः ॥७४॥

विकलाश्छिन्नवर्माणो भयविस्रस्तशस्त्रिकाः ।
नकुलैरभिभूतास्ते न्यपतन्नमरद्रुहः ॥७५॥

केचित्प्रविश्यनकुला व्यात्तान्यास्यानि वैरिणाम् ।
भोगिभोगानि वाकृष्य व्यदशन्रसनातलम् ॥७६॥

अन्ये कर्णेषु नकुलाः प्राविशन्देववैरिणाम् ।
सूक्ष्मरूपा विशन्तिस्म नानारन्ध्राणि बभ्रवः ॥७७॥

इति तैरभिभूतानि नकुलैरवलोकयन् ।
निजसैन्यानि दीनानि करङ्कः कोपमास्थितः ॥७८॥

अन्येऽपि च चमूनाथा लघुहस्ता महाबलाः ॥७९॥

प्रतिबभ्रु शरस्तोमान्ववृषुर्वारिदा इव ।
दैत्यसैन्यपतिप्रौढ कोदडोत्थाः शिलीमुखाः ।
बभ्रूणां दन्तकोटीषु कठोरघट्टनं व्यधुः ॥८०॥

चमूपतिशख्यूहैराहतेभ्यः परःशतैः ।
बभ्रूणां वज्रदतेभ्यो निश्चक्राम हुताशनः ।
पञ्चापि ते चमूनाथविसृष्टैरेकहेलया ॥८१॥

स्फुरत्फलैः शरकुलैर्बभ्रुसेनां व्यमर्दयत् ।
इतस्ततश्चमूनाथविक्षिप्तशरकोटिभिः ।
विशीर्णगात्रा नकुला नकुलीं पर्यवारयन् ॥८२॥

अथ सा नकुली वाणी वाङ्मयस्यैकनायिका ।
नकुलानां परावृत्त्या महान्तं रोषमाश्रिता ॥८३॥

अक्षीणनकुलं नाम महास्त्रं सर्वतोमुखम् ।
वह्निज्वालापरीताग्रं संदधे शार्ङ्गधन्वनि ॥८४॥

तदस्त्रतो विनिष्ठ्यूता नकुलाः कोटिसंख्याकाः ।
वज्राङ्गा वज्रलोमानो वज्रदंष्ट्रा महाजवा ॥८५॥

वज्रसाराश्च निबिडा वज्रजाल भयङ्करा ।
वज्राकारैर्नशैस्तूर्ण दारयन्तो महीतलम् ॥८६॥

वज्ररत्नप्रकाशेन लोचनेनापि शोभिताः ।
वज्रसंपातसदृशा नासाचीत्कार कारिणः ॥८७॥

मर्दयन्ति सुरारातिसैन्यं दशनकोटिभिः ।
पराक्रमं बहुविधं तेनिरे ते निरेनसः ॥८८॥

एवं नकुलकोटीभिर्वज्रघोरैर्महाबलैः ।
विनष्टाः प्रत्यवयवं विनेशुर्दानवाधमाः ॥८९॥

एवं वज्रमयैर्बभुमण्डलैः शण्डिते बले ॥९०॥

शताक्षौहिणिके संख्ये ते स्वमात्रावशेषिताः ।
अतित्रासेन रोषेण गृहीताश्च चमूवराः ।
संग्राममधिकं तेनुः समाकृष्टशरासनाः ॥९१॥

तैः समं बहुधा युद्धं तन्वाना नकुलेश्वरी ।
पट्टिशेन करङ्कस्य चिच्छेद कठिनं शिरः ॥९२॥

काकवाशितसुख्यानां चतुर्णामपि वैरिणाम् ।
उत्पत्योत्पत्य तार्क्ष्येण व्यलुनादसिना शिरः ॥९३॥

तादृशं लाघवं दृष्ट्वा नकुल्या श्यामलांबिका ॥९४॥

बहु मेने महासत्त्वां दुष्टासुरविनाशिनीम् ।
निजाङ्गदेवतत्त्वं च तस्यै श्यामांबिका ददौ ॥९५॥

लोकोत्तरे गुणे दृष्टे कस्य न प्रीतिसंभवः ।
हतशिष्टा भीतभीता नकुलीशरणं गताः ॥९६॥

सापि तान्वीक्ष्य कृपया मा भैष्टेति विहस्य च ।
भवद्राज्ञे रणोदन्तमशेषं च निबोधत ॥९७॥

तयैवं प्रेषिताः शीघ्रं तदालोक्य रणक्षितिम् ।
मुदितास्ते पुनर्भीत्या शून्यकायां पलायिताः ॥९८॥

तदुदन्तं ततः श्रुत्वा भण्डश्चण्डो रुषाभवत् ॥९९॥

इति ब्रह्माण्डमहापुराणे उत्तरभागे ललितोपाख्याने करङ्कादिपञ्चसेनापतिवधो नाम त्रयोविंशोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP