उत्तरभागः - अध्यायः ३०

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


अगस्त्य उवाच
अश्वानन महाप्राज्ञ श्रुतमाख्यानमुत्तमम् ।
विक्रमो ललितादेव्या विशिष्टो वर्णितस्त्वया ॥१॥

चरितैरनघैर्देव्याः सुप्रीतोऽस्मि हयानन ।
श्रुता सा महतीशक्तिर्मन्त्रिणीदण्डनाथयोः ॥२॥

पश्चात्किमकरोत्तत्र युद्धानन्तरमंबिका ।
चतुर्थदिनशर्वर्यां विभातायां हयानन ॥३॥

हयग्रीव उवाच
शृणु कुम्भज तत्प्राज्ञ यत्तया जगदंबया ।
पश्चादाचरितं कर्म निहते भण्डदानवे ॥४॥

शक्तीनामखिलं सैन्यं दैत्ययुधशतार्दितम् ।
मुहुराह्लादयामास लोचनैरमृताप्लुतैः ॥५॥

ललितापरमेशान्याः कटाक्षामृतधारया ।
जहुर्युद्धपरिश्रान्तिं शक्तयः प्रीतिमानसाः ॥६॥

अस्मिन्नवसरे देवा भण्डमर्दनतोषिताः ।
सर्वेऽपि सेवितुं प्राप्ता ब्रह्मविष्णुपुरोगमाः ॥७॥

ब्रह्मा विष्णुश्च रुद्रश्च शक्राद्यास्त्रिदशास्तथा ।
आदित्या वसवो रुद्रा मरुतः साध्यदेवताः ॥८॥

सिद्धाः किंपुरुषा यक्षा निरृत्याद्या निशाचराः ।
प्रह्लादाद्या महादैत्याः सर्वेऽप्यण्डनिवासिनः ॥९॥

आगत्य तुष्टुवुः प्रीत्या सिंहासनमहेश्वरीम् ॥१०॥

ब्रह्माद्या ऊचुः
नमोनमस्ते जगदेकनाथे नमोनमः श्रीत्रिपुराभिधाने ।
नमोनमो भण्डमहासुरघ्ने नमोऽस्तु कामेश्वरि वामकेशि ॥११॥

चिन्तामणे चिन्तितदानदक्षेऽचिन्तये चिराकारतरङ्गमाले ।
चित्राम्बरे चित्रजगत्प्रसूते चित्राख्यनित्ये सुखदे नमस्ते ॥१२॥

मोक्षप्रदे मुग्धशशाङ्कचूडे मुग्धस्मिते मोहनभेददक्षे ।
मुद्रेश्वरीचर्चितराजतन्त्रे मुद्राप्रिये देवि नमोनमस्ते ॥१३॥

क्रूरान्तकध्वंसिनि कोमलाङ्गे कोपेषु कालीं तनुमादधाने ।
क्रोडानने पालितसैन्यचक्रे क्रोडीकृताशेषभये नमस्ते ॥१४॥

षडङ्गदेवीपरिवारकृष्णे षडङ्गयुक्तश्रुतिवाक्यमृग्ये ।
षट्चक्रसंस्थे च षडूर्मियुक्ते षड्भावरूपे ललिते नमस्ते ॥१५॥

कामे शिवे मुख्यसमस्तनित्ये कान्तासनान्ते कमलायताक्षि ।
कामप्रदे कामिनि कामशंभोः काम्ये कलानामधिपे नमस्ते ॥१६॥

दिव्यौषधाद्ये नगरौघरूपे दिव्ये दिनाधीशसहस्रकान्ते ।
देदीप्यमाने दयया सनाथे देवाधिदेवप्रमदे नमस्ते ॥१७॥

सदाणिमाद्यष्टकसेवनीये सदाशिवात्मोज्ज्वलमञ्चवासे ।
सभ्ये सदेकाल यपादपूज्ये सवित्रि लोकस्य नमोनमस्ते ॥१८॥

ब्राह्मीमुखैर्मातृगणैर्निषेव्ये ब्रह्मप्रिये ब्राह्मणबन्धमेत्रि ।
ब्रह्मामृतस्रोतसि राजहंसिब्रह्मेश्वरि श्रीललिते नमस्ते ॥१९॥

संक्षोभिणीमुख्यसमस्तमुद्रासंसेविते संसरणप्रहन्त्रि ।
संसारलीलाकृतिसारसाक्षि सदा नमस्ते ललितेऽधिनाथे ।
नित्ये कलाषोडशकेन नामाकर्षिण्यधीशि प्रमथेन सेव्ये ॥२०॥

नित्ये निरातङ्कदयाप्रपञ्चे नीलालकश्रेणि नमोनमस्ते ।
अनङ्गपुष्पादिभिरुन्नदाभिरनङ्गदेवीभिरजस्रसेव्ये ।
अभव्यहन्त्र्यक्षरराशिरूपे हतारिवर्गे ललिते नमस्ते ॥२१॥

संक्षोभिणीमुख्यचतुर्दशार्चिर्मालावृतोदारमहाप्रदीप्ते ।
आत्मानमाबिभ्रति विभ्रमाढ्ये शुभ्राश्रये शुभ्रपदे नमस्ते ॥२२॥

सशर्वसिद्धादि कशक्तिवन्द्ये सर्वज्ञविज्ञातपदारविन्दे ।
सर्वाधिके सर्वगते समस्तसिद्धिप्रदे श्रीललिते नमस्ते ॥२३॥

सर्वज्ञजातप्रथमाभिरन्यदेवी भिरप्याश्रितचक्रभूमे ।
सर्वामराकाङ्क्षितपूरयित्रि सर्वस्य लोकस्य सवित्रि पाहि ॥२४॥

वन्दे वशिन्यादिकवाग्विभूते वर्द्धिष्णुचक्र द्युतिवाहवाहे ।
बलाहकश्यामकचे वचोऽब्धे वरप्रदे सुंदरि पाहि विश्वम् ॥२५॥

बाणादिदिव्यायुधसार्वभौमे भण्डासुरानीकवनान्तदावे ।
अत्युग्रतेजोज्ज्वलितांबुराशे प्रसेव्यमाने परितो नमस्ते ॥२६॥

कामेशि वज्रेशि भगेश्यरूपे कन्ये कले कालविलोपदक्षे ।
कथाविशेषीकृतदैत्यसैन्ये कामेशयान्ते कमले नमस्ते ॥२७॥

बिन्दुस्थिते बिन्दुकलैकरूपे बिन्द्वात्मिके बृंहितचित्प्रकाशे ।
बृहत्कुचंभोजविलोलहारे बृहत्प्रभावे ललिते नमस्ते ॥२८॥

कामेश्वरोत्संगसदानिवासे कालात्मिके देवि कृतानुकंपे ।
कल्पावसानोत्थित कालिरूपे कामप्रदे कल्पलते नमस्ते ॥२९॥

सवारुणे सांद्रसुधांशुशीते सारङ्गशावाक्षि सरोजवक्त्रे ।
सारस्य सारस्य सदैकभूमे समस्तविद्येश्वरि संनतिस्ते ॥३०॥

तव प्रभावेण चिदग्निजायां श्रीशंभुनाथप्रकडीकृतायाः ।
भण्डासुराद्याः समरे प्रचण्डा हता जगत्कण्टकतां प्रयाताः ॥३१॥

नव्यानि सर्वाणि वपूंषि कृत्वा हि सांद्रकारुण्यसुधाप्लवैर्न्नः ।
त्वया समस्तं भुवनं सहर्षं सुजीवितं सुंदरि सभ्यलभ्ये ॥३२॥

श्रीशंभुनाथस्य महाशयस्य द्वितीयतेजः प्रसरात्मके यः ।
स्थाण्वाश्रमे कॢप्ततया विरक्तः सतीवियोगेन विरस्तभोगः ॥३३॥

तेनाद्रिवंशे धृतजन्मलाभां कन्यामुमां योजयितुं प्रवृत्ताः ।
एवं स्मरं प्रेरितवन्त एव तस्यान्तिकं घोर तपःस्थितस्य ॥३४॥

तेनाथ वैराग्यतपोविघातक्रोधेन लालाटकृशानुदग्धः ।
भस्मावशेषो मदनस्ततोऽभूत्ततो हि भण्डासुर एष जातः ॥३५॥

ततो वधस्तस्य दुराशयस्य कृतो भवत्या रणदुर्मदस्य ।
अथास्मदर्थे त्वतनुस्सजातस्त्वं कामसंजीवनमाशुकुर्याः ॥३६॥

इयं रतिर्भर्तृवियोगखिन्ना वैधव्यमत्यन्तमभव्यमाप ।
पुनस्त्वदुत्पादितकामसंगाद्भविष्यति श्रीललिते सनाथा ॥३७॥

तया तु दृष्टेन मनोभवेन संमोहितः पूर्ववदिन्दुमौलिः ।
चिरं कृतात्यन्तमहासपर्या तां पार्वतीं द्राक्परिणेष्यतीशः ॥३८॥

तयोश्च संगाद्भविता कुमारः समस्तगीर्वाणचमूविनेता ।
तेनैव वीरेण रणे निरस्य स तारको नाम सुरारिराजः ॥३९॥

यो भण्डदैत्यस्य दुराशयस्य मित्रं स लोकत्रयधूमकेतुः ।
श्रीकण्ठपुत्रैण रणे हतश्चेत्प्राणप्रतिष्ठैव तदा भवेन्नः ॥४०॥

तस्मात्त्वमंबत्रिपुरे जनानां मानापहं मन्मथवीरवर्यम् ।
उत्पाद्यरत्या विधवात्वदुःखमपाकुरु व्याकुलकुन्तलायाः ॥४१॥

एषा त्वनाथा भवतीं प्रपन्ना भर्तृप्रणाशेन कृशाङ्गयष्टिः ।
नमस्करोति त्रिपुराभिधाने तदत्र कारुण्यकलां विधेहि ॥४२॥

हयग्रीव उवाच
इति स्तुत्वा महेशानी ब्रह्माद्या विबुधोत्तमाः ।
तां रतिं दर्शयमासुर्मलिनां शोककर्शितम् ॥४३॥

सा पर्यश्रुमुखी कीर्णकुन्तला धूलिधूसरा ।
ननाम जगदंबां वै वैधव्यत्यक्तभूषणा ॥४४॥

अथ तद्दर्शनोत्पन्नकारुण्या परमेश्वरी ।
ततः कटाक्षादुत्पन्नः स्मयमानसुखांबुजः ॥४५॥

पूर्वदेहाधिकरुचिर्मन्मथो मदमेदुरः ।
द्विभुजः सर्वभूषाढ्यः पुष्पेषुः पुष्पकार्मुकः ॥४६॥

आनन्दयन्कटाक्षेण पूर्वजन्मप्रियां रतिम् ।
अथ सापि रतिर्देवी महत्यानन्दसागरे ।
मज्जन्ती निजभर्तारमवरोक्य मुदं गता ॥४७॥

आनन्दयन्कटाक्षेण पूर्वजन्मप्रियां रतिम् ।
अथ सापि रतिर्देवी महत्यानन्दसागरे ।
मज्जन्ती निजभर्तारमवलोक्य मुदं गता ॥४८॥

श्यामले स्नापयित्वैनां वस्त्रकाञ्च्यादिभूषणैः ।
अलङ्कृत्य यथापूर्वं शीघ्रमानीयतामिह ॥४९॥

तदाज्ञां शिरसा धृत्वा श्यामा सर्वं तथाकरोत ।
ब्रह्मर्षिभिर्वसिष्ठाद्यैर्वैवाहि कविधानतः ॥५०॥

कारयामास दंपत्योः पाणिग्रहणमङ्गलम् ।
अप्सरोभिश्च सर्वाभिर्नृत्यगीतादिसंयुतम् ॥५१॥

एतद्दृष्ट्वा महेन्द्राद्या ऋषयश्च तपोधनाः ।
साधुसाध्विति शंसंतस्तुष्टुवुर्ललितांबिकाम् ॥५२॥

पुष्पवृष्टिं विमुञ्चन्तः सर्वे सन्तुष्टमानसाः ।
बभूवुस्तौ महाभक्त्या प्रणम्य ललितेश्वरीम् ॥५३॥

तत्पार्श्वे तु समागत्य बद्धाञ्जलिपुटौ स्थितौ ।
अथ कन्दर्पवीरोऽपि नमस्कृत्य महेश्वरीम् ।
व्यज्ञापयदिदं वाक्यं भक्तिनिर्भरमानसः ॥५४॥

यद्दग्धमीशनेत्रेण वपुर्मे ललितांबिके ।
तत्त्वदीयकटाक्षस्य प्रसादात्पुनरागतम् ॥५५॥

तव पुत्रोऽस्मि दासोऽस्मि क्वापि कृत्ये नियुङ्क्ष्व माम् ।
इत्युक्ता परमेशानी तमाह मकरध्वजम् ॥५६॥

श्रीदेव्युवाच
वत्सागच्छ मनोजन्मन्न भयं तव विद्यते ।
मत्प्रसादाज्जगत्सर्वं मोहयाव्याहताशुग ॥५७॥

तद्बाणपातनाज्जातधैर्यविप्लव ईश्वरः ।
पर्वतस्य सुतां गौरीं परिणेष्यति सत्वरम् ॥५८॥

सहस्रकोटयः कामा मत्प्रसादात्त्वदुद्भवाः ।
सर्वेषां देहमाविश्य दास्यन्ति रतिमुत्तमाम् ॥५९॥

मत्प्रसादेन वैराग्यात्संक्रुद्धोऽपि स ईश्वरः ।
देहदाहं विधातुं ते न समर्थो भविष्यति ॥६०॥

अदृश्यमूर्तिः सर्वेषां प्राणिनां भवमोहनः ।
स्वभार्याविरहाशङ्की देहस्यार्धं प्रदास्यति ।
प्रयातोऽसौ कातरात्मा त्वद्बाणाहतमानसः ॥६१॥

अद्य प्रभृति कन्दर्प मत्प्रसादान्महीयसः ।
त्वन्निन्दां ये करिष्यन्ति त्वयि वा विमुखाशयाः ।
अवश्यं क्लीबतैव स्यात्तेषां जन्मनिजन्मनि ॥६२॥

ये पापिष्ठा दुरात्मानो मद्भक्तद्रोहिणश्च हि ।
तानगम्यासु नारीषु पातयित्वा विनाशय ॥६३॥

येषां मदीय पूजासु मद्भक्तेष्वादृतं मनः ।
तेषां कामसुखं सर्वं संपादय समीप्सितम् ॥६४॥

इति श्रीललितादेव्या कृताज्ञावचनं स्मरः ।
तथेति शिरसा बिभ्रत्सांजलिर्निर्ययौ ततः ॥६५॥

तस्यानङ्गस्य सर्वेभ्यो रोमकूपेभ्य उत्थिताः ।
बहवः शोभनाकारा मदना विश्वमोहनाः ॥६६॥

तैर्विमोह्य समस्तं च जगच्चक्रं मनोभवः ।
पुनः स्थाण्वाश्रमं प्राप चन्द्रमौलेर्जिगीषया ॥६७॥

वसंतेन च मित्रेण सेनान्या शीतरोचिषा ।
रागेण पीठमर्देन मन्दानिलरयेण च ॥६८॥

पुंस्कोकिलगलत्स्वानकाहलीभिश्च संयुतः ।
शृङ्गारवीरसंपन्नो रत्यालिङ्गितविग्रहः ॥६९॥

जैत्र शरासनं धुन्वन्प्रवीराणां पुरोगमः ।
मदनारेरभिमुखं प्राप्य निभय आस्थितः ॥७०॥

तपोनिष्ठं चन्द्रचूडं ताडयामास सायकैः ।
अथ कन्दर्पबाणौधैस्ताडितश्चन्द्रशेखरः ।
दूरीचकार वैराग्यं तपस्तत्त्याज दुष्करम् ॥७१॥

नियमानखिलांस्त्यक्त्वा त्यक्तधैर्यः शिवः कृतः ।
तामेव पार्वतीं ध्यात्वा भूयोभूयः स्मरातुरः ॥७२॥

निशश्वास वहञ्शर्वः पाण्डुरं गण्डमण्डलम् ।
बाष्पायमाणो विरही संतप्तो धैर्यविप्लवात् ।
भूयोभूयो गिरिसुतां पूर्वदृष्टामनुस्मरन् ॥७३॥

अनङ्गबाणदहनैस्तप्यमानस्य शूलिनः ।
न चन्द्ररेखा नो गङ्गा देहतापच्छिदेऽभवत् ॥७४॥

नन्दिभृङ्गिमहाकालप्रमुखैर्गणमण्डलैः ।
आहृते पुष्पशयने विलुलोठ मुहुर्मुहुः ॥७५॥

नन्दिनो हस्तमालंब्य पुष्पतल्पान्तरात्पुनः ।
पुष्पतल्पान्तरं गत्वा व्यचेष्टत मुहुर्मुहुः ॥७६॥

न पुष्पशयनेनेन्दुखण्डनिर्गलितामृते ।
न हिमानीपयसि वा निवृत्तस्तद्वपुर्ज्वरः ॥७७॥

स तनेरतनुज्वालां शमयिष्यन्मुहुर्मुहुः ।
शिलीभूतान्हिमपयः पट्टानध्यवसच्छिवः ।
भूयः शैलसुतारूपं चित्रपट्टे नखैर्लिखत् ॥७८॥

तदालोकनतोऽदूरमनङ्गार्तिमवर्धयत् ।
तामालिख्य ह्रिया नम्रां वीक्षमाणां कटाक्षतः ॥७९॥

तच्चित्रपट्टमङ्गेषु रोमहर्षेषु चाक्षिपत् ।
चिन्तासंगेन महता महात्या रतिसंपदा ।
भूयसा स्मरतापेन विव्यथे विषमेक्षणः ॥८०॥

तामेव सर्वतः पश्यंस्तस्यामेव मनो दिशन् ।
तथैव संल्लपन्सार्धमुन्मादेनोपपन्नया ॥८१॥

तन्मात्रभूतहृदयस्तच्चित्तस्तत्परायणः ।
तत्कथासुधया नीतसमस्तरजनीदिनः ॥८२॥

तच्छीलवर्णन रतस्तद्रूपालोकनोत्सुकः ।
तच्चारुभोगसंकल्पमालाकरसुमालिकः ।
तन्मयत्वमनुप्राप्तस्ततापातितरां शिवः ॥८३॥

इमां मनोभव रुजमचिकित्स्यां स धूर्जटिः ।
अवलोक्य विवाहाय भृशमुद्यमवानभूत् ॥८४॥

इत्थं विमोह्य तं देवं कन्दर्पो ललिताज्ञया ।
अथ तां पर्वतसुतामाशुगैरभ्यतापयत् ॥८५॥

प्रभूतविरहज्वालामलिनैः श्वसितानलैः ।
शुष्यमाणाधरदलो भृशं पाण्डुकपोलभूः ॥८६॥

नाहारे वा न शयने न स्वापे धृतिमिच्छति ।
मखीसहस्रैः सिषिचे नित्यं शीतोपचारकैः ॥८७॥

पुनः पुनस्तप्यमाना पुनरेव च विह्वला ।
न जगाम रुजाशान्ति मन्मथाग्नेर्महीयसः ॥८८॥

न निद्रां पार्वती भेजे विरहेणोपतापिता ।
स्वतनोस्तापनेनासौ पितुः खेदमवर्धयत् ॥८९॥

अप्रतीकारपुरुषं विरहं तुहितुः शिवे ।
अवलोक्य स शैलेन्द्रो महादुःखमवाप्तवान् ॥९०॥

भद्रे त्वं तपसा देवं तोषयित्वा महेश्वरम् ।
भार्तारं तं समृच्छेति पित्रा सम्प्रेरिताथ सा ॥९१॥

हिमवच्छैलशिखरे गौरीशिखरनामनि ।
वकार पतिलाभाय पार्वती दुष्करं तपः ॥९२॥

शिशिरेषु जलावासा ग्रीष्मे दहनमध्यगा ।
अर्के निविष्टदृष्टिश्च सुघोरं तप आस्थिता ॥९३॥

तेनैव तपसा तुष्टः सान्निध्यं दत्तवाञ्छिवः ।
अङ्गीचकार तां भार्यां वैवाहिकविधानतः ॥९४॥

अथाद्रिपतिना दत्तां तनयां नलिनेक्षणाम् ।
सप्तर्षिद्वारतः पूर्वं प्रार्थितामुदवोढ सः ॥९५॥

तया च रममाणोऽसौ बहुकालं महेश्वरः ।
ओषधीप्रस्थनगरे श्वशुरस्य गृहेऽवसत् ॥९६॥

पुनः कैलासमागत्य समस्तैः प्रमथैः सह ।
पार्वतीमानिनायाद्रिनाथस्य प्रीतिमावहत् ॥९७॥

रममाणस्तया सार्थं कैलासे मन्दरे तथा ।
विन्ध्याद्रौ हेमशैले च मलये पारियात्रके ॥९८॥

नानाविधेषु स्थानेषु रतिं प्राप महेश्वरः ।
अथ तस्यां ससर्जोग्रं वीर्यं सा सोढुमक्षमा ॥९९॥

भुव्यत्यजत्सापि वह्नौ कृत्तिकासु स चाक्षिपत् ।
ताश्च गङ्गाजलेऽमुञ्चन्सा चैव शरकानने ॥१००॥

तत्रोद्भूतो महावीरो महासेनः षडाननः ।
गङ्गायाश्चान्तिकं नीतो धूर्जटिर्वृद्धि मागमत् ॥१०१॥

स वर्धमानो दिवसेदिवसे तीव्रविक्रमः ।
शिक्षितो निजतातेन सर्वा विद्या अवाप्तवान् ॥१०२॥

अथ तातकृतानुज्ञः सुरसैन्यपतिर्भवन् ।
तारकं मारयामास समस्तैः सह दानवैः ॥१०३॥

ततस्तारकदैत्येन्द्रवधसन्तोषशालिना ।
शक्रेण दत्तां स गुहो देवसेनामुपानयत् ॥१०४॥

सा शक्रतनया देवसेना नाम यशस्विनी ।
आसाद्यरमणं स्कन्दमानन्दं मृशमादधौ ॥१०५॥

इत्थं संमोहिताशेषविश्वचक्रो मनोभवः ।
देवकार्यं सुसम्पाद्य जगाम श्रीपुरं पुनः ॥१०६॥

यत्र श्रीनगरे पुण्ये ललिता परमेश्वरी ।
वर्तते जगतामृद्ध्यै तत्र तां सेवितुं ययौ ॥१०७॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने मदनपुनर्भवो नाम त्रिंशोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP