उत्तरभागः - अध्यायः २६
ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.
प्रथमयुद्धदिवसः ।
दशाक्षौहिणिकायुक्तः कुटिलाक्षोऽपि वीर्यवान् ।
दण्डनाथाशरैस्तीक्ष्णै रणे भग्नः पलायितः ।
दशाक्षौहिणिकं सैन्यं तया रात्रौ विनाशितम् ॥१॥
इमं वृत्तान्तमाकर्ण्य भण्डः क्षोभमथाययौ ।
रात्रौ कपटसंग्रामं दुष्टानां निर्जरद्रुहाम् ।
मन्त्रिणी दण्डनाथा च श्रुत्वा निर्वेदमापतुः ॥२॥
अहो बत महत्कष्टं दैत्यैर्देव्याः समागतम् ।
उत्तानबुद्धिभिर्दूरमस्माभिश्चलितं पुरः ॥३॥
महाचक्ररथेन्द्रस्य न जातं रक्षणं बलैः ।
एतं त्ववसरं प्राप्य रात्रौ दुष्टैः पराकृतम् ॥४॥
को वृत्तान्तोऽभवत्तत्र स्वामिन्या किं रणः कृतः ।
अन्या वा शक्तयस्तत्र चक्रुर्युद्धं महासुरैः ॥५॥
विम्रष्टव्यमिदं कार्यं प्रवृत्तिस्तत्र कीदृशी ।
महादेव्याश्च हृदये कः प्रसंगः प्रवर्तते ॥६॥
इति शङ्काकुलास्तत्र दण्डनाथापुरोगमाः ।
मन्त्रिणीं पुरतः कृत्वा प्रचेलुर्ललितां प्रति ॥७॥
शक्तिचक्रचमूनाथाः सर्वास्ताः पूजिता द्रुतम् ।
व्यतीतायां विभावर्यां रथेन्द्रं पर्यवारयन् ॥८॥
अवरुह्य स्वयानाभ्यां मन्त्रिणीदण्डनायिके ।
अधस्तात्सैन्यमावेश्य तदारुरुहतू रथम् ॥९॥
क्रमेण नव पर्वाणि व्यतीत्य त्वरितक्रमैः ।
तत्तत्सर्वगतैः शक्तिचक्रैः सम्यङ्निवेदितैः ॥१०॥
अभजेतां महाराज्ञीं मन्त्रिणीदण्डनायिके ।
ते व्यजिज्ञपतां देव्या अष्टाङ्गस्पृष्टभूतले ॥११॥
महाप्रमादः समभूदिति नः श्रुतमंबिके ।
कूटयुद्धप्रकारेण दैत्यैरपकृतं खलैः ॥१२॥
स दुरात्मा दुराचारः प्रकाशसमारात्त्रसन् ।
कुहकव्यवहारेण जयसिद्धिं तु काक्षति ॥१३॥
दैवान्नः स्वामिनीगात्रे दुष्टानाममरद्रुहाम् ।
शरादिकपरामर्शो न जातस्तेन जीवति ॥१४॥
एकावलंबनं कृत्वा महाराज्ञि भवत्पदम् ।
वयं सर्वा हि जीवामः साधयामः समीहितम् ॥१५॥
अतोऽस्माभिः प्रकर्तव्यं श्रीमत्यङ्गस्य रक्षणम् ।
मायाविनश्च दैत्येन्द्रास्तत्र मन्त्रो विधीयताम् ॥१६॥
आपत्कालेषु जेतव्या भण्डाद्या दानवाधमाः ।
कूटयुद्धं न कुर्वन्ति न विशन्ति चमूमिमाम् ॥१७॥
तथा महेन्द्रशैलस्य कार्यं दक्षिणदेशतः ।
शिबिरं बहुविस्तारं योजनानां शतावधि ॥१८॥
वह्लिप्राकारवलयं रक्षणार्थं विधीयताम् ।
अस्मत्सेनानिवेशस्य द्विषां दर्पशमाय च ॥१९॥
शतयोजनमात्रस्तु मध्यतेशः प्रकल्प्यताम् ।
वह्निप्राकाराचक्रस्य द्वारन्दक्षिणतो भवेत् ॥२०॥
यतो दक्षिणदेशस्थं शून्यकं विद्विषां पुरम् ।
द्वारे च बहवः कल्प्याः परिवारा उदायुधाः ॥२१॥
निर्गच्छतां प्रविशतां जनानामुपरोधकाः ।
अनालस्या अनिद्राश्च विधेयाः सततोद्यताः ॥२२॥
एवं च सति दुष्टानां कूटयुद्धं चिकीर्षितम् ।
अवेलासु च संध्यासु मध्यरात्रिषु च द्विषाम् ।
अशक्यमेव भवति प्रौढमाक्रमणं हठात् ॥२३॥
नो चेद्दुराशया दैत्या बहुमायापरिग्रहाः ।
पश्यतोहरवत्सर्वं विलुठन्ति महद्बलम् ॥२४॥
मन्त्रिण्या दण्डनाथाया इति श्रुत्वा वचस्तदा ।
शुचिदन्तरुचा मुक्ता वहन्ती ललिताब्रवीत् ॥२५॥
भवतीनामयं मन्त्रश्चारुबुद्ध्या विचारितः ।
अयं कुशलधीमार्गोनीतिरेषा सनातनी ॥२६॥
स्वचक्रस्य पुरो रक्षां विधाय दृढसाधनैः ।
परचक्राक्रमः कार्यो जिगीषद्भिर्महाजनैः ॥२७॥
इत्युक्त्वा मन्त्रिणीदण्डनाथे सा ललितेश्वरी ।
ज्वालामालिनिकां नित्यामाहूयेदमुवाच ह ॥२८॥
वत्से त्वं वह्निरूपासि ज्वालामालामयाकृतिः ।
त्वया विधीयतां रक्षा बलस्यास्य महीयसः ॥२९॥
शतयोजनविस्तारं परिवृत्य महीतलम् ।
त्रिंशद्योजनमुन्नद्धं ज्वालाकारत्वमाव्रज ॥३०॥
द्वारयोजनमात्रं तु मुक्त्वान्यत्र ज्वलत्तनुः ।
वह्निज्वालात्वमापन्ना संरक्ष सकलं बलम् ॥३१॥
इत्युक्त्वा मन्त्रिणीदण्डनाथे सा ललितेश्वरी ।
महेन्द्रोत्तरभूभागं चलितुं चक्र उद्यमम् ॥३२॥
सा च नित्यानित्यमयी ज्वलज्ज्वा लामयाकृतिः ।
चतुर्दशीतिथिमयी तथेति प्रणनाम ताम् ॥३३॥
तयैव पूर्वनिर्दिष्टं महेन्द्रोत्तरभूतलम् ।
कुण्डलीकृत्य जज्वालशालरूपेण सा पुनः ॥३४॥
नभोवलयजंबालज्वालामालामयाकृतिः ।
बभासे दण्डनाथाया मन्त्रिनाथचमूरपि ॥३५॥
अन्या सामपि शक्तीनां महतीनां महद्बलम् ।
विशङ्कटोदरं सालं प्रविवेश गतक्लमा ॥३६॥
राजचक्ररथेन्द्रं तु मध्ये संस्थाप्य दण्डिनी ।
वामपक्षे रथं स्वीयं दक्षिणे श्यामलारथम् ॥३७॥
पश्चाद्भागे सम्पदेशीं पुरस्ताश्च हयासनाम् ।
एवं संवेश्य परितश्चक्रराजरथस्य च ॥३८॥
द्वारे निवेशयामास विंशत्यक्षौहिणीयुताम् ।
ज्वलद्दण्डायुधोदग्रां स्तम्भिनीं नाम देवताम् ॥३९॥
या देवी दण्डनाथाया विघ्नदेवीति विश्रुता ।
एवं सुरक्षितं कृत्वा शिबिरं योत्रिणी तथा ।
पूषण्युदितभूयिष्ठे पुनर्युद्धमुपाश्रयत् ॥४०॥
कृत्वा किलकिलारावं ततः शक्तिमहाचमूः ।
अग्निप्राकारकद्वारान्निर्जगां महारवा ॥४१॥
इत्थं सुरक्षितं श्रुत्वा ललिताशिबिरोदरम् ।
भूयः संज्वरमापन्नः प्रचण्डो भण्डदानवः ॥४२॥
मन्त्रयित्वा पुनस्तत्र कुटिलाक्षपुरोगमैः ।
विषङ्गेण विशुक्रेणासममात्मसुतैरपि ॥४३॥
एकौघस्य प्रसारेण युद्धं कर्तुं महाबलः ।
चतुर्बाहुमुखान्पुत्रांश्चतुर्जलधिसन्निभान् ॥४४॥
चतुरान्युद्धकृत्येषु समाहूय स दानवः ।
प्रेषयामास युद्धाय भण्डश्चण्डक्रुधा ज्वलन् ॥४५॥
त्रिंशत्संख्याश्च तत्पुत्रा महाकाया महाबलाः ।
तेषां नामानि वक्ष्यामि समाकर्णय कुम्भज ॥४६॥
चतुर्बाहुश्चकोराक्षस्तृतीयस्तु चतुः शिराः ।
वज्रघोषश्चोर्ध्वकेशो महाकायो महाहनुः ॥४७॥
मखशत्रुर्मखस्कन्दीसिंहघोषः सिरालकः ।
लडुनः पट्टसेनश्च पुराजित्पूर्वमारकः ॥४८॥
स्वर्गशत्रुः स्वर्गबलो दुर्गाख्यः स्वर्गकण्टकः ।
अतिमायो बृहन्माय उपमायश्च वीर्यवान् ॥४९॥
इत्येते दुर्मदाः पुत्रा भण्डदैत्यस्य दुर्द्धियः ।
पितुः सदृशदोर्वीर्याः पितुः सदृशविग्रहाः ॥५०॥
आगत्य भण्डचरणावभ्यवन्दत भक्तितः ।
तानुद्वीक्ष्य प्रसन्नाभ्यां लोचनाभ्यां स दानवः ।
सगौरवमिदं वाक्यं बभाषे कुलघातकः ॥५१॥
भो भो मदीयास्तनया भवतां कः समो भुवि ।
भवतामेव सत्येन जितं विश्वं मया पुरा ॥५२॥
शक्रस्या ग्नेर्यमस्यापि निरृतेः पाशिनस्तथा ।
कचेषु कर्षणं कोपात्कृतं युष्माभिराहवे ॥५३॥
अस्त्राण्यपि च शस्त्राणि जानीथ निखिलान्यपि ।
जाग्रत्स्वेव ही युष्मासु कुलभ्रंशोऽयमागतः ॥५४॥
मायाविनी दुललिता काचित्स्त्री युद्धदुर्मदा ।
बहुभिः स्वसमानाभिः स्त्रीभिर्युक्ता हिनस्ति नः ॥५५॥
तदेनां समरेऽवश्यमात्मवश्यां विधास्यथ ।
जीवग्राहं च सा ग्राह्या भवद्भिर्ज्वलदायुधैः ॥५६॥
अप्रमेयप्रकोपान्धान्युष्मानेकां स्त्रियं प्रति ।
सम्प्रेषणमनौचित्यं तथाप्येष विधेः क्रमः ॥५७॥
इममेकं सहध्वं च शौर्यकीतिविपर्ययम् ।
इत्युक्त्वा भण्डदैत्येन्द्रस्तान्प्रहैषीद्रणं प्रति ।
द्विशतं चाक्षौहिणीनां तत्सहायतयाहिनोत् ॥५८॥
द्विशत्यक्षौहिणीसेना मुख्यस्य तिलकायिता ।
बद्धभ्रुकुटयः शस्त्रपाणयो निर्ययुर्गृहात् ॥५९॥
निर्गमे भण्डपुत्राणां भूः प्रकम्पमलम्बत ।
उत्पाता विविधा जाता वित्रस्तं चाभवज्जगत् ॥६०॥
तान्कुमारान्महासत्त्वांल्लाजवर्षैरवाकिरन् ।
विथीषु यानैश्चलितान्पौरवृद्धपुरन्ध्रयः ॥६१॥
बन्दिनो मागधाश्चैव कुमाराणां स्तुतिं व्यधुः ।
मङ्गलारार्तिकं चक्रुर्द्वारेद्वारे पुराङ्गनाः ॥६२॥
भिद्यमानेव वसुधा कृष्यमाणमिवाबरम् ।
आसीत्तेषां विनिर्याणे घूर्णमान इवार्णवः ॥६३॥
द्विशत्यक्षौहिणीसेनां गृहीत्वा भण्डसूनवः ।
क्रोधोद्यद्भ्रुकुटीक्रूरवदना निर्ययुः पुरात् ॥६४॥
शक्तिसैन्यानि सर्वाणि भक्षयामः क्षणाद्रणे ।
तेषामायुधचक्राणि चूर्णयामः शितैशरैः ॥६५॥
अग्निप्राकारवलयं शमयामश्च रंहसा ।
दुर्विदग्धां तां ललितां बन्दीकुर्मश्च सर्वरम् ॥६६॥
इत्यन्योन्यं प्रवल्गन्तो वीरभाषणघोषणैः ।
आसेदुरग्निप्राकारसमीपं भण्डसूनवः ॥६७॥
यौवनेन मदेनान्धा भूयसा रुद्धदृष्टयः ।
भ्रुकुटीकुटिलाश्चक्रुः सिंहनादंमहात्तरम् ॥६८॥
विदीर्णमिव तेनासीद्ब्रह्माण्ड चण्डिमस्पृशा ।
उत्पातवारिदोत्सृष्टघोरनिर्घातरंहसा ॥६९॥
एतस्याननुभूतस्य महाशब्दस्य डम्बरः ।
क्षोभयामास शक्तीनां श्रवांसि च मनांसि च ॥७०॥
आगत्य ते कलकलं चक्रुःसार्धं स्वसैनिकैः ।
विविधायुधसम्पातमूर्च्छद्वैमानिकच्छटम् ॥७१॥
चतुर्बाहुमखान्भूत्वा भण्डदैत्यकुमारकान् ।
आगतान्युद्धकृत्याय बाला कौतूहलं दधे ॥७२॥
कुमारी ललितादेव्यास्तस्या निकटवासिनी ।
समस्तशक्तिचक्राणां पूज्य विक्रमशालिनी ॥७३॥
ललितासदृशाकारा कुमारी कोपमादधे ।
या सदा नववर्षेव सर्वविद्यामहाखनिः ॥७४॥
बालारुणतनुः श्रोणीशोणवर्णवपुर्लता ।
महाराज्ञी पादपीठे नित्यमाहितसंनिधिः ॥७५॥
तस्या बहिश्चराः प्राणा या चतुर्थं विलोचनम् ।
तानागतान्भण्डसुतान्संहरिष्यामि सत्वरम् ॥७६॥
इति निश्चित्य बालांबा महाराज्ञ्यै व्यजिज्ञपत् ।
मातर्भण्डमहादैत्यसूनवो योद्धुमागताः ॥७७॥
तैः समं योद्धुमिच्छामि कुमारित्वात्सकौतुका ।
सफुरन्ताविव मे बाहू युद्धकण्डूययानया ॥७८॥
क्रीडा ममैषा हन्तव्या न भवत्या निवारणैः ।
अहं हि वालिका नित्यं क्रीडनेष्वनुरागिणी ॥७९॥
क्षणं रणक्रीडया च प्रीतिं यास्यामि चैतसा ।
इति विज्ञापिता देवी प्रत्युवाच कुमारिकाम् ॥८०॥
वत्से त्वमतिमृद्वङ्गी नववर्षा नवक्रमा ।
नवीनयुद्धशिक्षा च कुमारी त्वं ममैकिका ॥८१॥
त्वां विना क्षणमात्रं मे न निश्वासः प्रवर्तते ।
ममोच्छ्वसितमेवासि न त्वं याहि महाहवम् ॥८२॥
दण्डिनी मन्त्रिणी चैव शक्तयोऽन्याश्च कोटिशः ।
संत्येव समरे कर्तुं वत्से त्वं किं प्रमाद्यसि ॥८३॥
इति श्रीललितादेव्या निरुद्धापि कुमारिका ।
कौमारकौतुकाविष्टा पुनर्युद्धमयाचत ॥८४॥
सुदृढं निश्चयं दृष्ट्वा तस्याः श्रीललितांबिका ।
अनुज्ञां कृतवत्येव गाढमाश्लिष्य बाहुभिः ॥८५॥
स्वकीयकवचादेकमाच्छिद्य कवचं ददौ ।
स्वायुधेभ्यश्चायुधानि वितीर्यविससर्ज ताम् ॥८६॥
कर्णीरथं महाराज्ञ्या चापदण्डात्समुद्धृतम् ।
हंसयुग्यशतैर्युक्तमारुरोह कुमारिका ॥८७॥
तस्यां रणे प्रवृत्तायां सर्वपर्वस्थदेवताः ।
बद्धाञ्जलिपुटा नेमुः प्रधृतासिपरंपराः ॥८८॥
ताभिः प्रणम्यमाना सा चक्रराजरथोत्तमात् ।
अवरुह्य तले सैन्यं वर्तमानमगाहत ॥८९॥
तामायान्तीमथो दृष्ट्वा कुमारीं कोपपाटलाम् ।
मन्त्रिणीदण्डनाथे च सभये वाचमूचतुः ॥९०॥
किं भर्तृदारिके युद्धे व्यवसायः कृतस्त्वया ।
अकाण्डे किं महाराज्ञ्या प्रेषितासि रणं प्रति ॥९१॥
तदेतदुचितंनैव वर्तमानेऽपि सैनिके ।
त्वं मूर्तं जीवितमसि श्रीदेव्या बालिके यतः ॥९२॥
निवर्तस्व रणोत्साहात्प्रणामस्ते विधीयते ।
इति ताभ्यां प्रार्थितापि प्राचलद्दृढनिश्चया ॥९३॥
अत्यन्तं विस्मयाविष्टे मन्त्रिणीदण्डनायिके ।
सहैव तस्या रक्षार्थं चेलतुः पार्श्वयोर्द्वयोः ॥९४॥
अथाग्निवरणद्वारा ताभ्यामनुगता सती ।
प्रभूतसेनायुक्ताभ्यां निर्जगाम कुमारिका ॥९५॥
सनाथशक्तिसेनानां सर्वासामनुगृह्णती ।
प्रणामाञ्जलिजालानि कर्णीरथकृतासना ॥९६॥
भण्डस्य तनयान्दुष्टानभ्यद्रवदरिन्दमा ।
तस्याः प्रादेशिकं सैन्यं कुमार्या न हि विद्यते ॥९७॥
सर्वं हि ललितासैन्यं तत्सैन्यं समजायत ।
ततः प्रववृते युद्धमत्युद्धतापराक्रमम् ॥९८॥
ववर्ष शरजालानि दैत्येन्द्रेषु कुमारिका ।
भण्डासुरकुमारैस्तैर्महाराज्ञीकुमारिका ।
यद्युद्धमतनोत्तत्तु स्पृहणीयं सुरासुरैः ॥९९॥
अत्यन्तविस्मिता दैत्यकुमारा नववर्षिणीम् ।
कर्मीरथस्थामालोक्य किरन्तींशरमण्डलम् ॥१००॥
क्षणेक्षणे बालिकया क्रियमाणं महारणम् ।
व्यजिज्ञपन्महाराज्ञ्यै भ्रमन्त्यः परिचारिकाः ॥१०१॥
मन्त्रिणीदण्डनाथे च न तां विजहतू रणे ।
प्रेक्षकत्व मनुप्राप्ते तृष्णीमेव बभूवतुः ॥१०२॥
सर्वेषां दैत्यपुत्राणामेकरूपा कुमारिका ।
प्रत्येकभिन्ना ददृशे बिंबमालेव भास्वतः ॥१०३॥
सायकैरग्निचूडालैस्तेषां मर्माणि भिन्दती ।
रक्तोत्पलमिव क्रोधसंरक्तं बिभ्रती मुखम् ॥१०४॥
आश्चर्यं ब्रुवतो व्योम्नि पश्यतां त्रिदिवौकसाम् ।
साधुवादैर्बहुविधैर्मत्रिणीदण्डनाथयोः ॥१०५॥
अर्च्यमाना रणं चक्रे लघुहस्ता कुमारिका ।
द्वितीयं युद्धदिवसं समस्तमपि सा रणे ॥१०६॥
प्रकाशयामास बलं ललितादुहिता निजम् ।
अस्त्रप्रत्यस्त्रमोक्षेण तान्सर्वानपि भिन्दती ॥१०७॥
नारायणास्त्रमोक्षेण महराज्ञीकुमारिका ।
द्विशत्यक्षौहिणीसैन्यं भस्मसादकरोत्क्षणात् ॥१०८॥
अक्षौहिणीनां क्षयतः क्षणात्कोपमुपागताः ।
आकृष्टगुरुधन्वानस्तेऽपतन्नेकहेलया ॥१०९॥
ततः कलकले जाते शक्तीनां च दिवौकसाम् ।
युगपत्त्रिंशतो बाणानसृजत्सा कुमारिका ॥११०॥
हस्तलाघवमाश्रित्य मुक्तैश्चन्द्रार्धसायकैः ।
त्रिंशता त्रिंशतो भण्डपुत्राणा साहतं शिरः ॥१११॥
इति भण्डस्य पुत्रेषु प्राप्तेषु यमसादनम् ।
अत्यन्तविस्मयाविष्टा वबृषुः पुष्पमभ्रगाः ॥११२॥
सा च पुत्री महाराज्ञ्याः विध्वस्तासुरमैनिका ।
मन्त्रिणीदण्डनाथाभ्यामालिङ्ग्यत भृशं मुदा ॥११३॥
तस्याः पराक्रमोन्मेषैर्नृत्यन्त्योजयदायिभिः ।
शक्तयस्तुमुलं चक्रुः साधुवादैर्जगत्त्रयम् ॥११४॥
सर्वाश्च शक्तिसेनान्यो दण्डनाथापुरःसराः ।
तदाश्चर्यं महाराज्ञ्यै निवेदयितुमुद्गताः ॥११५॥
ताभिर्निवेद्यमानानि सा देवी ललितांबिका ।
पुत्रीभुजावदानानि श्रुत्वा प्रीतिं समाययौ ॥११६॥
समस्तमपि तच्चक्रं शक्तीनां तत्पराक्रमैः ।
अदृष्टपूर्वैर्देवेषु विस्मयस्य वशं गतम् ॥११७॥
इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने भण्डपुत्रवधो नाम षड्विंशोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP