उत्तरभागः - अध्यायः २८

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


रणेभग्नं महादैत्यं भण्डदैत्यः सहोदरम् ।
सेनानां कदनं श्रुत्वा सन्तप्तो बहुचिन्तया ॥१॥

उभावपि समेतौ तौ युक्तौ सर्वैश्चसैनिकैः ।
प्रेषयामास युद्धाय भण्डदैत्यः सहोदरौ ॥२॥

तावुभौ परमक्रुद्धौ भण्डदैत्येन देशितौ ।
विषङ्गश्च विशुक्रश्च महोद्यम मवापनुः ॥३॥

कनिष्ठसहितं तत्र युवराजं महाबलम् ।
विशुक्रमनुवव्राज सेना त्रैलोक्यकम्पिनी ॥४॥

अक्षौहिणीचतुःशत्या सेनानामावृतश्च सः ।
युवराजः प्रववृधे प्रतापेन महीयसा ॥५॥

उलूकजित्प्रभृतयो भागिनेया दशोद्धताः ।
भण्डस्य च भगिन्यान्तु धूमिन्यां जातयोनयः ॥६॥

कृतास्त्रशिक्षा भण्डेन मातुलेन महीयसा ।
विक्रमेण वलन्तस्ते सेनानाथाः प्रतस्थिरे ॥७॥

प्रोद्गतैश्चापनिर्घोषैर्घोषयन्तो दिशो दश ।
द्वयोर्मातुलयोः प्रीतिं भागिनेया वितेनिरे ॥८॥

आरूढयानाः प्रत्येकगाढाहङ्कारशालिनः ।
आकृष्टगुरुधन्वानो विशुक्रमनुवव्रजुः ॥९॥

यौवराज्यप्रभाचिह्नच्छत्रचामरशोभितः ।
आरूढवारणः प्राप विशुक्रो युद्धमेदिनीम् ॥१०॥

ततः कलकलारावकारिण्या सेनया वृतः ।
विशुक्रः पटु दध्वान सिंहनादं भयङ्करम् ॥११॥

तत्क्षोभात्क्षुभितस्वान्ताः शक्तयः संभ्रमोद्धताः ।
अग्निप्राकारवलयान्निर्जगमुर्बद्धपङ्कयः ॥१२॥

तडिन्मयमिवाकाशं कुर्वन्त्यः स्वस्वरोचिषा ।
रक्ताम्वुजावृतमिव व्योमचक्रं रणोन्मुखाः ॥१३॥

अथ भण्डकनीयांसावागतौ युद्धदुर्मदौ ।
निशम्य युगपद्योद्धं मन्त्रिणीदण्डनायके ॥१४॥

किरिचकं ज्ञेयचक्रमारूढे रथशेखरम् ।
धृतातपत्रवलये चामराभ्यां च वीजिते ॥१५॥

अप्सरोभिः प्रनृत्ताभिर्गीयमानमहोदये ।
निर्जगमतू रणं कर्तुमुभाभ्यां ललिताज्ञया ॥१६॥

श्रीचक्ररथराजस्य रक्षणार्थं निवेशिते ।
शताक्षौहिणिकां सेनां वर्जयित्वास्त्रभीषणम् ॥१७॥

अन्यत्सर्वं चमुजालं निर्जगाम रणोन्मुखी ।
पुरतः प्राचलद्दण्डनाथा रथनिषेदुषी ॥१८॥

एकयैव कराङ्गुल्या घूर्णयन्ती हलायुधम् ।
मुसलं चान्यहस्तेन भ्रामयन्ती मुहुर्मुहुः ॥१९॥

तरलेन्दुकलाचूडास्फुरत्पोत्रमुखाम्बुजा ।
पुरः प्रहर्त्री समरे सर्वदा विक्रमोद्धता ।
अस्या अनुप्रचलिता गेयचक्ररथस्थिता ॥२०॥

धनुषो ध्वनिना विश्वं पूरयन्ती महोद्धता ।
वेणीकृतकचन्यस्तविलसच्चन्द्रपल्लवा ॥२१॥

स्फुरत्त्रितयनेत्रेण सिन्दूरतिलकत्विषा ।
पाणिना पद्मरम्येण मणिकङ्कणचारुणा ॥२२॥

तूणीरमुखतः कृष्टं भ्रामयन्ती शिलीमुखम् ।
जय वर्धस्ववर्धस्वेत्यतिहर्षसमाकुले ॥२३॥

नृत्यद्भिर्दिव्यमुनिभिर्वर्द्धिताशीर्वचोऽमृतैः ।
गेयचक्ररथेन्द्रस्य चक्रनेमिविघट्टनैः ॥२४॥

दारयन्ती क्षितितलं दैत्यानां हृदयैः सह ।
लोकातिशायिता विश्वमनोमोहनकारिणा ।
गीतिबन्धेनामरीभिर्बह्वीभिर्गीतवैभवा ॥२५॥

अक्षौहिणीसहस्राणामष्टकं समरोद्धतम् ।
कर्षती कल्पविश्लेषनिर्मर्यादाब्धिसंनिभम् ॥२६॥

तस्याः शक्तिचमूचक्रे काश्चित्कनकरोचिषः ।
काश्चिद्दाडिमसंकाशाः काश्चिज्जीमूतरोचिषः ॥२७॥

अन्याः सिंदूररुचयः पराः पाटलपाटलाः ।
काचाद्रिकाम्बराः काश्चित्पराः श्यामलकोमलाः ॥२८॥

अन्यास्तु हीरकप्रख्याः परा गारुत्मतोपमाः ।
विरुद्धैः पञ्चभिर्बाणैर्मिश्रितैः शतकोटिभिः ॥२९॥

व्यञ्जयन्त्यो देहरुचं कतिचिद्विविधायुधाः ।
असंख्याः शक्तयश्चेलुर्दण्डिन्यास्सैनिके तथा ॥३०॥

तथैव सैन्यसन्नाहो मन्त्रिण्याः कुम्भसम्भव ।
यथा भूषणवेषादि यथा प्रभावलक्षणम् ॥३१॥

यथा सद्गुणशालित्वं यथा चाश्रितलक्षणम् ।
यथा दैत्यौघसंहारो यथा सर्वैश्च पूजिता ॥३२॥

यथा शक्तिर्महाराज्ञ्या देडिन्यश्च तथाखिलम् ।
विशेषस्तु परं तस्याः साचिव्ये तत्करे स्थितम् ।
महाराज्ञीवितीर्णं तदाज्ञामुद्राङ्गुलीयकम् ॥३३॥

इत्थं प्रचलिते सैन्ये मन्त्रिणीदण्डनाथयोः ।
तद्भारभङ्गुरा भूमिर्देलालीलामलंबत ॥३४॥

ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् ।
उद्धूतधूलिजंबालीभूतसप्तार्णवीजलम् ॥३५॥

हयस्थैर्हयसादिन्यो रथस्थै रथसंस्थिताः ।
आधोरणैर्हस्तिपकाः खड्गैः पद्गाश्च सङ्गताः ॥३६॥

दण्डनाथाविषङ्गेण समयुध्यन्त सङ्गरे ।
विशुक्रेण समं श्यामा विकृष्टमणिकार्मुका ॥३७॥

अश्वरूढा चकारोच्चैः सहोलूकजिता रणम् ।
सम्पदीशाच जग्राह पुरुषेण युयुत्सया ॥३८॥

विषेण नकुली देवी समाह्वास्त युयुत्सया ।
कुन्तिषेणेन समरं महामाया तदाकरोत् ॥३९॥

मलदेन समं चक्रे युद्धमुन्मत्तभैरवी ।
लघुश्यामा चकारोच्चैः कुशूरेण समं रणम् ॥४०॥

स्वप्नेशी मङ्गलाख्येन दैत्येन्द्रेण रणंव्यधात् ।
वाग्वादिनी तु जघटे द्रुघणेन समं रणे ॥४१॥

कोलाटेन च दुष्टेन चण्डकाल्यकरोद्रणम् ।
अक्षौहिणीभिर्दैत्यानां शताक्षौहिणिकास्तथा ।
महान्तं समरे चक्रुरन्योन्यं क्रोधमूर्छिताः ॥४२॥

प्रवर्तमाने समरे विशुक्रो दुष्टदानवः ।
वर्धमानां शक्तिचमूं हीयमानां निजां चमूम् ॥४३॥

अवलोक्य रुषाविष्टः स कृष्टगुरुकार्मुकः ।
शक्तिसैन्ये समस्तेऽपि तृषास्त्रं प्रमुमोच ह ॥४४॥

तेन दावानलज्वालादीप्तेन मथितं बलम् ।
तृतीये युद्धदिवसे याममात्रं गते रवौ ।
विशुक्रमुक्ततर्षास्त्रव्याकुलाः शक्तयोऽवन् ॥४५॥

क्षोभयन्निन्द्रियग्रामं तालुमूलं विशोषयन् ।
रूक्षयन्कर्णकुहरमङ्गदौर्वल्यमाहवन् ॥४६॥

पातयन्पृथिवीपृष्ठे देहं विस्रंसितायुधम् ।
आविर्बभूव शक्तीनामतितीव्रस्तृषाज्वरः ॥४७॥

युद्धेष्वनुद्यमकृता सर्वोत्साहविरोधिना ।
तर्षेण तेन क्वथितं शक्तिसैन्यं विलोक्यसा ।
मन्त्रिणी सह पोत्रिण्या भृशं चिन्तामवाप ह ॥४८॥

उवाच तां दण्डनाथामत्याहितविशङ्किनीम् ।
रथस्थिता रथगता तत्प्रती कारकर्मणे ।
सखि पोत्रिणि दुष्टस्य तर्षास्त्रमिदमागतम् ॥४९॥

शिथिलीकुरुते सैन्यमस्माकं हा विधेः क्रमः ।
विशुष्कतालुमूलानां विभ्रष्टायुधतेजसाम् ।
शक्तीनां मण्डलेनात्र समरे समुपेक्षितम् ॥५०॥

न कापि कुरुते युद्धं न धारयति चायुधम् ।
विशुष्कतालुमूलत्वा द्वक्तुमप्यालि न क्षमाः ॥५१॥

ईदृशीन्नो गतिं श्रुत्वा किं वक्ष्यति महेश्वरी ।
कृता चापकृतिर्दैत्यैरुपायः प्रविचिन्त्यताम् ॥५२॥

सर्वत्र द्व्यष्टसाहस्राक्षौहिण्यमत्र पोत्रिणि ।
एकापि शक्तिर्नैवास्ति या तर्षेण न पीडिता ॥५३॥

अत्रैवावसरे दृष्ट्वा मुक्तशस्त्रां पताकिनीम् ।
रन्ध्रप्रहारिणो हन्त बाणैर्निघ्नन्ति दानवाः ॥५४॥

अत्रोपायस्त्वया कार्यो मया च समरोद्यमे ।
त्वदीयरथपर्वस्थो योऽस्ति शीतमहार्णवः ॥५५॥

तमादिश समस्तानां शक्तीनां तर्षनुत्तये ।
नाल्पैः पानीयपानाद्यैरेतासां तर्षसंक्षयः ॥५६॥

स एव मदिरासिंधुः शक्त्यौघं तर्पयिष्यति ।
तमादिश महात्मानं समरोत्साहकारिणम् ।
सर्वतर्षप्रशमनं महाबलविवर्धनम् ॥५७॥

इत्युक्ते दण्डनाथा सा सदुपायेन हर्षिता ।
आजुहाव सुधासिंधुमाज्ञां चक्रेश्वरी रणे ॥५८॥

स मदालसरक्ताक्षो हेमाभः स्रग्विभूषितः ॥५९॥

प्रणम्य दण्डनाथां तां तदाज्ञापरिपारकः ॥६०॥

आत्मानं बहुधा कृत्वा तरुणादित्यपाटलम् ।
क्वचित्तापिच्छवच्छ्यामं क्वचिच्च धवलद्युतिम् ॥६१॥

कोटिशो मधुराधारा करिहस्तसमाकृतीः ।
ववर्ष सिंधुराजोऽयं वायुना बहुलीकृतः ॥६२॥

पुष्कलावर्तकाद्यैस्तु कलपक्षयबलाहकैः ।
निषिच्यमानो मध्येऽब्धिः शक्तिसैन्ये पपात ह ॥६३॥

यद्गन्धाघ्राममात्रेण मृत उत्तिष्ठते स्फुटम् ।
दुर्बलः प्रबलश्च स्यात्तद्ववर्ष सुरांबुधिः ॥६४॥

परार्द्धसंख्यातीतास्ता मधुधारापरंपराः ।
प्रपिबन्त्यः पिपासार्तैर्मुखैः शक्तय उत्थिताः ॥६५॥

यथा सा मदिरासिंधुवृष्टिर्दैत्येषु नो पतेत् ।
तथा सैन्यस्य परितो महाप्राकारमण्डलम् ॥६६॥

लघुहस्ततया मुक्तैः शरजातैः सहस्रशः ।
चकार विस्मयकरी कदंबवनवासिनी ॥६७॥

कर्मणा तेन सर्वेऽपि विस्मिता मरुतोऽभवन् ।
अथ ताः शक्तयो भूरि पिबन्ति स्म रणान्तरे ॥६८॥

विविधा मदिराधारा बलोत्साहविवर्धनीः ।
यस्या यस्या मनःप्रीती रुचिः स्वादो यथायथा ॥६९॥

तृतीये युद्धदिवसे प्रहरद्वितयावधि ।
संततं मध्यधाराभिः प्रववर्ष सुरांबुधिः ॥७०॥

गौडी पैष्टी च माध्वी च वरा कादंबरी तथा ।
हैताली लाङ्गलेया च तालजातास्तथा सुराः ॥७१॥

कल्पवृक्षोद्भवा दिव्या नानादेशसमुद्भवाः ।
सुस्वादुसौरभाद्याश्च शुभगन्धसुखप्रदाः ॥७२॥

बकुलप्रसवामोदा ध्वनन्त्यो बुद्बुदोज्ज्वलाः ।
कटुकाश्च कषायाश्च मधुरास्तिक्ततास्पृशः ॥७३॥

बहुवर्मसमाविष्टाश्छेदिनीः पिच्छलास्तथा ।
ईषदम्लाश्च कट्वम्ला मधुराम्लास्तथा पराः ॥७४॥

शस्त्रक्षतरुगाहन्त्री चास्थिसंधानदायिनी ।
रणभ्रमहरा शीता लघ्व्यस्तद्वत्कवोष्ठकाः ॥७५॥

संतापहारिणीश्चैव वारुणीस्ता जयप्रदाः ।
नानाविधाः सुराधारा ववर्ष मदिरार्णवः ॥७६॥

अविच्छिन्नं याममात्रमेकैका तत्र योगिनी ।
ऐरावतकर प्रख्यां सुराधारां मुदा पपौ ॥७७॥

उत्तानं वदनं कृत्वा विलोलरसनाश्चलम् ।
शक्तयः प्रपपुः सीधु मुदा मीलितलोचनाः ॥७८॥

इत्थं बहुविधं माध्वीधारापातैः सुधांबुधिः ।
आगतस्तर्पयित्वा तु दिव्यरूपं समास्थितः ॥७९॥

पुनर्गत्वा दण्डनाथां प्रणम्य स सुरांबुधिः ।
स्निग्धगंभीरघोषेण वाक्यं चेदमुवाच ताम् ॥८०॥

देवि पश्य महाराज्ञि दण्डमण्डलनायिके ।
मया संतर्पिता मुग्धरूपा शक्तिवरूथिनी ॥८१॥

काश्चिन्नृत्यन्ति गायन्त्यो कलक्वणितमेखलाः ।
नृत्यन्तीनां पुरः काश्चित्करतालं वितन्वते ॥८२॥

काश्चिद्धसंति व्यावल्गद्वल्गुवक्षोजमण्डलाः ।
पतन्त्यन्योन्यमङ्गेषु काश्चिदानन्दमन्थराः ॥८३॥

काश्चिद्वल्गन्ति च श्रोणिविगलन्मेखलांबराः ।
काश्चिदुत्थाय संनद्धा घूर्णयन्ति निरायुधाः ॥८४॥

इत्थं निर्दिश्यमानास्ताः शक्ती मैरेय सिंधुनां ।
अवलोक्य भृशं तुष्टा दण्डिनी तमुवाच ह ॥८५॥

परितुष्टास्मि मद्याब्धे त्वया साह्यमनुष्ठितम् ।
देवकार्यमिद किञ्च निर्विघ्नितमिदं कृतम् ॥८६॥

अतः परं मत्प्रसादाद्द्वापरे याज्ञिकैर्मखे ।
सोमपानवदत्यन्तमुपयोज्यो भविष्यसि ॥८७॥

मन्त्रेण पूतं त्वां यागे पास्यन्त्यखिलदेवताः ।
यागेषु मन्त्रपूतेन पीतेन भवता जनाः ॥८८॥

सिद्धिमृद्धिं बलं स्वर्गमपवर्गं च बिभ्रतु ।
महेश्वरी महादेवो बलदेवश्च भार्गवः ।
दत्तात्रेयो विधिर्विष्णुस्त्वां पास्यन्ति महाजनाः ॥८९॥

यागे समर्चितस्त्वं तु सर्वसिद्धिं प्रदास्यसि ॥९०॥

इत्थं वरप्रदानेन तोषयित्वा सुरांबुधिम् ॥९१॥

मन्त्रिणीं त्वरयामास पुनर्युद्धाय दण्डिनी ।
पुनः प्रववृते युद्धं शक्तीनां दानवैः सह ॥९२॥

मुदाट्टहासनिर्भिन्नदिगष्टकधरा धरम् ।
प्रत्यग्रमदिरामत्ताः पाटलीकृतलोचनाः ।
शक्तयो दैत्यचक्रेषु न्यपतन्नेकहेलया ॥९३॥

द्वयेन द्वयमारेजे शक्तीनां समदश्रियाम् ।
मदरागेण चक्षूंषि दैत्यरक्तेन शस्त्रिका ॥९४॥

तथा बभूव तुमुलं युद्धं शक्तिसुरद्विषाम् ।
यथा मृत्युरवित्रस्तः प्रजाः संहरते स्वयम् ॥९५॥

संस्खलत्पदविन्यासा मदेनारक्तदृष्टयः ।
स्खलदक्षरसंदर्भवीरभाषा रणोद्धताः ॥९६॥

कदंबगोलकाकारा दृष्टसर्वाङ्गदृष्टयः ।
युवराजस्य सैन्यानि शक्त्यः समानाशयन् ॥९७॥

अक्षौहिणीशतं तत्र दण्डिनी सा व्यदारयत् ।
अक्षौहिणीसार्द्धशत नाशयामास मन्त्रिणी ॥९८॥

अश्वारूढाप्रभृतयो मदारुणविलोचनाः ।
अक्षौहिणीसार्धशतं नित्युरन्तकमन्दिरम् ॥९९॥

अङ्कुशेनातितीक्ष्णेन तुरगा रोहिणी रणे ।
उलूकजितमुन्मथ्य परलोकातिथिं व्यधात् ॥१००॥

सम्पत्करीप्रभृतयः शक्तिदण्डाधिनायिकाः ।
परुषेण मुखान्यन्यान्यवरुद्धाव्यदारयन् ॥१०१॥

अस्तं गते सवितरि ध्वस्तसर्वबलं ततः ।
विशुक्रं योधयामास श्यामला कोपशालिनी ॥१०२॥

अस्त्रप्रत्य स्त्रमोक्षेण भीषणेन दिवौकसाम् ।
महता रणकृत्येन योधयामास मन्त्रिणी ॥१०३॥

आयुधानि सुतीक्ष्णानि विशुक्रस्य महौजसः ।
क्रमशः खण्डयन्ती सा केतनं रथसारथिम् ॥१०४॥

धनुर्गुणं धनुर्दण्डं खण्डयन्ती शिलीमुखैः ।
अस्त्रेण ब्रह्मशिरसा ज्वलत्पावकरोचिषा ॥१०५॥

विशुक्रं मर्दयामास सोऽपतच्छूर्णविग्रहः ।
विषङ्गं च महादैत्यं दण्डनाथा मदोद्धता ॥१०६॥

योधयामास चण्डन मुसलेन विनिघ्नती ।
सचापि दुष्टो दनुजः कालदण्डनिभां गदाम् ।
उद्यम्य बाहुना युद्धं चकाराशेषभीषणम् ॥१०७॥

अन्योन्यमङ्गं मृद्नन्तौ गदायुद्धप्रवर्तिनौ ।
चण्डाट्टहासमुखरौ परिभ्रमणकारिणौ ॥१०८॥

कुर्वाणौ विविधांश्चारान्घूर्णन्तौ तूर्मवेष्टिनौ ।
अन्योन्यदण्डहननैर्मोहयन्तौ मुहुर्मुहुः ॥१०९॥

अन्योन्यप्रहृतौ रन्ध्रमीक्षमाणौ महोद्धतौ ।
महामुसलदण्डाग्रघट्टनक्षोभितांबरौ ।
अयुध्येतां दुराधर्षौं दण्डिनीदैत्यशेखरौ ॥११०॥

अथार्द्धरात्रिसमयपर्यन्तं कृतसंगरा ।
संक्रुद्धा हन्तुमारेभे विषङ्गं दण्डनायिका ॥१११॥

तं मूर्धनि निमग्नेन हलेनाकृष्य वैरिणम् ।
कठोरं ताडनं चक्रे मुसलेनाथ पोत्रिणी ॥११२॥

ततो मुसलघातेन त्यक्तप्राणो महासुरः ।
चूर्णितेन शताङ्गेन समं भूतलमाश्रयत् ॥११३॥

इति कृत्वा महत्कर्म मन्त्रिणीदण्डनायिके ।
तत्रैव तं निशा शेषं निन्यतुः शिबिरं प्रति ॥११४॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपख्याने विशुक्रविषङ्गवधो नामाष्टाविंशोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP