उत्तरभागः - अध्यायः २५
ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.
ततः श्रुत्वा वधं तेषां तपोबलवतामपि ।
न्यश्वसत्कृष्णसर्पेन्द्र इव भण्डो महासुरः ॥१॥
एकान्ते मन्त्रयामास स आहूय महोदरौ ।
भण्डः प्रचण्डशैण्डीर्यः काङ्क्षमाणो रणे जयम् ॥२॥
युवराजोऽपि सक्रोधो विषङ्गेण यवीयसा ।
भण्डासुरं नमस्कृत्य मन्त्रस्थानमुपागमत् ॥३॥
अत्याप्तैर्मन्त्रिभिर्युक्तः कुटिलाक्षपुरःसरैः ।
ललिताविजये मन्त्रं चकार क्वथिताश्यः ॥४॥
भण्ड उवाच
अहो बत कुलभ्रंशः समायातः सुरद्विषाम् ।
उपेक्षामधुना कर्तुं प्रवृत्तो बलवान्विधिः ॥५॥
मद्भृत्यनाममात्रेण विद्रवन्ति दिवौकसः ।
तादृशानामिहास्माकमागतोऽयं विपर्ययः ॥६॥
करोति बलिनं क्लीबं धनिनं धनवर्जितम् ।
दीर्घायुषमनायुष्कं दुर्धाता भवितव्यता ॥७॥
क्व सत्त्वमस्मद्बाहुनां क्वेयं दुर्ल्ललिता वधूः ।
अकाण्ड एव विधिना कृतोऽयं निष्ठुरो विधिः ॥८॥
सर्पिणीमाययोदग्रास्तंया दुर्घटशौर्यया ।
अधिसंग्रामभूचक्रे सेनान्यो विनिपातिताः ॥९॥
एवमुद्दामदर्पाढ्या वनिता कापि मायिनी ।
यदि संप्रहरत्यस्मान्धिग्बलं नो भुजार्जितम् ॥१०॥
इमं प्रसंगं वक्तुं च जिह्वा जिह्वेति मामकी ।
वनिता किमु मत्सैन्यं मर्द यिष्यति दुर्मदा ॥११॥
तदत्र मूलच्छेदाय तस्या यत्नो विधीयताम् ।
मया चारमुखाज्ज्ञाता तस्या वृत्तिर्महाबला ॥१२॥
सर्वेषामपि सैन्यानां पश्चादेवावतिष्ठते ।
अग्रतश्चलितं सैन्यं हयहस्तिरथादिकम् ॥१३॥
अस्मिन्नेव ह्यवसरे पार्ष्णिग्राहो विधीयताम् ।
पार्ष्णिग्रहमिमं कर्तुं विषङ्गश्चतुरो भवेत् ॥१४॥
तेन प्रौढमदोन्मता बहुसंग्रामदुर्मदाः ।
दश पञ्च च सेनान्यः सह यान्तु युयुत्सया ॥१५॥
पृष्ठतः परिवारास्तु न तथा संति ते पुनः ।
अल्पैस्तु रक्षिता वै स्यात्तेनैवासौ सुनिग्रहा ॥१६॥
अतस्त्वं बहुसन्नाहमाविधाय मदोत्कटः ।
विषङ्ग गुप्तरूपेण पार्ष्णिग्राहं समाचर ॥१७॥
अल्पीयसी त्वया सार्द्धं सेना गच्छतु विक्रमात् ।
सज्जाश्च लन्तु सेनान्यो दिक्पालविजयोद्धताः ॥१८॥
अक्षौहिण्यश्च सेनानां दश पञ्च चलन्तु ते ।
त्वं गुप्तवेषस्तां दुष्टां सन्निपत्य दृढं जहि ॥१९॥
सैव निःशेषशक्तीनां मूलभूता महीयसी ।
तस्याः समूलनाशेन शक्तिवृन्दं विनश्यति ॥२०॥
कन्दच्छेदे सरोजिन्या दलजालमिवांभसि ।
सर्वेषामेव पश्चाद्यो रथश्चलति भासुरः ॥२१॥
दशयोजनसंपन्ननिजदेहसमुच्छ्रयः ।
महामुक्तातपत्रेण सर्वोद्ध्व परिशोभितः ॥२२॥
वहन्मुहर्वीज्यमानं चामराणां चतुष्टयम् ।
उत्तङ्गकेतुसंघातलिखितांबुदमण्डलः ॥२३॥
तस्मिन्रथे समायाति सा दृष्टा हरिणेक्षणा ।
निबृतं संनिपत्य त्वं चिह्नेनानेन लक्षिताम् ॥२४॥
तां विजित्य दुराचारां केशेष्वा कृष्य मर्दय ।
पुरतश्चलिते सैन्ये सत्त्वशालिनि सा वधूः ॥२५॥
स्त्रीमात्ररक्षा भवतो वशमेष्यति सत्त्वरम् ।
भवत्सहायभूतायां सेनेन्द्राणामिहाभिधा ॥२६॥
शृणु यैर्भवतो युद्धे साह्यकार्यमतन्द्रितैः ।
आद्यो मदनको नाम दीर्घजिह्वो द्वितीयकः ॥२७॥
हुबको हुलुमुलुश्च कक्लसः कक्लिवाहनः ।
थुक्लसः पुण्ड्रकेतुश्च चण्डबाहुश्च कुक्कुरः ॥२८॥
जंबुकाक्षो जंभनश्च तीक्ष्णशृङ्गस्त्रिकण्टकः ।
चन्द्रगुप्तश्च पञ्चैते दश चोक्ताश्चमूवराः ॥२९॥
एकैकाक्षौहिणीयुक्ताः प्रत्येकं भवता सह ।
आगमिष्यन्ति सेनान्यो दमनाद्या महाबलाः ॥३०॥
परस्य कटकं नैव यथा जानाति ते गतिम् ।
तथा गुप्तसमाचारः पार्ष्णिग्राहं समाचर ॥३१॥
अस्मिन्कार्ये सुमहतां प्रौढिमानं समुद्वहन् ।
निषङ्ग त्वं हि तभसे जयसिद्धिमनुत्तमाम् ॥३२॥
इति मन्त्रितमन्त्रोऽयं दुर्मन्त्री भण्डदानवः ।
विषङ्गं प्रेषयामास रक्षितं सैन्यपालकैः ॥३३॥
अथ श्रीललितादेव्याः पार्ष्णिग्राहकृतोद्यमे ।
युवराजानुजे दैत्ये सूर्योऽस्तगिरिमाययौ ॥३४॥
प्रथमे युद्धदिवसे व्यतीते लोकभीषणे ।
अन्धकारः समभवत्तस्य बाह्यचिकीर्षया ॥३५॥
महिषस्कन्धधूम्राभं वनक्रोडवपुर्द्दुति ।
नीलकण्ठनिभच्छायं निबिडं पप्रथे तमः ॥३६॥
कुञ्जेषु पिण्डितमिव प्रधावदिव संधिषु ।
उज्जिहानमिव क्षोणीविवरेभ्यः सहस्रशः ॥३७॥
निर्गच्छदिव शैलानां भूरि कन्दरमन्दिरात् ।
क्वचिद्दीपप्रभाजाले कृतकातरचेष्टितम् ॥३८॥
दत्तावलंबनमिव स्त्रीणां कर्णोत्पलत्विषि ।
एकीभूतमिव प्रौढदिङ्नागमिव कज्जले ।
आबद्धमैत्रकमिव स्फुरच्छाद्वलमण्डले ॥३९॥
कृतप्रियाश्लेषमिव स्फुरन्तीष्वसियष्टिषु ।
गुप्तप्रविष्टमिव च श्यामासु वनपङ्क्तिषु ॥४०॥
क्रमेण बहुलीभूतं प्रससार महत्तमः ।
त्रियामावामनयना नीलकञ्चुकरोचिषा ॥४१॥
तिमिरेणावृतं विश्वं न किञ्चित्प्रत्यपद्यत ।
असुराणां प्रदुष्टानां रात्रिरेव बलावहा ॥४२॥
तेषां मायाविलासोऽयं तस्यामेव हि वर्धते ।
अथ प्रचलितं सैन्यं विषङ्गेण महौजसा ॥४३॥
धौतखड्गलताच्छायावर्धिष्णु तिमिरच्छटम् ।
दमनाद्याश्च सेनान्यः श्मामकङ्कटधारिणः ॥४४॥
श्यामोष्णीषधराः श्यामवर्णसर्वपरिच्छदाः ।
एकत्वमिव संप्राप्तास्तिमिरेणातिभूयसा ॥४५॥
विषङ्गमनुसंचेलुः कृताग्रजनमस्कृतिम् ।
कूटेन युद्धकृत्येन विजिगीषुर्महेश्वरीम् ॥४६॥
मेघडंबरकं नाम दधे वक्षसि कङ्कटम् ।
यथा तस्य निशायुद्धानुरूपो वेषसंग्रहः ॥४७॥
तथा कृतवती सेना श्यामलं कञ्चुकादिकम् ।
न च दुन्दुभिनिस्वानो न च मर्द्दलगर्जितम् ॥४८॥
पणवानकभेरीणां न च घोषविजृंभणम् ।
गुप्ताचाराः प्रचलितास्तिमिरेण समावृताः ॥४९॥
परैरदृश्यगतयो विष्कोशीकृतरिष्टयः ।
पश्चिमाभिमुखं यान्ति ललितायाः पताकिनीम् ॥५०॥
आवृतोत्तरमार्गेण पूर्वभागमशिश्रियन् ।
निश्वासमपि सस्वानमकुर्वन्तः पदेपदे ॥५१॥
सावधानाः प्रचलिताः पार्ष्णिग्राहाय दानवाः ।
भूयः पुरस्य दिग्भागं गत्वा मन्दपराक्रमाः ॥५२॥
ललितासैन्यमेव स्वान्सूचयन्तः प्रपृच्छतः ।
आगत्य निभृतं पृष्ठे कवचच्छन्नविग्रहाः ॥५३॥
चक्रराजरथं तुङ्गं मेरुमन्दरसंनिभम् ।
अपश्यन्नतिदीप्ताभिः शक्तिभिः परिवारितम् ॥५४॥
तत्र मुक्तातपत्रस्य वर्त्तमानामधःस्थले ।
सहस्रादित्यसंकाशां पश्चिमाभिमुखीं स्थिताम् ॥५५॥
कामेश्वर्यादिनित्याभिः स्वसमानसमृद्धिभिः ।
नर्मालापविनोदेन सेव्यमानां रथोत्तमे ॥५६॥
तां तथाभूतवृत्तान्ताम तादृशरणोद्यमाम् ।
पुरोगतं महत्सैन्यं वीक्षमाण सकौतुकम् ॥५७॥
मन्वानश्च हि तामेव विषङ्गः सुदुराशयः ।
पृष्ठवंशे रथेन्द्रस्य घट्टयामास सैनिकैः ॥५८॥
तत्राणि मादिशक्तीनां परिवारवरूथिनी ।
महाकलकलं चक्रुरणिमाद्याः परःशतम् ॥५९॥
पट्टिशैर्द्रुघणैश्चैव भिन्दिपालैर्भुशुण्डिभिः ।
कठोरवज्रनिर्धातनिष्ठुरैः शक्तिमण्डलैः ॥६०॥
मर्दयन्तो महासत्त्वाः समरं बहुमेनिरे ।
आकस्मिकरणोत्साहविपर्याविष्टविग्रहम् ॥६१॥
अकाण्डक्षुभितं चासीद्रथस्थं शक्तिमण्डलम् ।
विपाटैः पाटयामासुरदृश्यैरन्धकारिणः ॥६२॥
ततश्चक्ररथेन्द्रस्य नवमे पर्वणि स्थिताः ।
अदृश्यमानशस्त्राणामदृश्यनिजवर्मणाम् ॥६३॥
तिमिरच्छन्नरूपाणां दानवानां शिलीमुखैः ।
इतस्ततो बहु क्लिष्टं छन्नवर्मितमर्मवत् ॥६४॥
शक्तीनां मण्डलं तेने क्रन्दनं ललितां प्रति ।
पूर्वानुक्रम तस्तत्र संप्राप्तं सुमहद्भयम् ॥६५॥
कर्णाकर्णिकयाकर्ण्य ललिता कोपमादधे ।
एतस्मिन्नन्तरे भण्डश्चण्डदुर्मत्रिपण्डितः ॥६६॥
दशाक्षौहिणिकायुक्तं कुटिलाक्षं महौजसम् ।
ललितासैन्यनाशाय युद्धाय प्रजिघाय सः ॥६७॥
यथा पश्चात्कलकलं श्रुत्वाग्रेवर्तिनी चमूः ।
नागच्छति तथा चक्रे कुटिलाक्षो महारणम् ॥६८॥
एवं चोभयतो युद्धं पश्चादग्रे तथाभवत् ।
अत्यन्ततुमुलं चासीच्छक्तीनां सैनिके महत् ॥६९॥
नक्तसत्त्वाश्च दैत्येन्द्रास्तिमिरेण समावृताः ।
इतस्ततः शिथिलतां कण्टके निन्युरुद्धताः ॥७०॥
निषङ्गेण दुराशेन धमनाद्यैश्चमूवरैः ।
चमूभिश्च प्रणहिता न्यपतञ्छत्रुकोटयः ॥७१॥
ताभिर्दैत्यास्त्रमालाभिश्चक्रराजरथो वृतः ।
बकावलीनिबिडतः शैलराज इवाबभौ ॥७२॥
आक्रान्तपर्वणाधस्ताद्विषङ्गेण दुरात्मना ।
मुक्त एकः शरोदेव्यास्तालवृन्तमचूर्णयत् ॥७३॥
अथ तेनाव्याहितेन संभ्रान्ते शक्तिमण्डले ।
कामेश्वरीमुखा नित्या महान्तं क्रोधमाययुः ॥७४॥
ईषद्भृकुटिसंसक्तं श्रीदेव्या वदनांबुजम् ।
अवलोक्य भृशोद्विग्ना नित्या दधुरतिश्रमम् ॥७५॥
नित्या कालस्वरूपिण्यः प्रत्येकं तिथिविग्रहाः ।
क्रोधमुद्वीक्ष्य सन्नाज्ञ्या युद्धाय दधुरुद्यमम् ॥७६॥
प्रणिपत्य च तां देवीं महाराज्ञीं महोदयाम् ।
ऊचुर्वाचमकाण्डोत्थां युद्धकौतुकगद्गदाम् ॥७७॥
तिथिनित्या उचुः ।
देवदेवी महाराज्ञी तवाग्रे ब्रेक्षितां चमूम् ।
दण्डिनीमन्त्रनाथादिमहाशक्त्याभपालिताम् ॥७८॥
धर्षितु कातरा दुष्टा मायाच्छद्मपरायणाः ।
पार्ष्णिग्राहेण युद्धेन बाधन्ते रथपुङ्गवम् ॥७९॥
तस्मात्तिमिरसंछन्नमूर्तीनां विबुधद्रुहाम् ।
शमयामो वयं दर्पं क्षणमात्रं विलोकय ॥८०॥
या वह्निवासिनी नित्या या ज्वालामालिनी परा ।
ताभ्यां प्रदीपिते युद्धे द्रष्टुं शक्ताः सुरद्विषः ॥८१॥
प्रशमय्य महादर्पं पार्ष्णिग्राहप्रवर्तिनाम् ।
सहसैवागमिष्यामः सेवितुं श्रीपदांबुजम् ।
आज्ञां देहि महाराज्ञि मर्दनार्थं दुरात्मनाम् ॥८२॥
इत्युक्ते सति नित्याभिस्तथास्त्विति जगाद सा ।
अथ कामेश्वरी नित्या प्रणम्य ललितेश्वरीम् ।
तया संप्रेषिता ताभिः कुण्डलीकृत कार्मुका ॥८३॥
सा हन्तुं तान्दुराचारान्कूटयुद्धकृतक्षणान् ।
बालारुणमिव क्रोधारुणं वक्त्रं वितन्वती ॥८४॥
रे रे तिष्ठत पापिष्ठा मायानिष्ठाश्छिनद्मि वः ।
अन्धकारमनुप्राप्य कूटयुद्धपरायणाः ॥८५॥
इति तान्भर्त्सयन्ती सा तूणीरोत्खातसायकात् ।
पर्वावरोहणं चक्रे क्रोधेन प्रस्खलद्गतिः ॥८६॥
सज्जकार्मुकहस्ताश्च भगमालापुरःसराः ।
अन्याश्च चरिता नित्याः कृत पर्वावरोहणाः ॥८७॥
ज्वालामालिनि नित्या च या नित्या वह्निवासिनी ।
सज्जे युद्धे स्वतेजोभिः समदीपयतां रणे ॥८८॥
अथ ते दुष्टदनुजाः प्रदीप्ते युद्धमण्डले ।
प्रकाशवपुषस्तत्र मरान्तं क्रोधमाययुः ॥८९॥
कामेश्वर्यादिका नित्यास्ताः पञ्चदश सायुधाः ।
ससिंहनादास्तान्दैत्यानमृद्नन्नेव हेलया ॥९०॥
महाकलकलस्तत्र समभूद्युद्धसीमनि ।
मन्दरक्षोभितांभोदिवेल्लत्कल्लोलमण्डलः ॥९१॥
ताश्च नित्यावलत्क्वाणकङ्कणैर्युधि पाणिभिः ।
आकृष्य प्रामकोदण्डास्तेनिरे युद्धमुद्धतम् ॥९२॥
यामत्रितयपर्यन्तमेवं युद्धमवर्त्तत ।
नित्यानां निशितैर्बाणैरक्षौहिण्यश्च संहृताः ॥९३॥
जघान दमनं दुष्टं कामेशी प्रथमं शरैः ।
दीर्घजिह्वं चमूनाथं भगमाला व्यदारत् ॥९४॥
नित्यक्लिन्ना च भेरुण्डा हुम्बेकं हुलुमल्लकम् ।
कक्लसं वह्निवासा च निजघान शरैः शतैः ॥९५॥
महावज्रेश्वरी बाणैरभिनत्केकिवाहनम् ।
पुक्लसं शिवदूती च प्राहिणोद्यमसादनम् ॥९६॥
पुण्ड्रकेतुं भुजोद्दण्डं त्वरिता समदारयत् ।
कुलसुन्दरिका नित्या चण्डबाहुं च कुक्कुरम् ॥९७॥
अथ निलपताका च विजया च जयोद्धते ।
जंबुकाक्षं जृंभणं च व्यतन्वातां रणे बलिम् ।
सर्वमङ्गलिका नित्या तीक्ष्णशृङ्गमखण्डयत् ।
ज्वालामालिनिका नित्या जघानोग्रं त्रिकर्णकम् ॥९८॥
चन्द्रगुप्तं च दुःशीलं चित्रं चित्रा व्यदारत् ।
सेनानाथेषु सर्वेषु निहतेषु दुरात्मसु ॥९९॥
विषङ्गः परमः कुद्धश्चचाल पुरतो बली ।
अथ यामावशेषायां यामिन्यां घटिकाद्वयम् ॥१००॥
नित्याभिः सह संग्रामं विधाय स दुराशयः ।
अशक्यत्वं समुद्दिश्य चक्राम प्रपलायितुम् ॥१०१॥
कामेश्वरीकराकृष्टचापोत्थौर्निशितैः शरैः ।
भिन्नवर्मा दृढतरं विषङ्गो विह्वलाशयः ।
हतावशिष्टैर्योधैश्च सार्धमेव पलायितः ॥१०२॥
ताभिर्न निहतो दुष्टो यस्माद्वध्यः स दानवः ।
दण्डनाथाशरेणैव कालदण्डसमत्विषा ॥१०३॥
तस्मिन्पलायिते दुष्टे विषङ्गे भण्डसोदरे ।
सा विभाता च रजनी प्रसन्नाश्चाभवन्दिशः ॥१०४॥
पलायितं रणेवीरमनुसर्त्तुमनौचिती ।
इति ताः समरान्नित्यास्तस्मिन्काले व्यरंसिषुः ॥१०५॥
दैत्यशस्त्रव्रणस्यन्दिशोणितप्लुतविग्रहाः ।
नित्याः श्रीललितां देवीं प्रणिपेतुर्जयोद्धताः ॥१०६॥
इत्थं रात्रौ महद्युद्धं तत्र जातं भयङ्करम् ।
नित्यानां रूपजालं च शस्त्रक्षतमलोकयत् ॥१०७॥
श्रुत्वोदन्तं महाराज्ञी कृपापाङ्गेन सैक्षत ।
तदालोकनमात्रेण व्रणो निर्व्रणतामगात् ॥१०८॥
नित्यानां विक्रमैश्चापि ललिता प्रीतिमासदत् ॥१०९॥
इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने विषङ्गपलायनं नाम पञ्चविंशोऽध्याय
N/A
References : N/A
Last Updated : November 11, 2016
TOP