उत्तरभागः - अध्यायः २९
ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.
अगस्त्य उवाच
अश्वानन महाप्राज्ञ वर्णितं मन्त्रिणीबलम् ।
विषङ्गस्य वधो युद्धे वर्णितो दण्डनाथया ॥१॥
श्रीदेव्याः श्रोतुमिच्छामि रणचक्रे पराक्रमम् ।
सोदरस्यापदं दृष्ट्वा भण्डः किमकरोच्छुचा ॥२॥
कथं तस्य रणोत्साहः कैः समं समयुध्यत ।
सहायाः केऽभवंस्तस्य हतभ्रातृतनूभुवः ॥३॥
हयग्रीव उवाच
इदं शृणु महाप्राज्ञ सर्वपापनिकृन्तनम् ।
ललिताचरितं पुण्यमणिमादिगुमप्रदम् ॥४॥
वैषुवायनकालेषु पुण्येषु समयेषु च ।
सिद्धिदं सर्वपापघ्नं कीर्तिदं पञ्चपर्वसु ॥५॥
तदा हतौ रणे तत्र श्रुत्वा निजसहोदरौ ।
शोकेन महताविष्टो भण्डः प्रविललाप सः ॥६॥
विकीर्मकेशो धरणौ मूर्छितः पतितस्तदा ।
न लेभे किञ्चिदाश्वासं भ्रातृव्यसनकर्शितः ॥७॥
पुनः पुनः प्रविलपन्कुटिलाक्षेण भूरिशः ।
आश्वास्यामानः शोकेन युक्तः कोपमवाप सः ॥८॥
फालं वहन्नतिक्रूरं भ्रमद्भ्रुकुटिभीषणम् ।
अङ्गारपाटलाक्षश्च निःश्वसन्कृष्णसर्पवत् ॥९॥
उवाच कुटिलाक्षं द्राक्समस्तपृतनापतिम् ।
क्षिप्रं मुहुर्मुहुः स्पृष्ट्वा धुन्वानः करवालिकाम् ॥१०॥
क्रोधहुङ्कारमातन्वन्गर्जन्नुत्पातमेघवत् ॥११॥
ययैव दृष्टया मायाबलाद्युद्धे विनाशिताः ।
भ्रातरो मम पुत्राश्च सेनानाथाः सहस्रशः ॥१२॥
तस्याः स्त्रियाः प्रमत्तायाः कण्ठोत्थैः शोणितद्रवैः ।
भ्रातृपुत्रमहाशोकवह्निं निर्वापयाम्यहम् ॥१३॥
गच्छ रे कुटिलाक्ष त्वं सज्जीकुरु पताकिनीम् ।
इत्युक्त्वा कठिनं वर्म वज्रपातसहं महत् ॥१४॥
दधानो भुजमध्येन बध्नन्पृष्ठ तथेषुधी ।
उद्दाममौर्विनिःश्वासकठोरं भ्रामयन्धनुः ॥१५॥
कालाग्निरिव संक्रुद्धो निर्जगाम निजात्पुरात् ।
तालजङ्घादिकैः सार्द्धंपूर्वद्वारे निवेशिते ॥१६॥
चतुर्भिर्धृतशस्त्रौघैर्धृतवर्मभिरुद्धतैः ।
पञ्चत्रिंशच्चमूनाथैः कुटिलाक्षपुरःसरैः ॥१७॥
सर्वसेनापतीन्द्रेण कुटिलाक्षेण स क्रुधा ।
मिलितेन च भण्डेन चत्वारिंशच्चमूवराः ॥१८॥
दीप्तायुधा दीप्तकेशा निर्जग्मुर्दीप्तकङ्कटाः ।
द्विसहस्राक्षौहिणीनां पञ्चाशीतिः परार्धिका ॥१९॥
तदेनमन्वगादेकहेलया मथितुं द्विषः ।
भण्डासुरे विनिर्याते सर्वसैनिकसंकुले ॥२०॥
शून्यके नगरे तत्र स्त्रीमात्रमवशेषितम् ।
आभिलो नाम दैत्येन्द्रो रथवर्यो महारथः ।
सहस्रयुग्यसिंहाढ्यमारुरोह रणोद्धतः ॥२१॥
तत्वरे विज्वलज्ज्वालाकालाग्निरिव दीप्तिमान् ।
घातको नाम वै खड्गश्चन्द्रहाससमाकृतिः ॥२२॥
इतस्ततश्चलन्तीनां सेनानां धूलिरुत्थिता ।
वोढुं तासां भरं भूमिरक्षमेव दिवं ययौ ॥२३॥
केचिद्भूमेरपर्याप्ताः प्रचेलुर्व्योमवर्त्मना ।
केषाञ्चित्स्कन्धमारूढाः केचिच्चेलुर्महारथाः ॥२४॥
न दिक्षु न च भूचक्रे न व्योमनि च ते ममुः ।
दुःखदुखेन ते चेलुरन्योन्याश्लेषपीडिताः ॥२५॥
अत्यन्त सेनासंमर्दाद्रथचक्रैर्विचूर्णिताः ।
केचित्पादेन नागानां मर्दिता न्यपतन्भुवि ॥२६॥
इत्थं प्रचलिता तेन समं सर्वैश्च सैनिकैः ।
वज्रनिष्पेषसदृशो मेघनादो व्यधीयत ॥२७॥
तेनातीव कठोरेण सिंहनादेन भूयसा ।
भण्डदैत्यमुखोत्थेन विदीर्णमभवज्जगत् ॥२८॥
सागराः शोषमापन्नाश्चन्द्राकारै प्रपलायितौ ।
उडूनि न्यपतन्व्योम्नो भूमिर्देलायिताभवत् ॥२९॥
दिङ्नागाश्चाभवंस्त्रस्ता मूर्च्छिताश्च दिवौकसः ।
शक्तीनां कटकं चासीदकाण्डत्रासविह्वलम् ॥३०॥
प्राणान्संधारयामासुः कथञ्चिन्मध्य आहवे ।
शक्तयो भयविभ्रष्टान्यायुधानि पुनर्दधुः ॥३१॥
वह्निप्राकारवलयं प्रशान्तं पुनरुत्थितम् ।
दैत्येन्द्रसिंहनादेन चमूनाथधनुःस्वनैः ॥३२॥
क्रन्दनैश्चापि योद्धॄणामभूच्छब्दमयं जगत् ।
तेन नादेन महता भण्डदैत्यविनिर्गमम् ।
निश्चित्य ललिता देवी स्वयं योद्धुं प्रचक्रमे ॥३३॥
अशक्यमन्यशक्तीनामाकलय्य महाहवम् ।
भण्डदैत्येन दुष्टेन स्वयमुद्योगमास्थिता ॥३४॥
चक्रराजरथस्तस्याः प्रचचाल महोदयः ।
चतुर्वेदमहाचक्रपुरुषार्थमहाभयः ॥३५॥
आनन्दध्वजसंयुक्तो नवभिः पर्वभिर्युतः ।
नवपर्वस्थदेवीभिराकृष्टगुरुधन्विभिः ॥३६॥
परार्धाधिकसंख्यातपरिवारसमृद्धिभिः ।
पर्वस्थानेषु सर्वेषु पालितः सर्वतो दिशम् ॥३७॥
दशयोजनमुन्नद्धश्चतुर्योजन विस्तृतः ।
महाराज्ञीचक्रराजो रथेन्द्रः प्रचलन्बभौ ॥३८॥
तस्मिन्प्रचलिते जुष्टे श्यामया दण्डनाथया ।
गेयचक्रं तु बालाग्रे किरिचक्रं तु बृष्ठतः ॥३९॥
अन्यासामपि शक्तीनां वाहनानि परार्द्धशः ।
नृसिंहोष्ट्रनरव्यालमृगपक्षिहयास्तथा ॥४०॥
गजभेरुण्डशरभ व्याघ्रवातमृगास्तथा ।
एतादृशश्च तिर्यञ्चोऽप्यन्ये वाहनतां गताः ॥४१॥
मुहुरुच्चावचाः शक्तीर्भण्डासुरवधोद्यताः ।
योजनायामविस्तारमपि तद्द्वारमण्डलम् ।
वह्निप्राकारचक्रस्य न पर्याप्तं चमूपतेः ॥४२॥
ज्वालामालिनिका नित्या द्वारस्यात्यन्तविस्तृतिम् ।
विततान समस्तानां सैन्यानां निर्गमैषिणी ॥४३॥
अथ सा जगतां माता महाराज्ञी महोदया ।
निर्जगामा ग्निपुरता वरद्वारात्प्रतापिनी ॥४४॥
देवदुन्दुभयो नेदुः पतिताः पुष्पवृष्टयः ।
महामुक्तातपत्रं तद्दिवि दीप्तमदृश्यत ॥४५॥
निमित्तानि प्रसन्नानि शंसकानि जयश्रियाः ।
अभवंल्ललितासैन्ये उत्पातास्तु द्विषां बले ॥४६॥
ततः प्रववृते युद्धं सेन योरुभयोरपि ।
प्रसर्पद्विशिखैः स्तोमबद्धान्धतमसच्छटम् ॥४७॥
हन्यमानगजस्तोमसृतशोणितबिन्दुभिः ।
ह्नीयमाणशिरश्छन्नदैत्यश्वेतातपत्रकम् ॥४८॥
न दिशो न नभो नागा न भूमिर्न च किञ्चन ।
दृश्यते केवलं दृष्टं रजोमात्रं च सूर्च्छितम् ॥४९॥
नृत्यत्कबन्धनिवहाविर्भूततटपादपम् ।
दैत्यकेशसहस्रैस्तु शैवालाङ्कुरकोमला ॥५०॥
श्वेतातपत्रयवलयश्वेतपङ्कजभासुरा ।
चक्रकृत्तकरिग्रामपादकूर्मपरंपरा ॥५१॥
शक्तिध्वस्तमहादैत्यगलगण्डशिलोच्चया ।
विलूनकाण्डैः पतितैः सफेना बलचामरैः ॥५२॥
तीक्ष्णासिवल्लरीजालैर्निबिडीकृततीरभूः ।
दैत्यवीरेक्षमश्रेणिमुक्तिंसपुटभासुरा ॥५३॥
दैत्यवाहनसंघातन क्रमीनशताकुला ।
प्रावहच्छोणितनदी सेनयोर्युध्यमानयोः ॥५४॥
इत्थं प्रववृते युद्धं मृत्योश्च त्रासदायकम् ।
चतुर्थयुद्धदिवसे प्रातरा रभ्यभीषणम् ।
प्रहरद्वयपर्यन्तं सेनयोरुभयोरपि ॥५५॥
ततः श्रीललितादेव्या भण्डस्याथाभवद्रणः ।
अस्त्रप्रत्यस्त्रसंक्षोभैस्तुमुलीकृतदिक्तटः ॥५६॥
धनुर्ज्यातलटङ्कारहुङ्कारैरतिभीषणः ।
तूणीरवदनात्कृष्टधनुर्वरविनिः सृतैः ।
विमुक्तैर्विशिशैर्भीमैराहवे प्राणहारिभिः ॥५७॥
हस्तलाघववेगेन न प्राज्ञायत किञ्चन ।
महाराज्ञीकरांभोजव्यापारं शरमोक्षणे ।
शृणु सर्वं प्रवक्ष्यामि कुम्भसंभव सङ्गरे ॥५८॥
संधाने त्वेकधा तस्य दशधा चापनिर्गमे ।
शतधा गगने दैत्यसैन्यप्राप्तौ सहस्रधा ।
दैत्याङ्गसंगे संप्राप्ताः कोटिसंख्याः शिलीमुखाः ॥५९॥
परान्धकारं सृजती भिन्दती रोदसी शरैः ।
मर्माभिनत्प्रचण्डस्य महाराज्ञी महेषुभिः ॥६०॥
वहत्कोपारुणं नेत्रं ततो भण्डः स दानवः ।
ववष शरजालेन महता ललितेश्वरीम् ॥६१॥
अन्धतामिस्रकं नाम महास्त्रं प्रमुमोच सः ।
महातरणिबाणेन तन्नुनोद महेश्वरी ॥६२॥
पाखण्डास्त्रं महावीरो भण्डः प्रमुमुचे रणे ।
गायत्र्यस्त्रं तस्य नुत्यै ससर्ज जगदंबिका ॥६३॥
अन्धास्त्रमसृजद्भण्डः शक्तिदृष्टिविनाशनम् ।
चाक्षुष्मतमहास्त्रेण शमयायास तत्प्रसूः ॥६४॥
शक्तिनाशाभिधं भण्डो मुमोचास्त्रं महारणे ।
विश्वावसोरथास्त्रेण तस्य दर्पमपाकरोत् ॥६५॥
अन्तकास्त्रं ससर्जोच्चैः संक्रुद्धो भडदानवः ।
महामृत्युञ्जयास्त्रेण नाशयामास तद्बलम् ॥६६॥
सर्वास्त्रस्मृतिनाशाख्यमस्त्रं भण्डो व्यमुञ्चत ।
धारणास्त्रेण चक्रेशी तद्बलं समनाशयत् ॥६७॥
भयास्त्रमसृजद्भण्डः शक्तीनां भीतिदायकम् ।
अभयङ्करमैन्द्रास्त्रं मुमुचे जगदंबिका ॥६८॥
महारोगास्त्रमसृजच्छक्तिसेनासु दानवः ।
राजयक्ष्मादयो रोगास्ततोऽभूवन्सहस्रशः ॥६९॥
तन्निवारणसिद्ध्यर्थं ललिता परमेश्वरी ।
नामत्रयमहामन्त्रमहास्त्रं सा मुमोच ह ॥७०॥
अच्युतश्चाप्यनन्तश्च गोविन्दस्तु शरोत्थिताः ।
हुङ्कारमात्रतो दग्ध्वारोगांस्ताननयन्मुदम् ॥७१॥
नत्वा च तां महेशानीं तद्भक्तव्याधिमर्दनम् ।
विधातुं त्रिषु लोकेषु नियुक्ताः स्वपदं ययुः ॥७२॥
आयुर्नाशनमस्त्रं तु मुक्तवान्भण्डदानवः ।
कालसंकर्षणीरूपमस्त्रं राज्ञी व्यमुञ्चत ॥७३॥
महासुरास्त्रमुद्दामं व्यसृजद्भण्डदानवः ।
ततः सहस्रशो जाता महाकाया महाबलाः ॥७४॥
मधुश्च कैटभश्चैव महिषासुर एव च ।
धूम्रलोचनदैत्यश्च चण्डमुण्डादयोऽसुराः ॥७५॥
चिक्षुभश्चामरश्चैव रक्तबीजोऽसुरस्तथा ।
शुम्भश्चैव निशुम्भश्च कालकेया महाबलाः ॥७६॥
धूम्राभिधानाश्च परे तस्मादस्त्रात्समुत्थिताः ।
ते सर्वे दानवश्रेष्ठाः कठोरैः शस्त्रमण्डलैः ॥७७॥
शक्तिसेनां मर्दयन्तो नर्द्दन्तश्च भयङ्करम् ।
हाहेति क्रन्दमानाश्चशक्तयो दैत्यमर्दिताः ॥७८॥
ललितां शरणं प्राप्ताः पाहि पाहीति सत्वरम् ।
अथ देवी भृशं क्रुद्धा रुषाट्टहासमातनोत् ॥७९॥
ततः समुत्थिता काचिद्दुर्गा नाम यशस्विनी ।
समस्तदेवतेजोभिर्निर्मिता विश्वरूपिणी ॥८०॥
शूलं च शूलिना दत्तं चक्रं चक्रिसमर्पितम् ।
शङ्खं वरुणदत्तश्च शक्तिं दत्तां हविर्भुजा ॥८१॥
चापमक्षयतूणीरौ मरुद्दत्तौ महामृधे ।
वज्रिदत्तं च कुलिशं चषकन्धनदार्पितम् ॥८२॥
कालदण्डं महादण्डं पाशं पाशधरार्पितम् ।
ब्रह्मदत्तां कुण्डिकां च घण्टामैरावतार्पिताम् ॥८३॥
मृत्युदत्तौ खड्गखेटौ हारं जलधिनार्पितम् ।
विश्वकर्मप्रदत्तानि भूषणानि च बिभ्रती ॥८४॥
अङ्गैः सहस्रकिरणश्रेणिभासुररश्मिभिः ।
आयुधानि समस्तानि दीपयन्ति महोदयैः ॥८५॥
अन्यदत्तैरथान्यैश्च शोभमाना परिच्छदैः ।
सिंहवाहनमारुह्य युद्धं नारायणीव्यधात् ॥८६॥
तथा ते महिषप्रख्या दानवा विनिपातिताः ।
चण्डिकासप्तशत्यां तु यथा कर्म पुराकरोत् ॥८७॥
तथैव समरञ्चक्रे महिषादिमदापहम् ।
तत्कृत्वा दुष्करं कर्म ललितां प्रणनाम सा ॥८८॥
मूकास्त्रमसृद्दुष्टः शक्तिसेनासु दानवः ।
महावाग्वा दिनी नाम ससर्जास्त्रं जगत्प्रसूः ॥८९॥
विद्यारूपस्य वेदस्य तस्करानसुराधमान् ।
ससर्ज तत्र समरे दुर्मदो भण्डदानवः ॥९०॥
दक्षहस्ताङ्गुष्ठनखान्महाराज्ञ्या तिरस्कृतः ।
अर्णवास्त्रं महादीरो भण्डदैत्यो रणेऽसृजत् ॥९१॥
तत्रोद्दामपयः पूरे शक्तिसैन्यं ममजज च ।
अथ श्रीललितादक्षहस्ततर्जनिकानखात् ।
आदिकूर्मः समुत्पन्नो योजनायतविस्तरः ॥९२॥
धृतास्तेन महाभोगखर्परेण प्रथीयसा ।
शक्तयो हर्षमापन्नाः सागरास्त्रभयं जहुः ॥९३॥
तत्सामुद्रं च भगवान्सकलं सलिलं पपौ ।
हैरण्याक्षं महास्त्रं तु विजहौ दुष्टदानवः ॥९४॥
तस्मात्सहस्रशो जाता हिरण्याक्षा गदायुधाः ।
तैर्हन्यमाने शक्तीनां सैन्ये सन्त्रा सविह्वले ।
इतस्ततः प्रचलिते शिथिले रणकर्मणि ॥९५॥
अथ श्रीललितादक्षहस्तमध्याङ्गुलीनखात् ।
महावराहः समभूच्छ्वेतः कैलाससंनिभः ॥९६॥
तेन वज्रसमानेन पोत्रिणाभिविदारिताः ।
कोटिशस्ते हिरण्याक्षा मर्द्यमानाः क्षयं गताः ॥९७॥
अथभण्डस्त्वतिक्रोधाद्भुकुटीं विततान ह ।
तस्य भ्रुकुटितो जाता हिरण्याः कोटिसंख्यकाः ॥९८॥
ज्वलदादित्यवद्दीप्ता दीपप्रहरणाश्व ते ।
अमर्दयच्चक्तिसैन्यं प्रह्लादं चाप्यमर्दयन् ॥९९॥
यः प्रह्लादोऽस्ति शक्तीनां परमानन्दलक्षणः ।
स एव बालकोभूत्वा हिरण्यपरिपीडितः ॥१००॥
ललितां शरणं प्राप्तस्तेन राज्ञी कृपामगात् ।
अथ शक्त्या नन्दरूपं प्रह्लादं परिरक्षितुम् ॥१०१॥
दक्षहस्तानामिकाग्रं धुनोति स्म महेश्वरी ।
तस्माद्धूतसटाजालः प्रज्वलल्लोचनत्रयः ॥१०२॥
सिंहास्यः पुरुषा कारः कण्ठस्याधो जनार्दनः ।
नखायुधः कालरुद्ररूपी घोराट्टहासवान् ॥१०३॥
सहस्रसंख्यदोर्दण्डो ललिताज्ञानुपालकः ।
हिरण्यकशिपून्सर्वान्भण्डभ्रुकुटिसंभवान् ॥१०४॥
क्षणाद्विदारयामास नखैः कुलिशकर्कशैः ।
बलीन्द्रास्त्रं महाघोरं सर्वदैवतनाशनम् ।
अमुञ्चल्ललिता देवी प्रतिभण्डमहासुरम् ॥१०५॥
तदस्त्रदर्पनाशाय वामनाः शतशोऽभवन् ।
महाराज्ञीदक्षहस्तकनिष्ठाग्रान्महौजसः ॥१०६॥
क्षणेक्षणे वर्धमानाः पाशहस्ता महाबलाः ।
बलीन्द्रानस्त्रसंभूतान्बध्नन्तः पाशबन्धनैः ॥१०७॥
दक्षहस्तकनिष्ठाग्राज्जाताः कामेशयोषितः ।
महाकाया महोत्साहास्तदस्त्रं समनाशयन् ॥१०८॥
हैहयास्त्रं समसृजद्भण्डदैत्यो रणाजिरे ।
तस्मात्सहस्रशोजाताः सहस्रार्जुनकोटयः ॥१०९॥
अथ श्रीललितावामहस्ताङ्गुष्टनखादितः ।
प्रज्वलन्भार्गवो रामः सक्रोधः सिंहनादवान् ॥११०॥
धारया दारयन्नेतान्कुठारस्य कठोरया ।
सहस्रार्जुनसंख्यातान्क्षणादेव व्यनाशयन् ॥१११॥
अथ क्रुद्धो भण्डदैत्यः क्रोधाद्धुङ्कारमातनोत् ।
तस्माद्धुङ्कारतो जातश्चन्द्रहासकृपाणवान् ॥११२॥
सहस्राक्षौहिणीरक्षःसेनया परिवारितः ।
कनिष्ठं कुंभकर्णं च मेघनादं च नन्दनम् ।
गृहीत्वा शक्तिसैन्यं तदतिदूरममर्दयत् ॥११३॥
अथ श्रीललितावामहस्ततर्जनिकानखात् ।
कोदण्डरामः समभूल्लक्ष्मणेन समन्वितः ॥११४॥
जटामुकुटवान्वल्लीबन्ध्धतूणीरपृष्टभूः ।
नीलोत्पलदलश्यामो धनुर्विस्फारयन्मुहुः ॥११५॥
नाशयामास दिव्यास्त्रैः क्षणाद्राक्षससैनिकम् ।
मर्दयामास पौलस्त्यं कुंभकर्णं च सोदरम् ।
लक्ष्मणो मेघनादं च महावीरमनाशयत् ॥११६॥
द्विविदास्त्रं महाभीममसृजद्भण्डदानवः ।
तस्मादनेकशो जाताः कपयः पिङ्गलोचनाः ॥११७॥
क्रोधेनात्यन्तता म्रास्याः प्रत्येकं हनुमत्समाः ।
व्यनाशयच्छक्तिसैन्यं क्रूरक्रेङ्कारकारिणः ॥११८॥
अथ श्रीललितावामहस्तमध्याङ्गुलीनखात् ।
आविर्बभूव तालाङ्कः क्रोधमध्यारुणेक्षणः ॥११९॥
नीलांबरपिनद्धाङ्गः कैलासाचलनिर्मलः ।
द्विविदास्त्रसमुद्भूतान्कपीन्सर्न्वान्व्यनाशयन् ॥१२०॥
राजासुरं नाम महत्ससर्जास्त्रं महाबलः ।
तस्मादस्त्रात्समुद्भूता बहवो नृपदानवाः ॥१२१॥
शिशुपालो दन्तवक्त्रः शाल्वः काशीपतिस्तथा ।
पैण्ड्रको वासुदेवश्च रुक्मी डिंभकहंसकौ ॥१२२॥
शंबरश्च प्रलंबश्च तथा बाणासुरोऽपि च ।
कंसश्चाणूरमल्लश्च मुष्टिकोत्पलशेखरौ ॥१२३॥
अरिष्टो धेनुकः केशी कालियो यमलार्जुनौ ।
पूतना शकटश्चैव तृणावर्तादयोऽसुराः ॥१२४॥
नरकाख्यो महावीरो विष्णुरूपी मुरासुरः ।
अनेके सह सेनाभिरुत्थिताः शस्त्रपाणयः ॥१२५॥
तान्विनाशयितुंसर्वान्वासुदेवः सनातनः ।
श्रीदेवीवामहस्ताब्जानामिकानखसंभवः ॥१२६॥
चतुर्व्यूहं समातेने चत्वारस्ते ततोऽभवन् ।
वासुदेवो द्वितीयस्तु संकर्षण इति स्मृतः ॥१२७॥
प्रद्युम्नश्चानिरुद्धश्च ते सर्वे प्रीद्यतायुधाः ।
तानशेषान्दुराचारान्भूमभोरप्रवर्तकान् ॥१२८॥
नाशयामासुरुर्वीशवेषच्छन्नान्महासुरान् ॥१२९॥
अथ तेषु विनष्टेषु संक्रुद्धो भण्ड्रदानवः ।
धर्मविप्लावकं घोरं कल्यस्त्रं सममुञ्चत ॥१३०॥
ततः कल्यस्त्रतोजाता आन्ध्राः पुण्डाश्च भूमिपाः ।
किराताः शबरा हूणा यवनाः पापवृत्तयः ॥१३१॥
वेद विप्लावका धर्मद्रोहिणः प्राणहिंसकाः ।
वर्णाश्रमेषु सांकर्यकारिणो मलिनाङ्गकाः ।
ललिताशक्तिसैन्यानि भूयोभूयो व्यमर्दयन् ॥१३२॥
अथ श्रीललितावामहस्तपद्मस्य भास्वतः ।
कनिष्ठिकानखोद्भूतः कल्किर्नाम जनार्दनः ॥१३३॥
अश्वारूढः प्रतीप्त श्रीरट्टहासं चकार सः ।
तस्यैव ध्वनिना सर्वे वज्रनिष्पेषबन्धुना ॥१३४॥
किराता मूर्च्छिता नेशुः शक्तयश्चापि हर्षिताः ।
दशावतारनाथास्ते कृत्वेदं कर्म दुष्करम् ॥१३५॥
ललितां तां नमस्कृत्य बद्धाञ्जलिपुटाः स्थिताः ।
प्रतिकल्पं धर्मरक्षां कर्तुं मत्स्या दिजन्मभिः ।
ललितांबानियुक्तास्ते वैकुण्ठाय प्रतस्थिरे ॥१३६॥
इत्थं समस्तेष्वस्त्रंषु नाशितेषु दुराशयः ।
महामोहास्त्रमसृजच्छक्तयस्तेन मूर्छिताः ॥१३७॥
शांभवास्त्रं विसृज्यांबा महामोहास्त्रमक्षिणोत् ।
अस्त्रप्रत्यस्त्रधाराभिरित्थं जाते महाहवे ।
अस्तशैलङ्गभस्तीशो गन्तुमारभतारुणः ॥१३८॥
अथ नारायणास्त्रेण सा देवी ललितांबिका ।
सर्वा अक्षौहिणीस्तस्य भस्मसादकरोद्रणे ॥१३९॥
अथ पाशुपतास्त्रेण दीप्तकालानलत्विषा ।
चत्वारिंशच्चमूनाथान्महाराज्ञी व्यमर्दयत् ॥१४०॥
अथैकशेषं तं दुष्टं निहताशेषबान्धवम् ।
क्रोधेन प्रज्वलन्तं च जगद्विप्लवकारिणम् ॥१४१॥
महासुरं महासत्त्वं भण्डं चण्डपराक्रमम् ।
महाकामेश्वरास्त्रेण सहस्रादित्यवर्चसा ।
गतासुमकरोन्माता ललिता परमेश्वरी ॥१४२॥
तदस्त्रज्वालयाक्रान्तं शून्यकं तस्य पट्टनम् ।
सस्त्रीकं च सबालं च सगोष्ठं धनधान्यकम् ॥१४३॥
निर्दग्धमासीत्सहसा स्थलमात्रमशिष्यत ।
भण्डस्य संक्षयेणासीत्त्रैलोक्यं हर्षनर्तितम् ॥१४४॥
इत्थं विधाय सुरकार्यमनिन्द्यशीला श्रीचक्रराजरथमण्डलमण्डनश्रीः ।
कामेश्वरी त्रिजगतां जननी बभासे विद्योतमानविभवा विज्यश्रियाढ्या ॥१४५॥
सैन्यं समस्तमपि सङ्गरकर्मखिन्नं भण्डासुरप्रबलबाणकृशानुतप्तम् ।
अस्तं गते सवितरि प्रथितप्रभावा श्रीदेवता शिबिरमात्मन आनिनाय ॥१४६॥
यो भण्डदानववधं ललितांबयेमं कॢप्तं सकृत्पठति तस्य तपोधनेन्द्र ।
नाशं प्रयान्ति कदनानि दृताष्टसिद्धेर्भुक्तिश्च मुक्तिरपि वर्तत एव हस्ते ॥१४७॥
इमं पवित्रं ललितापराक्रमं समस्तपापघ्नमशेषसिद्धिदम् ।
पठन्ति पुण्येषु दिनेषु ये नरा भजन्ति ते भाग्यसमृद्धिमुत्तमाम् ॥१४८॥
इति श्रीब्रह्माण्डपुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने भण्डासुरवधो नामैकोनत्रिंशोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP