उत्तरभागः - अध्यायः ३७
ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.
हयग्रीव उवाच
सर्वज्ञद्यन्तरालस्योपरिष्टात्कलशोद्भव ।
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ॥१॥
वशिन्याद्यन्तरं ज्ञेयं प्राग्वत्सोपानमन्दिरम् ।
सर्वरोगहरं नाम्ना तच्चक्रमिति विश्रुतम् ॥२॥
वशिन्याद्यास्तत्र देव्यः पूर्वादिदिगनुक्रमात् ।
स्वरैस्तु रहितास्तत्र प्रथमा वशिनीश्वरी ॥३॥
कवर्गसहिता पश्चात्कामेश्वर्याख्यवाह्मयी ।
चवर्गजुष्टा वागीशी मोदिनी स्यात्तृतीयका ॥४॥
टवर्गमण्डिताकारा विमलाख्या सरस्वती ।
तवर्गेण तथोपेता पञ्चमी वाक्प्रधारणा ॥५॥
पवर्गेण परिस्फीता षष्ठी तु जयिनी मता ।
यादिवर्णचतुष्कोणे सर्वैश्वर्यादिवाङ्मयी ॥६॥
साधिकाक्षरषट्केन कौलिनी त्वष्टमी मता ।
एता देव्यो जपरता मुक्ताभरणमण्डिताः ॥७॥
सदा स्फुरद्गद्यपद्यलहरीलालिता मताः ।
काव्यैश्च नाटकैश्चैव मधुरैः कर्णहारिभिः ।
विनोदयन्त्यः श्रीदेवीं वर्तन्ते कुम्भसम्भवः ॥८॥
एता रहस्यनाम्नैव ख्याता वातापितापन ।
नायिका स्वस्य चक्रस्य सिद्धानाम्ना प्रकीर्तिता ॥९॥
अस्य चक्रस्य संरक्षाकारिणी खेचरी मता ।
वशिन्याद्यन्तरालस्योपरिष्टाद्विन्ध्यमर्दन ॥१०॥
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ।
अस्त्रं चक्रमितिज्ञेयं तत्र बाणादिदेवताः ॥११॥
पञ्च बाणेश्वरीदेव्यः पञ्च कामेश्वराशुगाः ।
अङ्कुशद्वितयं दीप्तमादिस्त्रीपुंसयोर्द्वयोः ॥१२॥
धनुर्द्वयं च विन्ध्यारे नव पुण्ड्रेषु कल्पितम् ।
पाशद्वयं च दीप्ताभं चत्वार्यस्त्राणि कुम्भज ॥१३॥
कामेश्वर्यास्तु चत्वारि चत्वारि श्रीमहेशितुः ।
आहत्याष्टायुधानीति प्रज्वलन्ति विभान्ति च ॥१४॥
भण्डासुरमहायुद्धे दुष्टदानवशोणितैः ।
पीतैरतीव तृप्तानिदिव्यास्त्राण्यति जाग्रति ॥१५॥
एतेषामायुधानां तु परिवारायुधान्यलम् ।
वर्तन्तेऽस्त्रान्तरे तत्र तेषां संख्या तु कोटिशः ॥१६॥
वज्रशक्तिः शतघ्नी च भुशुण्डी मुसलं तथा ।
कृपाणः पट्टिशं चैव मुद्गरं भिन्दिपालकम् ॥१७॥
एवमादीनि शस्त्राणि सहस्राणां सहस्रशः ।
अष्टायुधमहाशक्तीः सेवन्ते मदविह्वलाः ॥१८॥
अथ शस्त्रान्तरालस्योपरि वातापितापन ।
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ।
धिष्ण्यं तु समयेशीनां स्थानं च तिसृणां मतम् ॥१९॥
कामेशाद्यास्तत्र देव्यस्तिस्रोऽन्या तु चतुर्थिका ।
सैव निःशेषविश्वानां सवित्री ललितेश्वरी ॥२०॥
तिसृणां शृणु नामानि कामेशी प्रथमा मता ।
वज्रेशी भगमाला च ताः सेवन्ते सहस्रशः ॥२१॥
सर्वेषां दर्शनानां च या देव्यो विविधाः स्मृताः ।
ताः सर्वास्तत्र सेवन्ते कामेशादिमहोदयाः ॥२२॥
एतासांच प्रसंगेषु नित्यानां च प्रसञ्जने ।
चक्रिणीनां योगिनीनां श्रीदेवी पूरणात्मिका ॥२३॥
या कामेश्वरदेवाङ्कशायिनी ललितांबिका ।
कामेश्यादिचतुर्थी सा नित्यानां षोडशी मता ॥२४॥
योगिनी चक्रदेवीनां नवमी परिकीर्तिता ।
समयेश्यन्तरालस्योपरिष्टादिल्वलान्तक ॥२५॥
नाथान्तरमिति प्रोक्तं हस्तविंशतिरुन्नतम् ।
चतुर्नल्वप्रविस्तारं प्राग्वत्सोपानमण्डितम् ॥२६॥
तत्र नाथामहादेव्या योगशास्त्रप्रवर्त्तकाः ।
सर्वेषां मन्त्रगुरवः सर्वविद्यामहार्णवाः ॥२७॥
चत्वारो यागनाथाश्च लोकानामिह गुप्तये ।
सृष्टाः कामंशदेवेन तेषां नामानि मे शृणु ॥२८॥
मित्री च शोडिशश्चैव चर्याख्यः कुम्भसम्भव ।
तैः सृष्टा बहवो लोकारक्षार्थं पादुकात्मकाः ॥२९॥
दिव्यविद्या मानवौघसिद्धौघाः सुरतापसाः ।
प्राप्तसालोक्यसारूप्यसायुज्यादिकसिद्धयः ॥३०॥
महान्तो गुरवस्तांस्तु सेवन्ते प्रचुरा गुरून् ।
अथ नाथान्तरालस्योपरिष्टाद्धिष्ण्यमुत्तमम् ॥३१॥
हस्तविंशतिरुन्नमं चतुर्नल्वप्रविस्तरम् ।
नित्यान्तरमिति प्रोक्तं नित्याः पञ्चदशात्र वै ॥३२॥
अथ कामेश्वरी नित्या नित्या च भगमालिनी ।
नित्यक्लिन्ना अपि तथा भेरुण्डा वह्निवासिनी ॥३३॥
महावज्रेश्वरी दूती त्वरिता कुलसुन्दरी ।
नित्या नीलपताका च विजया सर्वमङ्गला ॥३४॥
ज्वालामालिनिका चित्रेत्येताः पञ्चदशोदिताः ।
एता देवीस्वरूपाः स्युर्महाबलपराक्रमाः ॥३५॥
प्रथमा मुख्यतिथितां प्राप्ता व्याप्य जगत्त्रयाः ।
कालत्रितयरूपाश्च कालग्रासविचक्षणाः ॥३६॥
ब्रह्मादीनामशेषाणां चिरकालमुपेयुषाम् ।
तत्तत्कालशतायुष्यरूपा देव्याज्ञया स्थिताः ॥३७॥
नित्योद्यता निरान्तकाः श्रीपराङ्गसमुद्भवाः ।
सेवन्ते जगतामृद्ध्यै ललितां चित्स्वरूपिणीम् ॥३८॥
तासां भवनतां प्राप्ता दीप्ताः पञ्चदशेश्वराः ।
विसृष्टिबिन्दुचक्रे तु षोडश्या भवनं मतम् ॥३९॥
अथ नित्यान्तरालस्योपरिष्टात्कुम्भसम्भव ।
अङ्गदेव्यन्तरं प्रोक्तं हस्तविंशातिरुन्नतम् ॥४०॥
चतुर्नल्वप्रविस्तारं प्राग्वत्सोपानमन्दिरम् ।
तस्मिन्हृदयदेव्याद्याः शक्तयः संति वै मुने ॥४१॥
हृद्देवी च शिरोदेवी शिखादेवी तथैव च ।
वर्मदेवी दृष्टिदेवी शस्त्रदेवी षडीरिताः ॥४२॥
अत्यन्तसन्निकृष्टास्ताः श्रीकामेश्वरसुभ्रुवः ।
नवलावण्यपूर्णाङ्ग्यः सावधाना धृतायुधाः ॥४३॥
परितो बिन्दुपीठे च भ्राम्यन्तो दृप्तमूर्तयः ।
ललिताज्ञाप्रवर्तिन्यो वशीनां पीठवर्तिकाः ॥४४॥
अथाङ्गदेव्यन्तरस्योपरिष्टान्मण्डलाकृति ।
बिन्दुनाद महापीठं दशहस्तसमुन्नतम् ॥४५॥
नल्वाष्टकप्रविस्तारमुद्यदादित्यसंनिभम् ।
बिन्दुपीठमिदं ज्ञेयं श्रीपीठमपि चेष्यते ॥४६॥
महापीठमिति ज्ञेयं विद्यापीठमपीष्यते ।
आनन्दपीठमपि च पञ्चाशत्पीठरूपधृक् ॥४७॥
तत्र श्रीललितादेव्याः पञ्चब्रह्ममये महत् ।
जागर्ति मञ्चरत्नं तु प्रपञ्चत्रयमूलकम् ॥४८॥
तस्य मञ्चस्य पादास्तु चत्वारः परिकीर्तिताः ।
दशहस्तसमुन्नम्रा हस्तत्रितयविष्ठिताः ॥४९॥
ब्रह्मविष्णुमहेशानेश्वररूपत्वमागताः ।
शक्तिभावमनुप्राप्ताः सदा श्रीध्यानयोगतः ॥५०॥
एकस्तु पञ्चपादः स्याज्जपाकुसुमसन्निभः ।
ब्रह्मात्मकः स विज्ञेयो वह्निदिग्भागमाश्रितः ॥५१॥
चतुर्थो मञ्चपादस्तु कर्णिकारकसाररुक् ।
ईश्वरात्मा स विज्ञेय ईशदिग्भागमाश्रितः ॥५२॥
एते सर्वे सायुधाश्च सर्वालङ्कारभूषिताः ।
उपर्यधःस्तंभरूपा मध्ये पुरुषरूपिणः ॥५३॥
श्रीध्यानमीलिताक्षाश्च श्रीध्यानान्निश्चलाङ्गकाः ।
तेषामुपरि मञ्चस्य फलकस्तु सदाशिवः ॥५४॥
विकासिदाडिमच्छायश्चतुर्नल्वप्रविस्तरः ।
नल्वषट्कायामवांश्च सदाभास्वरमूर्तिमान् ॥५५॥
अङ्गदेव्यन्तरारंभान्मञ्चस्य फलकावधि ।
चिन्तामणिमयाङ्गानि तत्त्वरूपाणि तापस ॥५६॥
सोपानानि विभासंते षट्त्रिंशद्वै निवेशनैः ।
आरोहस्य क्रमेणैव सोपानान्यभिदध्महे ॥५७॥
भूमिरापोऽनलो वायुराकाशो गन्ध एव च ।
रसो रूपं स्पर्शसंब्दोपस्थपायुपदानि च ॥५८॥
पाणिवाग्घ्राणजिह्वाश्चत्वक्चक्षुः श्रोत्रमेव च ।
अहङ्कारश्च बुद्धिश्च मनः प्रकृतिपूरुषौ ॥५९॥
नियतिः कालरागौ च कला विद्ये च मायया ।
शुद्धाविद्येश्वरसदाशिवशक्तिः शिवा इति ॥६०॥
एताः षट्त्रिंशदाख्यातास्तत्त्वसोपानपङ्क्तयः ।
पूषा सोपानपङ्क्तिश्च मञ्चपूर्वदिशंश्रिताः ॥६१॥
अथ मञ्चस्योपरिष्टाद्धंसतूलिकतल्पकः ।
हस्तमात्रं समुन्नम्रं चतुर्नल्वप्रविस्तरम् ॥६२॥
पादोपधानमूर्धोपधान दन्द्वविराजितम् ।
गड्डकानां चतुः षष्टिशोभितं पाटलत्विषा ॥६३॥
तस्योपरिष्टात्कौसुंभवसनेनोत्तरच्छदः ।
शुचिना मृदुना कॢप्तः पद्मरागमणित्विषा ॥६४॥
तस्योपरि वसन्पूर्वदिङ्मुखो दययान्वितः ।
शृङ्गारवेषरुचिरस्सदा षोडशवार्षिकः ॥६५॥
उद्यद्भास्करबिंबाभश्चतुर्हस्तस्त्रिलोचनः ।
हारकेयूरमुकुटकटकाद्यैरलङ्कृतः ॥६६॥
कमनीयस्मितज्योत्स्नामरिपूर्णकपोलभूः ।
जागर्ति भगवानादिदेवः कामेश्वरः शिवः ॥६७॥
तस्योत्संगे समासीना तरुणादित्यपाटला ।
सदा षोडशवर्षा च नवयौवनदर्पिता ॥६८॥
अमृष्टपद्मरागाभा चन्दनाब्जनखच्छटा ।
यावकश्रीर्निर्व्यपेक्षा पादलौहित्यवाहिनी ॥६९॥
कलनिस्वानमञ्जीरपतत्कङ्कणमोहना ।
अनङ्गवरतूणीरदर्पोन्मथनजङ्घिका ॥७०॥
करिशुण्डदोः कदलिकाकान्तितुल्योरुशोभिनी ।
अरुणेन दुकूलेन सुस्पर्शेन तनीयसा ।
अलङ्कृतनितंबाढ्या जघनाभोगभासुरा ॥७१॥
अर्धोरुकग्रन्थिमती रत्नकाञ्चीविराजिता ।
नतनाभिमहावर्तत्रि वल्यूर्मिप्रभासरित् ॥७२॥
स्तनकुड्मलहिन्दोलमुक्तादामशतावृता ।
अतिपीवरवक्षोजभारभङ्गुरमध्यभूः ॥७३॥
शिरीषदाममृदुलच्छदाभांश्चतुरो भुजान् ॥७४॥
केयूरकङ्कणश्रेणीमण्डितान्सोर्मिकाङ्गुलीन् ।
वहन्ती पतिसंसृष्टशङ्खसुन्दरकन्धरा ॥७५॥
मुखदर्पण वृत्ताभचिबुका पाटलाधरा ।
शुचिभिः पङ्क्तिशुद्धैस्च विद्यारूपैर्विभास्वरैः ।
कुन्दकुड्मललक्ष्मीकैर्दन्तैर्दर्शितचन्द्रिका ॥७६॥
स्थूलमौक्तिकसनद्धनानाभरणभासुरा ।
केतकान्तर्दलश्रोणी दीर्घदीर्घविलोचना ॥७७॥
अर्धेन्दुललिते भाले सम्यक्कॢप्तालकच्छटा ।
पालीवतं समाणिक्यकुण्डलामण्डितश्रुतिः ॥७८॥
नवकर्पूरकस्तूरीसदामोदितवीटिका ।
शरच्चञ्चन्निशानाथमण्डलीमधुरानना ॥७९॥
चिन्तामणीनां सारेण कॢप्तचारुकिरीटिका ।
स्फुरत्तिलकरत्नाभभालनेत्रविराजिता ॥८०॥
गाढान्धकारनिबिडक्षामकुन्तलसंहतिः ।
सीमन्तरेशाविन्यस्तकिन्दूरश्रेणिभासुरा ॥८१॥
स्फुरच्चन्द्रकलोत्तंसमदलोलविलोचना ।
सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता ॥८२॥
समस्तलोकमाता च सदानन्दविवर्धिनी ।
ब्रह्मविष्णुगिरीशेशसदाशिवनिदानभूः ॥८३॥
अपाङ्गरिङ्खत्करुणानिर्झरीतर्पिताखिला ।
भासते सा भगवती पापघ्नी ललितांबिका ॥८४॥
अन्यदैवतपूजानां यस्याः पूजाफलं विदुः ।
यस्याः पूजाफलं प्राहुयस्या एव हि पूजनम् ॥८५॥
तस्याश्च ललितादेव्या वर्णयामि कथं पुनः ।
वर्षकोटिसहस्रेणाप्येकांशो वर्ण्यते न हि ॥८६॥
वर्ण्यमाना ह्यवाग्रूपा वाचस्तस्यां कुतो गतिः ।
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥८७॥
बहुना किमिहोक्तेन तत्त्वभूतमिदं शृणु ।
न पक्षपातान्न स्नेहान्न मोहाद्वा मयोच्यते ॥८८॥
संतु कल्पतरोः शाखा लेखिन्यस्तपसां निधे ।
मषीपात्राणि सर्वेऽपि सप्त संतु महार्णवाः ॥८९॥
पञ्चाशत्कोटिविस्तीर्णा भूमिः पत्रत्वमृच्छतु ।
तस्य लेखनकालोऽस्तु परार्ध्याधिकवत्सरैः ॥९०॥
लिखन्तु सर्वे लोकाश्च प्रत्येकं कोटिबाहवः ।
सर्वे बृहस्पतिसमा वक्तारो यदि कुंभज ॥९१॥
अथापि तस्याः श्रीदेव्याः पादाब्जैकाङ्गुलिद्युतेः ।
सहस्रांशेष्वेकैकांशवर्णना न हि जायते ।
अथ वा वृत्तिरखिला निष्फला तद्गुणस्तुतौ ॥९२॥
बिन्दुपीठस्य परितश्चतुरस्रवया स्थिता ।
महामायाजवनिका लंबते मेचकप्रभा ॥९३॥
देव्या उपरि हस्तानां विंशतिद्वितयोर्ध्वतः ।
इन्द्रगोपवितानं तु बद्धं त्रैलोक्यदुर्लभम् ॥९४॥
तत्रालङ्कारजालं तु वर्तमानं सुदुर्लभम् ।
मद्वाणी वर्णयिष्यन्ती कण्ठ एव ह्रिया हता ॥९५॥
सैव जानाति तत्सर्वं तत्रत्यमखिलं गुणम् ।
मनसोऽपि हि दूरे तत्सौभाग्यं केनवर्ण्यते ॥९६॥
इत्थं भण्डमहादैत्यवधाय ललितांबिका ।
प्रादुर्भुता चिदनलाद्दग्धनिःशेषदानवा ॥९७॥
दिव्यशिल्पिजनैः कॢप्तं षोडशक्षेत्रवेशनम् ।
अधिष्ठाय श्रीनगरं सदा रक्षति विष्टपम् ॥९८॥
इत्थमेव प्रकारेण श्रीपुराण्यन्यकान्यपि ।
न भेदकोऽपि विन्यासो नाममात्रं पुरां भिदा ॥९९॥
नानावृक्षमहोद्यानमारभ्येतिक्रमेण ये ।
वदन्ति श्रीपुरकथां ते यान्ति परमां गतिम् ॥१००॥
आकर्णयन्ति पृच्छन्ति विचिन्वन्ति च ये नराः ।
ये पुस्तके धारयन्ति ते यान्ति परमां गतिम् ॥१०१॥
ये श्रीपुरप्रकारेण तत्तत्स्थानविभेदतः ।
कृत्वा शिल्पिजनैः सर्वं श्रीदेव्यायतनं महत् ।
संपादयन्ति ये भक्तास्ते यान्ति परमां गतिम् ॥१०२॥
इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने गृहराजान्तरकथनं नाम सप्तत्रिंशोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP