उत्तरभागः - अध्यायः ८

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


इन्द्र उवाच
अगम्यागमनं किं वा को दोषः का च निष्कृतिः ।
एतन्मे मुनिशार्दूल विस्तराद्वक्तुमर्हसि ॥१॥

बृहस्पतिरुवाच
अगम्यागमनं नाम मातृस्वसृगुरुस्त्रियः ।
मातुलस्य प्रिया चेति गत्वेमा नास्ति निष्कृतिः ॥२॥

मातृसङ्गे तु यदघं तदेव स्वसृसङ्गमे ।
गुरुस्त्रीसंगमे तद्वद्गुरवो बहवः स्मृताः ॥३॥

ब्रह्मोपदेशमारभ्य यावद्वेदान्तदर्शनम् ।
एकेन वक्ष्यते येन स महागुरुरुच्यते ॥४॥

ब्रह्मोपदेशमेकत्र वेदशास्त्राण्यथैकतः ।
आचार्यः स तु विज्ञेयस्तदेकैकास्तु देशिकाः ॥५॥

गुरोरात्मान्तमेव स्यादायार्यस्य प्रियागमे ।
द्वादशाब्दं चरेत्कृच्छ३ एकैकं तु षडब्दतः ॥६॥

मातुलस्य प्रियां गत्वा षडब्दं कृच्छ्रमाचरेत् ।
ब्राह्मणस्तु सजातीयां प्रमदां यदि गच्छति ॥७॥

उपोषितस्त्रिरात्रं तु प्राणायामशतं चरेत् ।
कुलटां तु सजातीयां त्रिरात्रेण विशुध्यति ॥८॥

पञ्चाहात्क्षत्रियाङ्गत्वा सप्ताहा द्वैश्यजामपि ।
चक्रीकिरातकैवर्तकर्मकारादियोषितः ॥९॥

शुद्धिः स्याद्द्वादशाहेन धराशक्त्यर्चनेन च ।
अनन्त्यजां ब्राह्मणो गत्वा प्रमादादब्दतः शुचिः ॥१०॥

देवदासी ब्रह्मदासी स्वतन्त्राशूद्रदासिका ।
दासी चतुर्विधा प्रोक्ता द्वे चाद्ये क्षत्रियासमे ॥११॥

अन्यावेश्याङ्गनातुल्या तदन्या हीनजातिवत् ।
आत्मदासीं द्विजो मोहादुक्तार्थे दोषमाप्नुयात् ॥१२॥

स्वस्त्रीमृतुमतीं गत्वा प्राजापत्यं चरेद्व्रतम् ।
द्विगुणेन परां नारीं चतुर्भिः क्षत्रियाङ्गनाम् ॥१३॥

अष्टभिर्वैश्यनारीं च शूद्रां षौडशभिस्तथा ।
द्वात्रिंशता संकरजां वेश्यां शूद्रामिवाचरेत् ॥१४॥

रजस्वलां तु यो भार्यां मोहतो गन्तुमिच्छति ।
स्नात्वान्यवस्त्रसंयुक्तमुक्तार्थेनैव शुध्यति ॥१५॥

उपोष्य तच्छेषदिनं स्नात्वा कर्म समाचरेत् ।
तथैवान्याङ्गनां गत्वा तदुक्तार्थं समाचरेत् ॥१६॥

पित्रोरनुज्ञया कन्यां यो गच्छेद्विधिना विना ।
त्रिरात्रोपोषणाच्छुद्धिस्तामेवोद्वाहयेत्तदा ॥१७॥

कन्यां दत्त्वा तु योऽन्यस्मै दत्ता यश्चानुयच्छति ।
पित्रोरनुज्ञया पाददिनार्धेन विशुध्यति ॥१८॥

ज्ञातः पितृभ्यां यो मासं कन्याभावे तु गच्छति ।
वृषलः स तु विज्ञेयः सर्वकर्मबहिष्कृतः ॥१९॥

ज्ञातः पितृभ्यां यो गत्वा परोढां तद्विनाशने ।
विधवा जायते नेयं पूर्वगन्तारमाप्नुयात् ॥२०॥

अनुग्रहाद्द्विजातीनामुद्वाहविधिना तथा ।
त्यागकर्माणि कुर्वीत श्रौतस्मार्तादिकानि च ॥२१॥

आदावुद्वाहिता वापि तद्विनाशेऽन्यदः पिता ।
भोगेच्छोः साधनं सा तु न येग्याखिलकर्मसु ॥२२॥

ब्रह्मादिपिपीलकान्तं जगत्स्थावरजङ्गमम् ।
पञ्चभूतात्मकं प्रोक्तं चतुर्वासनयान्वितम् ॥२३॥

जन्माद्याहारमथननिद्राभीत्यश्च सर्वदा ।
आहारेण विना जन्तुर्नाहारो मदनात्स्मृतः ॥२४॥

दुस्तरो मदनस्तस्मात्सर्वेषां प्राणिनामपि ।
पुन्नारीरूपवत्कृत्वा मदननेनैव विश्वसृक् ॥२५॥

प्रवृत्तिमकरोदादौ सृष्टिस्थितिलयात्मिकाम् ।
तत्प्रवृत्त्या प्रवर्तन्ते तन्निवृत्त्याक्षयां गतिम् ॥२६॥

प्रवृत्त्यैव यथा मुक्तिं प्राप्नुयुर्ये न धीयुताः ।
तद्रहस्यं तदोपायं शृणु वक्ष्यामि सांप्रतम् ॥२७॥

सर्वात्मको वासुदेवः पुरुषस्तु पुरातनः ।
इयं हि मूलप्रकृतिर्लक्ष्मीः सर्वजगत्प्रसूः ॥२८॥

पञ्चापञ्चात्मतृप्त्यर्थं मथनं क्रियतेतराम् ।
एवं मन्त्रानुभावात्स्यान्मथनं क्रियते यदि ॥२९॥

तावुभौ मन्त्रकर्माणौ न दोषो विद्यते तयोः ॥३०॥

तपोबलवतामेतत्केवलानामधोगतिः ।
स्वस्त्रीविषय एवेदं तयोरपि विधेर्बलात् ॥३१॥

परस्परात्म्यैक्यहृदोर्देव्या भक्त्यार्द्रचेतसोः ।
तयोरपि मनाक्चेन्न निषिद्धदिवसेष्वघम् ॥३२॥

इयमंबा जगद्धात्री पुरुषोऽयं सदाशिवः ।
पञ्चविंशतितत्त्वानां प्रीतये मथ्यतेऽधुना ॥३३॥

एतन्मन्त्रानुभावाच्च मथनं क्रियते यदि ।
तावुभौ पुण्यकर्माणौ न दोषो विद्यते तयोः ॥३४॥

इदं च शृणु देवेन्द्र रहस्यं परमं महत् ।
सर्वेषामेव पापानां यौगपद्येन नाशनम् ॥३५॥

भक्तिश्रद्धासमायुक्तः स्नात्वान्तर्जलसंस्थितः ।
अष्टोत्तरसहस्रं तु जपेत्पञ्चदशाक्षरीम् ॥३६॥

आराध्य च परां शक्तिं मुच्यते सर्वकिल्बिषैः ।
तेन नश्यन्ति पापानि कल्पकोटिकृतान्यपि ।
सर्वापद्भ्यो विमुच्येत सर्वाभीष्टं च विन्दति ॥३७॥

इन्द्र उवाच
भगवन्सर्वधर्मज्ञ सर्वभूतहिते रत ।
संयोगजस्य पापस्य विशेषं वक्तुमर्हसि ॥३८॥

बृहस्पतिरुवाच
संयोगजं तु यत्पापं तच्चतुर्धा निगद्यते ।
कर्ता प्रधानः सहकृन्निमित्तोऽनुमतः क्रमात् ॥३९॥

क्रमाद्दशांशतोऽघं स्याच्छुद्धिः पूर्वोक्तमार्गतः ॥४०॥

मद्यं कलञ्जं निर्यासं छत्राकं गृञ्जनं तथा ।
लशुनं च कलिङ्गं च महाकोशातकीं तथा ॥४१॥

बिंबीं च कवकं चैव हस्तिनीं शिशुलंबिकाम् ।
औदुंबरं च वार्ताकं कतकं बिल्वमल्लिका ॥४२॥

क्रमाद्दशगुणं न्यूनमघमेषां विनिर्दिशेत् ।
पुरग्रामाङ्गवैश्याङ्गवेश्योपायनविक्रयी ॥४३॥

सेवकः पुरसंस्थश्च कुग्रामस्थोऽभिशस्तकः ।
वैद्यो वैखानसः शैवो नारीजीवोऽन्नविक्रयी ॥४४॥

शस्त्रजीवी परिव्राट्च वैदिकाचारनिन्दकः ।
क्रमाद्दशगुणान्न्यूनमेषामन्नादने भवेत् ॥४५॥

स्वतन्त्रं तैलकॢप्तं तु ह्युक्तार्थं पापमादिशेत् ।
तैरेव दृष्टं तद्भुक्तमुक्तपापं विनिर्दिशेत् ॥४६॥

ब्रह्मक्षत्रविशां चैव सशूद्राणां यथौदनम् ।
तैलपक्वमदृष्टं च भुञ्जन्पादमघं भवेत् ॥४७॥

द्विजात्मदासीकॢप्तं च तया दृष्टे तदर्धके ।
वेश्यायास्तु त्रिपादं स्यात्तथा दृष्टे तदोदने ॥४८॥

शूद्रावत्स्यात्तु गोपान्नं विना गव्यचतुष्टयम् ।
तैलाज्यगुडसंयुक्तं पक्वं वैश्यान्न दुष्यति ॥४९॥

वैश्यावद्ब्राह्मणी भ्रष्टा तया दृष्टेन किञ्चन ॥५०॥

ब्रुवस्यान्नं द्विजो भुक्त्वा प्राणायामशतं चरेत् ।
अथवान्तर्जले जप्त्वाद्रुपदां वा त्रिवारकम् ॥५१॥

इदं विष्णुस्त्र्यंबकं वा त्थैवान्तर्जले जपेत् ।
उपोष्य रजनीमेकां ततः पापाद्विशुध्यति ॥५२॥

अथवा प्रोक्षयेदन्नमब्लिङ्गैः पावमानिकैः ।
अन्नसूक्तं जपित्वा तु भृगुर्वै वारुणीति च ॥५३॥

ब्रह्मार्पणमिति श्लोकं जप्त्वा नियममाश्रितः ।
उपोष्य रजनीमेकां ततः शुद्धो भविष्यति ॥५४॥

स्त्री भुक्त्वा तु ब्रुवाद्यन्नमेकाद्यान्भोजये द्द्विजान् ।
आपदि ब्राह्मणो ह्येषामन्नं भुक्त्वा न दोषभाक् ॥५५॥

इदं विष्णुरिति मन्त्रेण सप्तवाराभिमन्त्रितम् ।
सोऽहंभावेन तद्ध्यात्वा भुक्त्वा दोषैर्न लिप्यते ॥५६॥

अथवा शङ्करं ध्यायञ्जप्त्वा त्रैय्यंबकं मनुम् ।
सोऽहंभावेन तज्ज्ञानान्न दोषैः प्रविलिप्यते ॥५७॥

इदं रहस्यं देवेन्द्र शृणुष्व वचनं मम ।
ध्यात्वा देवीं परां शक्तिं जप्त्वा पञ्चदशाक्षरीम् ॥५८॥

तन्निवेदितबुद्ध्यादौ योऽश्नाति प्रत्यहं द्विजः ।
नास्यान्नदोषजं किञ्चिन्न दारिद्रयभयं तथा ॥५९॥

न व्याधिजं भयं तस्य न च शत्रुभयं तथा ।
जपतो मुक्तिरेवास्य सदा सर्वत्र मङ्गलम् ॥६०॥

एष ते कथितः शक्र पापानामपि विस्तरः ।
प्रायश्चित्तं तथा तेषां किमन्यच्छ्रोतुमिच्छसि ॥६१॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्यानेऽष्टमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP