संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|उत्तरभागः| अध्यायः ३३ उत्तरभागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ उत्तरभागः - अध्यायः ३३ ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे. Tags : brahmand puranpuranपुराणब्रह्माण्ड पुराणसंस्कृत अध्यायः ३३ Translation - भाषांतर हयग्रीव उवाचकथितं सप्तशालानां लक्षणं शिल्पिभिः कृतम् ।अथ रत्नमयाः शालाः प्रकीर्त्यन्तेऽवधारय ॥१॥सुवर्णमयशालस्य पुष्परागमयस्य च ।सप्तयोजनमात्रं स्यान्मध्येन्तरमुदात्दृतम् ॥२॥तत्र सिद्धाःसिद्धनार्यः खेलन्ति मदविह्वलाः ।रसै रसायनैश्चापि खड्गैः पादाञ्जनैरपि ॥३॥ललितायां भक्तियुक्तास्तर्पयन्तो महाजनान् ।वसंति विविधास्तत्र पिबन्ति मदिरारसान् ॥४॥पुष्परागादिशालानां पूर्ववद्द्वारकॢप्तयः ।पुष्परागादिशालेषु कवाटार्गलगोपुरम् ।पुष्परागादिजं ज्ञेयमुच्चेन्द्वादित्यभास्वरम् ॥५॥हेमप्राकारचक्रस्य पुष्परागमयस्य च ।अन्तरे या स्वली सापि पुष्परागमयी स्मृता ॥६॥वक्ष्यमाणमहाशालाकक्षासु निखिलास्वपि ।तद्वर्णाः पक्षिणस्तत्र तद्वर्णानि सरांसि च ॥७॥तद्वर्मसलिला नद्यस्तद्वर्णाश्च मणिद्रुमाः ।सिद्धजातिषु ये देवीमुपास्य विविधैः क्रमै ।त्यक्तवन्तो वपुः पूर्वं ते सिद्धास्तत्र सांगनाः ॥८॥ललितामन्त्रजप्तारो ललिताक्रमतत्पराः ।ते सर्वे ललितादेव्या नामकीर्तनकारिणः ॥९॥पुष्परागमहाशालान्तरे मारुतयोजने ।पद्मरागमयः शालश्चतुरस्रः समन्ततः ॥१०॥स्थली च पद्मरागढ्या गोपुराद्यं च तन्मयम् ।तत्र चारणदेशस्थाः पूर्वदेहविनाशतः ।सिद्धिं प्राप्ता महाराज्ञीचरमाम्भोजसेवकाः ॥११॥चारणीनां स्त्रियश्चापि चार्वङ्ग्यो मदलालसाः ।गायन्ति ललितादेव्या गीतिबन्धान्मुहुर्मुहुः ॥१२॥तत्रैव कल्पवृक्षाणां मध्यस्थवेदिकास्थिताः ।भर्तृभिः सहचारिण्यः पिबन्ति मधुरं मधु ॥१३॥पद्मरागमहाशालान्तरे मरुतयोजने ।गोमेदकमहाशालः पूर्वशालासमाकृतिः ।अतितुङ्गो हीरशालस्तयोर्मध्ये च हीरभूः ॥१४॥तत्र देवीं समभ्यर्च्य पूर्वजन्मनि कुम्भज ।वसन्त्यप्सरसां वृन्दैः साकं गन्धर्वपुङ्गवाः ॥१५॥महाराज्ञीगुणगणान्गायन्तो वल्लकीस्वनैः ।कामभोजैकरसिकाः कामसन्निभविग्रहाः ।सुकुमारप्रकृतयः श्रीदेवीभक्तिशालिनः ॥१६॥गोमेदकस्य शालस्तुपूर्वशालसमाकृतिः ।तदन्तरे योगिनीनां भैरवाणां च कोटयः ।कालसङ्कर्षणीमंबां सेवन्ते तत्र भक्तितः ॥१७॥गोमेदकमहाशालान्तरे मारुतयोजने ।उर्वशी मेनका चैव रम्भा चालंबुषा तथा ॥१८॥मञ्जुघोषा सुकेशी च पूर्वचित्तिर्घृताचिका ।कृतस्थला च विश्वाची पुञ्जिकस्थलया सह ॥१९॥तिलोत्तमेति देवानां वेश्या एतादृशोऽपराः ।गन्धर्वैः सह नव्यानि कल्पवृक्षम धूनि च ॥२०॥पिबन्त्यो ललितादेवीं ध्यायन्त्यश्च मुहुर्मुहुः ।स्वसौभाग्यविवृद्ध्यर्थं गुणयन्त्यश्च तन्मनुम् ॥२१॥चतुर्दशसुचोत्पन्ना स्थानेष्वप्सरसोऽखिलाः ।तत्रैव देवीमर्चन्त्यो वसंति मुदिताशयाः ॥२२॥अगस्त्य उवाचचतुर्दशापि जन्मानि तासामप्सरसां विभो ।कीर्तय त्वं महाप्राज्ञ सर्वविद्यामहानिधे ॥२३॥हयग्रीव उवाचब्राह्मणो हृदयं कामो मृत्युरुर्वी च मारुतः ।तपनस्य कराश्चन्द्रकरो वेदाश्च पावकः ॥२४॥सौदामिनी च पीयूषं दक्षकन्या जलं तथा ।जन्मनः कारणान्येतान्या मनन्ति मनीषिणः ॥२५॥गीर्वाणगण्यनारीणां स्फुरत्सौभाग्यसंपदाम् ।एताः समस्ता गन्धर्वैः सार्धमर्चन्ति चक्रिणीम् ॥२६॥किन्नराः सह नारीभिस्तथा किंपुरुषा मुने ।स्त्रीभिः सह मदोन्मत्ता हीरकस्थलमाश्रिताः ॥२७॥महाराज्ञीमन्त्रजापैर्विधूताशेष कल्मषाः ।नृत्यन्तश्चैव गायन्तो वर्तन्ते कुंभसंभव ॥२८॥तत्रैव हीरकक्षोण्यां वज्रा नाम नदी मुने ।वज्रकारैर्निबिडिता भासमाना तटद्रुमैः ॥२९॥वज्ररत्नैकसिकता वज्रद्रवमयोदका ।सदा वहति सा सिंधुः परितस्तत्र पावनी ॥३०॥ललितापरमेशान्यां भक्त ये मानवोत्तमाः ।ते तस्या उदकं पीत्वा वज्ररूपकलेवराः ।दीर्घायुषश्च नीरोगा भवन्ति कलशोद्भव ॥३१॥भण्डासुरेण गलिते मुक्ते वज्रे शतक्रतुः ।तरयास्तीरे तपस्तेपे वज्रेशीं प्रति भक्तिमान् ॥३२॥तज्जलादुदिता देवी वज्रं दत्त्वा बलद्विषे ।पुनरन्तर्दधेसोऽपि कृतार्थःस्वर्गमेयिवान् ॥३३॥अथ वज्राख्यशालस्यान्तरे मारुतयोजने ।वैदूर्यशाल उत्तुङ्गः पूर्ववद्गोपुरान्वितः ।स्थाली च तत्र वैदृर्यनिर्मिता भास्वराकृतिः ॥३४॥पातालवासिनो येये श्रीदेव्यर्चनसाधकाः ।ते सिद्धमूर्तयस्तत्र वसन्ति सुखमेदुराः ॥३५॥शेषकर्केटकमहापद्मवासुकिशङ्खकाः ।तक्षकः शङ्खचूडश्च महादन्तो महाफणः ॥३६॥इत्येवमादयस्तत्र नागा नागास्त्रयोऽपि च ।बलीन्द्रप्रमुखानां च दैत्यानां धर्मवर्तिनाम् ।गणस्तत्र तथा नागैः सार्धं वसति सांगनाः ॥३७॥ललितामन्त्र जप्तारो ललिताशास्त्रदीक्षिताः ।ललितापूजका नित्यं वसन्त्यसुरभोगिनः ॥३८॥तत्र वैदूर्यकक्षायां नद्यः शिशिरपाथसः ।सरांसिविमलांभांसि सारसालङ्कृतानि च ॥३९॥भवनानि तु दिव्यानि वैदूर्यमणिमन्ति च ।तेषु क्रीडन्ति ते नागा असुराश्च सहाङ्गनाः ॥४०॥वैदूर्याख्यमहाशालान्तरे मारुतयोजने ।इन्द्रनीलमयः शालश्चक्रवाल इवापरः ॥४१॥तन्मध्यकक्षाभूमिश्च नीलरत्नमयी मुने ।तत्र नद्यश्च मधुराः सरांसि शिशिराणि च ।नानाविधानि भोग्यानि वस्तूनि सरसान्यपि ॥४२॥ये भूलोकगता मर्त्या ललितामन्त्रसाधकाः ।ते देहान्ते शक्रनीलकक्ष्यां प्राप्य वसंति वै ॥४३॥तत्र दिव्यानि वस्तूनि भुञ्जाना वनितासखाः ।पिबन्तो मधुरं मद्यं नृत्यन्तो भक्तिनिर्भराः ॥४४॥सरस्सु तेषु सिंधूनां कुलेषु कलशोद्भव ।लतागृहेषु रम्येषु मन्दिरेषु महर्द्धिषु ॥४५॥सदा जपन्तः श्रीदेवी पठन्तश्चापि तद्गुणान् ।निवसंति महाभागा नारीभिः परिवेष्टिताः ॥४६॥कर्मक्षये पुनर्यान्ति भूलोके मानुषीं तनुम् ।पूर्ववासनया युक्ताः पुनरर्चन्ति चक्रिणीम् ।पुनर्यान्ति श्रीनगरे शक्रनीलमहास्थलीम् ॥४७॥तत्स्थलस्यैव संपर्काद्रागद्वेषसमुद्भवैः ।नीलैर्भावैः सदा युक्ता वर्तन्ते मनुजा मुने ॥४८॥ये पुनर्ज्ञानिनो मर्त्या निर्द्वन्द्वा नियतेन्द्रियाः ।ते मुने विस्मयाविष्टाः संविशन्ति महेश्वरीम् ॥४९॥इन्द्रनीलाख्यशालस्यान्तरे मारुतयोजने ।मुक्ताफलमयःशालः पूर्ववद्गोपुरान्वितः ॥५०॥अत्यन्तभास्वरा स्वच्छा तयोर्मध्ये स्थली मुने ।सर्वापि मुक्ताखचिताः शिशिरातिमनोहराः ॥५१॥ताम्रपर्णी महापर्णी सदा मुक्ताफलोदका ।एवमाद्या महानद्यः प्रवरन्ति महास्थले ॥५२॥तासां तीरेषु सर्वेऽपि देवलोकनिवासिनः ।वसंति पूर्वजनुषि श्रीदेवीमन्त्रसाधकाः ॥५३॥पूर्वाद्यष्टसु भागेषु लोकाः शक्रादिगोचराः ।मुक्ताशालस्य परितः संयुज्य द्वारदेशकान् ॥५४॥मुक्ताशालस्य नीलस्य द्वारयोर्मध्यदेशतः ।पूर्वभागे शक्रलोकस्तत्कोणे वह्निलोकभूः ॥५५॥याम्यभागे यमपुरं तत्र दण्डधरः प्रभुः ।सर्वत्र ललितामन्त्रजापी तीव्रस्वभाववान् ॥५६॥आज्ञाधरो यमभटैश्चित्रगुप्तपुरोगमैः ।सार्धं नियमयत्येव श्रीदेवीसमयं गुहः ॥५७॥गुहशप्तान्दुराचाराल्लंलिताद्वेषकारिणः ।कूडभक्तिपरान्मूर्खांस्तब्धानत्यन्तदर्पितान् ॥५८॥मन्त्रचोरान्कुमन्त्रांश्च कुविद्यानघसंश्रयान् ।नास्तिकान्पापशीलांश्च वृथैव प्राणिहिंसकान् ॥५९॥स्त्रीद्विष्टांल्लोकविद्विष्टान्पाषण्डानां हि पालिनः ।कालसूत्रे रौरवे च कुम्भीपाके च कुम्भज ॥६०॥असिपत्रवने घोरे कृमिभक्षे प्रतापने ।लालाक्षेपे सूचिवेधे तथैवाङ्गारपातने ॥६१॥एवमादिषु कष्टेषु नरकेषु घटोद्भव ।पातयत्याज्ञया तस्याः श्रीदेव्याः स महौजसः ॥६२॥तस्यैव पश्चिमे भागे निरृतिः खड्गधारकः ।राक्षसं लोकमाश्रित्य वर्तते ललितार्चकः ॥६३॥तस्य चोत्तरभागे तु द्वारयोरन्तस्यले ।वारुणं लोकमाश्रित्य वरुणे वर्तते सदा ॥६४॥वारुण्यास्वादनोन्मत्तः शुभ्राङ्गो झषवाहनः ।सदा श्रीदेवतामं त्रजापी श्रीक्रमसाधकः ॥६५॥श्रीदेवतादर्शनस्य द्वेषिणः पाशबन्धनैः ।बद्ध्वा नयत्यधोमार्गं भक्तानां बन्धमोचकः ॥६६॥तस्य चोत्तरकोणेषु वायुलोको महाद्युतिः ।तत्र वायुशरीराश्च सदानन्दमहोदयाः ॥६७॥सिद्धा दिव्यर्षयश्चैव पवनाभ्यासिनोऽपरे ।गोरक्षप्रमुखाश्चान्ये योगिनो योगतत्पराः ॥६८॥एतैः सह महासत्त्वक्तत्र श्रीमारुतेश्वरः ।सर्वथा भिन्नमूर्तिश्च वर्तते कुम्भसम्भव ॥६९॥इडा च पिङ्गला चैव सुषुम्णा तस्य शक्तयः ।तिस्रो मारुतनाथस्य सदा मधुमदालसाः ॥७०॥ध्वजहस्तो मृगवरे वाहने महति स्थितः ।ललितायजनध्यानक्रमपूजनतत्परः ॥७१॥आनन्दपूरिताङ्गीभिरन्याभिः शक्तिभिर्वृतः ।स मारुतेश्वरः श्रीमान्सदा जपति चक्रिणीम् ॥७२॥तेन सत्त्वेन कल्पान्ते त्रैलोक्यं सचराचरम् ।परागमयतां नीत्वा विनोदयति तत्क्षणात् ॥७३॥तस्य सत्त्वस्य सिद्ध्यर्थं तामेव ललितेश्वरीम् ।पूजयन्भावयन्नास्ते सर्वाभरणभूषितः ॥७४॥तल्लोकपूर्वभागस्थे यक्षलोके महाद्युतिः ।यक्षेन्द्रो वसति श्रीमांस्तद्द्वारद्वन्द्वमध्यगः ॥७५॥निधिभिश्च नवाकारैरृद्धिवृद्ध्यादिशक्तिभिः ।सहितो ललिताभक्तान्पूरयन्धनसम्पदा ॥७६॥यक्षीभिश्च मनोज्ञाभिरनुकूलप्रवृत्तिभिः ।विविधैर्मधुभेदैश्च सम्पूजयति चक्रिणीम् ॥७७॥मणिभद्रः पूर्णभद्रो मणिमान्माणिकन्धरः ।इत्येवमादयो यक्षसेनान्यस्तत्र संति वै ॥७८॥तल्लोकपूर्वभागे तु रुद्रलोको महोदयः ।अनर्ध्यरत्नखचितस्तत्र रुद्रोऽधिदेवता ॥७९॥सदैव मन्युना दीप्तः सदा बद्धमहेषुधिः ।स्वसमानैर्महासत्त्वैलोङ्कनिर्वाहदक्षिणैः ॥८०॥अधिज्यकार्मुकैर्दक्षैः षोडशावरणस्थितैः ।आवृतः सततं वक्त्रैर्जपञ्छीदेवतामनुम् ॥८१॥श्रीदेवीध्यानसम्पन्नः श्रीदेवीपूजनोत्सुकः ।अनेककोटिरुद्राणीगणमण्डितपार्श्वभूः ॥८२॥ताश्च सर्वाः प्रदीप्ताङ्ग्यो नवयौवनगर्विताः ।ललिताध्याननिरनाः सदासवमदालसाः ॥८३॥ताभिश्च साकं स श्रीमान्महारुद्रस्त्रिशूलभृत् ।हिरण्यबाहुप्रमुशै रुद्रैरन्यैर्निषेवितः ॥८४॥ललितादर्शनभ्रष्टानुद्धतान्गुरुधिक्कृतान् ।शूलकोट्या विनिर्भिद्य नेत्रोत्थैः कटुपावकैः ॥८५॥दहंस्तेषा वधूभृत्यान्प्रजाश्चैव विनाशयन् ।आज्ञाधरो महावीरो ललिताज्ञाप्रपालकः ॥८६॥रुद्रलोकेऽतिरुचिरे वर्तते कुम्भसम्भव ।महारुद्रस्य तस्यर्षे परिवाराः प्रमाथिनः ॥८७॥ये रुद्रास्तानसंख्यातान्को वा वक्तुं पटुर्भवेत् ।ये रुद्रा अधिभूम्यां तु सहस्राणां सहस्रशः ॥८८॥दिवियेऽपि च वर्तन्ते सहस्राणां सहस्रशः ।येषामन्नमिषश्चव येषां वातास्तथेषवः ॥८९॥येषां च वर्षमिषवः प्रदीप्ताः पिङ्गलेक्षणाः ।अर्णवे चान्तरिक्षे च वर्तमाना महौजसः ॥९०॥जटावन्तो मधुष्मन्तो नीलग्रीवा विलोहिताः ।ये भूतानामधिभुवो विशिखासः कपर्दिनः ॥९१॥ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।ये पथां रथका रुद्रा ये च तीर्थनिवासिनः ॥९२॥सहस्रसंख्या ये चान्ये सृकावन्तो निषङ्गिणः ।ललिताज्ञाप्रणेतारो दिशो रुद्रा वितस्थिरे ॥९३॥ते सर्वे सुमहात्मानः क्षणाद्विश्वत्रयीवहाः ।श्रीदेव्या ध्याननिषणाताञ्छ्रीदेवीमन्त्रजापिनः ॥९४॥श्रीदेवतायां भक्ताश्च पालयन्ति कृपालवः ।षोडशावरणं चक्रं मुक्ताप्राकारमण्डले ॥९५॥आश्रित्य रुद्रास्ते सर्वे महारुद्रं महोदयम् ।हिरण्यबाहुप्रमुखा ज्वलन्मन्युमुपासते ॥९६॥इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने पुष्परागप्रकारादिभुक्ताकरान्तसप्तकक्षान्तरकथनं नाम त्रयस्त्रिंशोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP