संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|ब्रह्माण्डपुराणम्|उत्तरभागः| अध्यायः १ उत्तरभागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ उत्तरभागः - अध्यायः १ ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे. Tags : brahmand puranpuranपुराणब्रह्माण्ड पुराणसंस्कृत अध्यायः १ Translation - भाषांतर अथोत्तरभागप्रारमभःश्रुत्वा पादं तृतीयं तु क्रान्तं सूतेन धीमता ।ततश्चतुर्थं पप्रच्छुः पादं वै ऋषिसत्तमाः ॥१॥पादः क्रान्तस्तृतीयोऽयमनुषङ्गेण नस्त्वया ।चतुर्थं विस्तरात्पादं संहारं पारिकीर्त्तय ॥२॥मन्वन्तराणि सर्वाणि पूर्वाण्येवापरैः सह ।सप्तर्षीणामथैतेषां सांप्रतस्यान्तरे मनोः ॥३॥विस्तरावयवं चैव निसर्गस्य महात्मनः ।विस्तरेणानुपूर्व्या च सर्वमेव ब्रवीहि नः ॥४॥सूत उवाचभवतां कथयिष्यामि सर्वमेतद्यथातथम् ।पादं त्विमं ससंहारं चतुर्थं मुनिसत्तमाः ॥५॥मनोर्वैवस्वतस्येमं सांप्रतस्य महात्मंनः ।विस्तरेणानुपूर्व्या च निसर्गं शृणुत द्विजाः ॥६॥मन्वन्तराणां संक्षेपं भविष्यैः सह सप्तभिः ।प्रलयं चैव लोकानां ब्रुवतो मे निबोधत ॥७॥एतान्युक्तानि वै सम्यक्सप्तसप्तसु वै प्रजाः ।मन्वन्तराणि संक्षेपाच्छृणुता नागतानि मे ॥८॥सावर्णस्य प्रवक्ष्यामि मनोर्वैवस्वतस्य ह ।भविष्यस्य भविष्यं तु समासात्तन्निबोधत ॥९॥अनागताश्च सप्तैव स्मृतास्त्विह महर्षयः ।कौशिको गालवश्चैव जामदग्न्यश्च भार्गवः ॥१०॥द्वैपायनो वशिष्टश्च कृपः शारद्वतस्तथा ।आत्रेयो दीप्तिमांश्चैव ऋषयशृङ्गस्तु काश्यपः ॥११॥भरद्वाजस्तथा द्रौणिरश्वत्थामा महायशाः ।एते सप्त महात्मानो भविष्याः परमर्षयः ।सुतपाश्चामिताभाश्च सुखाश्चैव गणास्त्रयः ॥१२॥तेषां गणस्तु देवानामेकैको विंशकः स्मृतः ।नामतस्तु प्रवक्ष्यामि निबोधध्वं समाहिताः ॥१३॥ऋतुस्तपश्च शुक्रश्च कृतिर्नेमिः प्रभाकरः ।प्रभासो मासकृद्धर्मस्तेजोरश्मिः क्रतुर्विराट् ॥१४॥अर्चिष्मान् द्योतनो भानुर्यशः कीर्त्तिर्बुधो धृतिः ॥१५॥विंशतिः सुतपा ह्येते नामभिः परिकीर्त्तिताः ।प्रभुर्विभुर्विभासश्च जेता हन्ता रिहा ऋतुः ॥१६॥सुमतिः प्रमतिर्दीप्तिः समाख्यातो महो महान् ।देही मुनिरिनः पोष्टा समः सत्यश्च विश्रुतः ॥१७॥इत्येतेह्यमिताभास्तु विंशतिः परिकीर्त्तिताः ।दामो दानी ऋतः सोमो वित्तं वैद्यो यमो निधिः ॥१८॥होमो हव्यं हुतं दानं देयं दाता तपः शमः ।ध्रुवं स्थानं विधानं च नियमश्चेति विंशतिः ॥१९॥सुखा ह्येते समाख्याताः सावर्ण्ये प्रथर्मेतरे ।मारीचस्यैव ते पुत्राः कश्यपस्य महात्मनः ॥२०॥सांप्रतस्य भविष्यन्ति षष्टिर्देवास्तदन्तरे ।सावर्णस्य मनोः पुत्रा भविष्यन्ति नवैव तु ॥२१॥विरजाश्चार्वरीवांश्च निर्मोकाद्यास्तथा परे ।नव चान्येषु वक्ष्यामि सावर्णेष्वन्तरेषु वै ॥२२॥सावर्णमनवश्चान्ये भविष्या ब्रह्मणः सुताः ।मेरुसावर्णितस्ते वै चत्वारो दिव्यदृष्टयः ॥२३॥दक्षस्य ते हि वौहित्राः क्रियाया दुहितुः सुताः ।महता तपसा युक्ता मेरुपृष्ठे महौ जसः ॥२४॥ब्रह्मादिभिस्तेजनिता दक्षेणैव च धीमता ।महर्लोकं गता वृत्ता भविष्या मेरुमाश्रिताः ॥२५॥महानुभावास्ते पूर्वं जज्ञिरे चाक्षुषेन्तरे ।जज्ञिरे मनवस्ते हि भविष्यानागतान्तरे ॥२६॥प्राचेतसस्य दक्षस्य दौहित्रा मनवस्तु ये ।सावर्णा नामतः पञ्च चत्वारः परमर्षिजाः ॥२७॥संज्ञापुत्रस्तु सावर्णिरेको वैवस्वतस्तथा ।ज्येष्ठः संज्ञासुतो नाम मुर्वैवस्वतः प्रभुः ॥२८॥वैवस्वतेंऽतरे प्राप्ते समुत्पत्तिस्तयोः शुभा ।चतुर्दशैते मनवः कीर्तिता कीर्तिवर्द्धनाः ॥२९॥वेदे स्मृतौ पुराणे च सर्वे ते प्रभविष्णवः ।प्रजानां पतयः सर्वे भूतानां पतयः स्थिताः ॥३०॥तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।पूर्णं युगसहस्रं वै परिपाल्या नरेश्वरैः ॥३१॥प्रजाभिस्तपसा चैव विस्तरस्तेषु वक्ष्यते ।चतुर्द्दशैते विज्ञेयाः सर्गाः स्वायंभुवादयः ॥३२॥मन्वन्तराधिकारेषु वर्त्तन्तेऽत्र सकृत्सकृत् ।विनिवृत्ताधिकारास्ते महार्लोकं समाश्रिताः ॥३३॥समतीतास्तु ये तेषामष्टौ षट्च तथापरे ।पूर्वेषु सांप्रतश्चायं शास्ति वैवस्वतः प्रभुः ॥३४॥ये शिष्टास्तान्प्रवक्ष्यामि सह देवर्षिदानवैः ।सह प्रजा निसर्गेण सर्वांस्तेऽनागतान्द्विजः ॥३५॥वैवस्वत निसर्गेण तेषां ज्ञेयस्तु विस्तरः ।अनूना नातिरिक्तास्ते यस्मात्मर्वे विवस्वतः ॥३६॥पुनरुक्तबहुत्वात्तु न वक्ष्ये तेषु विस्तरम् ।मन्वन्तरेषु भाव्येषु भूतेष्वपि तथैव च ॥३७॥कुलेकुले निसर्गास्तु तस्माज्ज्ञेया विभागशः ।तेषामेव हि सिद्ध्यर्थं विस्तरेण क्रमेण च ॥३८॥दक्षस्य कन्या धर्मिष्ठा सुव्रता नाम विश्रुता ।सर्वकन्यावरिष्ठा तु ज्येष्ठा या वीरिणीसुता ॥३९॥गृहीत्वा तां पिता कन्यां जगाम ब्रह्मणोऽतिके ।वैराजस्थमुपासीनं धर्मेण च भवेन च ॥४०॥भवधर्मसमीपस्थं दक्षं ब्रह्माभ्यभाषत ।दक्ष कन्या तवेयं वै जनयिष्यति सुव्रता ॥४१॥चतुरो वै मनून्पुत्रांश्चातुर्वर्ण्यकराञ्छुभान् ।ब्रह्मणो वचनं श्रुत्वा दक्षो धर्मो भवस्तदा ॥४२॥तां कन्यां मनसा जग्मुस्त्रयस्ते ब्रह्मणा सह ।सत्याभिध्यायिनां तेषां सद्यः कन्या व्यजायत ॥४३॥सदृशानूपतस्तेषां चतुरो वै कुमारकान् ।संसिद्धाः कार्यकरणे संभूतास्ते श्रियान्विताः ॥४४॥उपभोगासमर्थैश्च सद्योजातैः शरीरकैः ।ते दृष्ट्वा तान्स्वयंभूतान्ब्रह्मव्याहारिणस्तदा ॥४५॥सरंब्धा वै व्यकर्षन्त मम पुत्रो ममेत्युत ।अभिध्यायात्मनोत्पन्नानूचुर्वै ते परस्परम् ॥४६॥यो यस्य वपुषा तुल्यो भजतां सततं सुतम् ।यस्य यः सदृशश्चापि रूपे वीर्ये च मानतः ॥४७॥तं गृह्णातु स भद्रं वो वर्णतो यस्य यः समः ।ध्रुवं रूपं पितुः पुत्रः सोऽनुरुध्यति सर्वदा ॥४८॥तस्मादात्मसमः पुत्रः पितुर्मातुश्च वीर्यतः ।एवं ते समयं कृत्वा सर्वेषां जगृहः सुतान् ॥४९॥चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वतस्य ह ।रुचेः प्रजापतेः पुत्रो रौच्यो नामाभवत्सुतः ॥५०॥भूत्यामुत्पादितो यस्तु भौत्यो नाम कवेः सुतः ।वैवस्वतेंऽतरे जातौ द्वौ मनू तु विवस्वतः ॥५१॥वैवस्वतो मनुर्यश्च सावर्णो यश्च वै श्रुतः ।ज्ञेयः संज्ञासुतो विद्वान्मनुर्वैवस्वतः प्रभुः ॥५२॥सवर्णायाः सुतश्चान्यः स्मृतो वैवस्वतो मनुः ।सावर्णम नवो ये च चत्वारस्तु महर्षिजाः ॥५३॥तपसा संभृतात्मानः स्वेषु मन्वन्तरेषु वै ।भविष्येषु भविष्यन्ति सर्वकार्यार्थसाधकाः ॥५४॥प्रथमे मेरुसावर्णेदक्षपुत्रस्य वै मनोः ।परामरीचिगर्भाश्च सुधर्माणश्च ते त्रयः ।संभूताश्च महात्मानः सर्वे वैवस्वतेन्तरे ॥५५॥दक्षपुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः ।भविष्यन्ति भविष्यास्तु एकैको द्वादशो गणः ॥५६॥ऐश्वरश्च ग्रहो राहुर्वाकुर्वंशस्तथैव च ।पारा द्वादश विज्ञेया उत्तरांस्तु निबोधत ॥५७॥वाजिपो वाजिजिच्चैव प्रभूतिश्च ककुद्यथ ।दधिक्रावा विपक्वश्च प्रणीतो विजयो मधुः ॥५८॥उतथ्योत्तमकौ द्वौ तु द्वादशैते मरीचयः ।सुधर्माणस्तु वक्ष्यामि नामतस्तान्निबोधत ॥५९॥वर्णस्तथाथगर्विश्च भुरण्यो व्रजनोऽमितः ।अमितो द्रवकेतुश्च जंभोऽथाजस्तु शक्रकः ॥६०॥सुनेमिर्द्युतयश्चैव सुधर्माणः प्रकीर्तिताः ।तेषामिन्द्रस्तदा भाव्यो ह्यद्भुतो नाम नामतः ॥६१॥स्कन्दोऽसौ पार्वतीयो वै कार्तिकेयस्तु पावकिः ।मेधातिथिश्च पौलस्त्यो वसुः काश्यप एवं च ॥६२॥ज्योतिष्मान्भार्गवाश्चैव द्युतिमानङ्गिरास्तथा ।वसिनश्चैव वासिष्ठ आत्रेयो हव्यवाहनः ॥६३॥सुतपाः पौलहश्चैव सप्तैते रोहितेतरे ।धृतिकेतुर्दीप्तिकेतुः शापहस्तनिरामयाः ॥६४॥पृथुश्रवास्तथानीको भूरिद्युम्नो बृहद्यशः ।प्रथमस्य तु सावर्णेर्नव पुत्राः प्रकीर्तिताः ॥६५॥दशमे त्वथ पर्याये धर्मपुत्रस्य वै मनोः ।द्वीतीयस्य तु सावर्णेर्भाव्यस्यैवान्तरे मनोः ॥६६॥सुधामानो विरुद्धाश्च द्वावेव तु गणौ स्मृतौ ।दीप्तिमन्तश्च ते सर्वे शतसंख्याश्च ते समाः ॥६७॥प्राणानां यच्छतं प्रोक्तं ऋषिभिः पुरषेति वै ।देवास्ते वै भविष्यन्ति धर्मपुत्रस्य वै मनोः ॥६८॥तेषामिन्द्रस्तथा विद्वान्भविष्यः शान्तिरुच्यते ।हविष्मान्पौलहः श्रीमान्सुकीर्तिश्चाथ भार्गवः ॥६९॥आपोमूर्तिस्तथात्रेयो वसिष्ठश्चापवः स्मृतः ।पौलस्त्योऽप्रतिमश्चापि नाभागश्चैव काश्यपः ॥७०॥अभिमन्युश्चाङ्गिरसः सप्तैते परमर्षयः ।सुक्षेत्रश्चोत्तमौजाश्च भूरिसेनश्च वीर्यवान् ॥७१॥शतानीको निरामित्रो वृषसेनो जयद्रथः ।भूरिद्युम्नः सुवर्चाश्च दशैतेमानवाः स्मृताः ॥७२॥एकादशे तु पर्याये सावर्णे वै तृतीयके ।निर्वाणरतयो देवाः कामगा वै मनोजवाः ॥७३॥गणास्त्वेते त्रयः ख्याता देवातानां महात्मनाम् ।एकैकस्त्रिंशतस्तेषां गणस्तु त्रिदिवौकसाम् ॥७४॥मासस्याहानि त्रिंशत्तु यानि वै कवयो विदुः ।निर्वाणरतयो देवा रात्रयस्तु विहङ्गमाः ॥७५॥गणस्तृतीयो यः प्रोक्ते देवतानां भविष्यति ।मनोजवा मूरूर्त्तास्तु इति देवाः प्रकीर्तिताः ॥७६॥एते हि ब्रह्मणः पुत्रा भविष्या मानवाः स्मृताः ।तेषामिद्रो वृषा नाम भविष्यः सुरराट्ततः ॥७७॥तेषां सप्तऋषींश्चापि कीर्त्यमानान्निवौधत ।हविष्मान्काश्यपश्चापि वपुष्मांश्चैव भार्गवः ॥७८॥आरुणिश्च तथात्रेयो वसिष्ठो नग एव च ।पुष्टिराङ्गिरसो ज्ञेयः पौलस्त्यो निश्चरस्तथा ॥७९॥पौलहो ह्यतितेजश्च देवा ह्येकादशेन्तरे ।सर्ववेगः सुधर्मा च देवानीकः पुरोवहः ॥८०॥क्षेमधर्मा ग्रहेषुश्च आदर्शः पैण्ड्रको मरुः ।सावर्णस्य तु ते पुत्राः प्राजापत्यस्य वै नव ॥८१॥द्वादशे त्वथ पर्याये रुद्रपुत्रस्य वै मनोः ।चतुर्थो रुद्रसावर्णो देवांस्तस्यान्तरे शृणु ॥८२॥पञ्चैव तुगणाः प्रोक्ता देवतानामनागताः ।हरिता रोहिताश्चैव देवाः सुमनसस्तथा ॥८३॥सुकर्माणः सुतरश्च विद्वांश्चैव सहस्रदः ।पर्वतोऽनु चरश्चैव अपाशुश्च मनोजवः ॥८४॥ऊर्जा स्वाहा स्वधा तारा दशेते हरिताः स्मृताः ।तपो ज्ञानी मृतिश्चैव वर्चा बन्धुश्च यः स्मृतः ॥८५॥रजश्चैव तु राजश्च स्वर्णपादस्तथैव च ।पुष्टिर्विधिश्च वै देवा दशैते रोहिताः स्मृताः ॥८६॥तुष्ताद्यास्तु ये देवास्त्रय स्त्रिंशत्प्रकीर्तिताः ।ते वै सुमनसो वेद्यान्निबोधत सुकर्मणः ॥८७॥सुपर्वा वृषभः पृष्टा कपिद्युम्नविपश्चितः ।विक्रमश्च क्रमश्चैव विभृतः कान्त एव च ॥८८॥एते देवाः सुकर्माणः सुतरांश्च निबोधत ।वर्षो दिव्यस्तथाञ्जिष्ठो वर्चस्वी द्युतिमान्कविः ॥८९॥शुभो हविः कृतप्राप्तिर्व्यापृतो दशमस्तथा ।सुतारा नामतस्त्वेते देवा वै संप्रकीर्तिताः ॥९०॥तेषामिन्द्रस्तु विज्ञेयो ऋतधामा महायशाः ।द्युतिर्वसिष्ठपुत्रस्तु आत्रेयः सुतपास्तथा ॥९१॥तपोमूर्तिस्त्वाङ्गिरसस्तपस्वी काश्यपस्तथा ।तपोधनश्च पौलस्त्यः पौलहश्च तपोरतिः ॥९२॥भार्गवः सप्तमस्तेषां विज्ञेयस्तु तपोधृतिः ।एते सप्तर्षयः सिद्धा अन्त्ये सावर्णिकेंऽतरे ॥९३॥देववानुपदेवश्च देवश्रेष्ठो विदूरथः ।मित्रवान्मित्रसेनोऽथ चित्रसेनो ह्यमित्रहा ॥९४॥मित्रबाहुः सुवर्चाश्च द्वादशस्य मनोः सुताः ।त्रयोदशेतु पर्याये भाव्ये रौच्येन्तरे पुनः ॥९५॥त्रय एव गणाः प्रोक्ता देवानां तु स्वयंभुवा ।ब्रह्मणो मानसाः पुत्रास्ते हि सर्वे महात्मनः ॥९६॥सुत्रामाणः सुधर्माणः सुकर्माणश्च ते त्रयः ।त्रिदशानां गणाः प्रोक्ता भविष्याः सोमपायिनाम् ॥९७॥त्रयस्त्रिशद्देवता याः पृथगिज्यास्तु याज्ञिकैः ।आज्येन पृषदाज्येन ग्रहश्रेष्टेन चैव ह ॥९८॥ये वै देवास्त्रयस्त्रिंशत्पृथक्त्वेन निबोधत ।सुत्रामाणः प्रयाज्यास्तु आज्याशा ये तु सांप्रतम् ॥९९॥सुकर्माणोऽनुयाज्याख्याः पृषदाज्याशिनस्तु ये ।उपयाज्याः सुधर्माण इति देवाः प्रकीर्त्तिताः ॥१००॥दिवस्पतिर्महासत्वस्तेषामिन्द्रो भविष्यति ।पुलहात्मजपुत्रास्ते विज्ञेयास्तु रुचेः सुताः ॥१०१॥अङ्गिराश्चैव धृतिमान् पौलस्त्योऽप्यव्ययस्तु सः ।पौलहस्तत्त्वदर्शी छ भार्गवश्च निरुप्सुकः ॥१०२॥निष्प्रकंप्यस्तथात्रेयो निर्मोहः काश्यपस्तथा ।सुतपाश्चैव वासिष्ठः सप्तैते तु त्रयोदश ॥१०३॥चित्रसेनो विचित्रश्च नयो धर्मो धृतो भवः ।अनेकः क्षत्रविद्धश्च सुरसो निर्भयो दश ॥१०४॥रौच्यस्यैते मनोः पुत्रा ह्यन्तरे तु त्रयोदशे ।चतुर्दशे तु पर्याये भौत्यस्याप्यन्तरे मनोः ॥१०५॥देवतानां गणाः पञ्च प्रोक्ता ये तु भविष्यति ।चाक्षुषाश्च पवित्राश्च कनिष्ठा भ्राजितास्तथा ॥१०६॥वाचावृद्धाश्च इत्येते पञ्च देवगणाः स्मृताः ।निषादाद्याः स्वराः सप्त सप्त तान्विद्धि चाक्षुषान् ॥१०७॥बृहदाद्यानि सामानि कनिष्ठान्सप्त तान्विदुः ।सप्त लोकाः पवित्रास्ते भ्राजिताः सप्तसिंधवः ॥१०८॥वाचावृद्धानृषीन्विद्धि मनोः स्वायभुवस्य ये ।सर्वे मन्वन्तरेद्राश्च विज्ञेयास्तुल्यलक्षणाः ॥१०९॥तेजसा तपसा वुद्ध्या बलश्रुतपराक्रमैः ।त्रैलोक्ये यानि सत्त्वानि गतिमन्ति ध्रुवाणि च ॥११०॥सर्वशः सर्वैर्गुणैस्तानि इन्द्रास्तेऽभिभवन्ति वै ।भूतापवादिनो हृष्टा मध्यस्था भूतवादिनः ॥१११॥भूताभवादिनः शक्तास्त्रयो वेदाः प्रवादिनाम् ।अग्नीध्रः काश्यपश्चैव पौलस्त्यो मागधश्च यः ॥११२॥भार्गवो ह्यग्निवाहुश्च शुचिराङ्गिरसस्तथा ।शुक्रश्चैव तु वासिष्ठः पौलहो मुक्त एव च ॥११३॥आत्रेयः श्वाजितः प्रोक्तो मनुपुत्रानतः शृणु ।उरुर्गुरुश्च गंभीरो बुद्धः शुद्धः शुचिः कृती ॥११४॥ऊर्जस्वी सुबलश्चैव भौत्यस्यैते मनोः सुताः ।सावर्णा मनवो ह्येते चत्वारो ब्रह्मणः सुताः ॥११५॥एको वैवस्वतश्चैव सावर्णो मनुरुच्यते ।रौच्यो भौत्यश्च यौ तौ तु मतौ पौलहभार्गवौ ।भौत्यस्यैवाधिपत्ये तु तूर्णं कल्पस्तु पूर्यते ॥११६॥सूत उवाचनिःशेषेषु तु सर्वेषु तदा मन्वन्तरेष्विह ॥११७॥अन्तेऽनेकयुगे तस्मिन्क्षीणे संहार उच्यते ।सप्तैते भार्गवा देवा अन्ते मन्वन्तरे तदा ॥११८॥भुक्त्वा त्रैलोक्यम ध्यस्था युगाख्या ह्येकसप्ततीः ।पितृभिर्मनुभिः सार्द्धं क्षीणे मन्वन्तरे तदा ॥११९॥अनाधारमिदं सर्वं त्रैलोक्यं वै भविष्यति ।ततः स्थाना नि शुभ्राणि स्थानिनां तानि वै तदा ॥१२०॥प्रभ्रशयन्ते विमुक्तानि तारा ऋक्षग्रहैस्तथा ।ततस्तेषु व्यतीतेषु त्रैलोक्यस्येश्वरेष्विह ॥१२१॥संप्रप्तेषु महर्लोकं यस्मिंस्ते कल्पवासिनः ।अजिताद्या गणा यत्र आयुष्मन्तश्चतुर्दश ॥१२२॥मन्वन्तरेषु सर्वेषु देवास्ते वै चतुर्द्दश ।सशरीराश्च श्रूयन्ते जनलोके सहानुगाः ॥१२३॥एवं देवेष्वतीतेषु महर्लोकाज्जनं प्रति ।भूतादिष्ववशिष्टेषु स्थावरां तेषु तेषु वै ॥१२४॥शून्येषु लोकस्थानेषु महान्तेषु भुवादिषु ।देवेषु च गतेष्वूर्द्ध्वं सायुज्यं कल्पवासिनाम् ॥१२५॥संहृत्य तास्ततो ब्रह्मा देवर्षिपितृदानवान् ।संस्थापयति वै सर्गमहर्दृष्ट्वा युगक्षये ॥१२६॥चतुर्युगसहस्रान्तमहर्यद्ब्रह्मणो विदुः ।रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥१२७॥नैमित्तिकः प्राकृतिको यश्चैवात्यन्तिकोर्ऽथतः ।त्रिविधिः सर्वभूतानामित्येष प्रतिसंचरः ॥१२८॥ब्राह्मो नैमित्तिकस्तस्य कल्पदाहः प्रसंयमः ।प्रतिसर्गे तु भूतानां प्राकृतः करणक्षयः ॥१२९॥ज्ञानाच्चात्यन्तिकः प्रोक्तः कारणानामसंभवः ।ततः संहृत्य तान्ब्रह्मा देवांस्त्रैलोक्यवासिनः ॥१३०॥प्रहरति प्रकुरुते सर्गस्य प्रलयं पुनः ।सुषुप्सुर्भगवान्ब्रह्मा प्रजाः संहरते तदा ॥१३१॥ततो युगसहस्रान्ते संप्राप्ते च युगक्षये ।तत्रात्मस्थाः प्रजाः कर्तुं प्रपेदे स प्रजापतिः ॥१३२॥तदा भवत्यनावृष्टिः संतता शतवार्षिकी ।तया यान्यल्पसाराणि सत्त्वानि वृथिवीतले ॥१३३॥तान्येवात्र प्रलीयन्ते भूमित्वमुपयान्ति च ।सप्तरश्मिरथो भूत्वा उदत्तिष्ठद्विभावसुः ॥१३४॥असह्यरश्मिर्भगवान्पिबत्यंभो गनस्तिभिः ।हरीतारश्मयस्तस्यदीप्यमानास्तु सप्ततिः ॥१३५॥भूय एव विवर्त्तन्ते व्याप्नुवन्तोंबरं शनैः ।भौमं काष्ठेन्धनं तेजो भृशमद्भिस्तु दीप्यते ॥१३६॥तस्मादुदकभृत्सूर्यस्तपतीति हि कथ्यते ।नावृष्ट्या तपते सूर्य्यो नावृष्ट्या परिषिच्यते ॥१३७॥नावृष्ट्या परिविश्येत वारिणा दीप्यते रविः ।तस्मादपः पिबन्यो वै दीप्यते रविरंबरे ॥१३८॥तस्य ते रश्मयः सप्त पिबन्त्यंभो महार्णवात् ।तेनाहारेण संदीप्ताः सूर्याः सप्त भवन्त्युत ॥१३९॥ततस्ते रश्मयः सप्त सूर्यभूताश्चतुर्द्दिशम् ।चतुर्लोकमिमं सर्वं दहन्ति शिखिनस्तदा ॥१४०॥प्राप्नुवन्ति च ताभिस्तु ह्यूर्द्ध्वं चाधश्च रश्मिभिः ।दीप्यन्ते भास्कराः सप्त युगान्ताग्निप्रतापिनः ॥१४१॥ते वारिणा प्रदीप्ताश्च बहुसाहस्ररश्मयः ।स्वं समावृत्य तिष्ठन्ति निर्दहन्तो वसुंधराम् ॥१४२॥ततस्तेषां प्रतापेन दह्यमाना वसुंधरा ।साद्रिनद्यर्णवा पृथ्वी निस्नेहा समपद्यत ॥१४३॥दीप्ताभिः संतताभिश्च चित्राभिश्च समन्ततः ।अधश्चोर्ध्वं च तिर्यक्च संरूद्धा सूर्यरश्मिभिः ॥१४४॥सूर्याग्नीनां प्रवृद्धानां संसृष्टानां परस्परम् ।एकत्वमुपयातानामेकज्वाला भवत्युत ॥१४५॥सर्वलोकप्रणाशश्च सोऽग्निर्भूत्वानुमण्डली ।चतुर्लोकमिदं सर्वं निर्दहत्याशु तेजसा ॥१४६॥ततः प्रलीने सर्वस्मिञ्जङ्गमे स्थावरे तथा ।निर्वृक्षा निस्तृणा भूमिः कूर्मपृष्ठसमा भवेत् ॥१४७॥अंबरीषमिवाभाति सर्वमप्यखिलं जगत् ।सर्वमेव तदर्चिर्भिः पूर्णं जाज्वल्यते घनः ॥१४८॥भूतले यानि सत्त्वानि महोदधिगतानि च ।ततस्तानि प्रलीयन्ते भूमित्वमुपयान्ति च ॥१४९॥द्वीपाश्च पर्वताश्चैव वर्षाण्यथ महोदधिः ।सर्वं तद्भस्मसाच्चक्रे सर्वात्मा पावकस्तु सः ॥१५०॥समुद्रेभ्यो नदीभ्यश्च पातालेभ्यश्च सर्वशः ।पिबत्यपः समिद्धोऽग्निः पृथिवीमाश्रितो ज्वलन् ॥१५१॥ततः संवर्द्धितः शैलानति क्रम्य ग्रहांस्तथा ।लोकान्संहरते दीप्तो घोरः संवर्त्तकोऽनलः ॥१५२॥ततः स पृथिवीं भित्त्वा रसातलमशोष्यत् ।निर्दह्यान्ते तु पातालं वायुलोकमथादहत् ॥१५३॥अधस्तात्पृथिवीं दग्ध्वा तूर्द्ध्वं स दहतो दिवम् ।योजनानां सहस्राणि प्रयुतान्यर्बुदानि च ॥१५४॥उदतिष्ठञ्शिखास्तस्य बह्व्यः संवर्त्तकस्य तु ।गन्धर्वांश्च पिशाचांश्च समहोरगराक्षसान् ॥१५५॥तदा दहति संदीप्तो गोलकं चैव सर्वशः ।भूर्लोकं च भुवर्ल्लोकं स्वर्लोकं च महस्तथा ॥१५६॥घोरो दहति कालाग्निरेवं लोकचतुष्टयम् ।व्याप्तेषु तेषु लोकेषु तिर्यगूर्द्ध्वमथाग्निना ॥१५७॥तत्तेजः समनुप्राप्य कृत्स्नं जगदिदं शनैः ।अयोगुडनिभं सर्वं तदा ह्येवं प्रकाशते ॥१५८॥ततो गजकुलाकारास्तडिद्भिः समलङ्कृताः ।उत्तिष्ठन्ति तदा घोरा व्योम्नि संवर्तका घनाः ॥१५९॥केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः ।केचिद्वैडूर्यसंकाशा इन्द्रनीलनिभाः परे ॥१६०॥शङ्खकुन्दनिभाश्चान्ये जात्यञ्जननिभास्तथा ।धूम्रवर्णा घनाः केचित्केचित्पीताःपयोधराः ॥१६१॥केचिद्रासभवर्णाभा लाक्षारसनिभास्तथा ।मनशिलाभास्त्वपरे कपोताभास्तथांबुदाः ॥१६२॥इन्द्रगोपनिभाः केचिद्धरितालनिभास्तथा ।चाषपत्रनिभाः केचिदुत्तिष्ठन्ति घना दिवि ॥१६३॥केचित्पुरवराकाराः केचिद्गजकुलोपमाः ।केचित्पर्वतसंकाशाः केचित्स्थलनिभा घनाः ॥१६४॥क्रीडागारनिभाः केचित्केचिन्मीनकुलोपमाः ।बहुरूपा घोररूपा घोरस्वरनिनादिनः ॥१६५॥तदा जलधराः सर्वे पूरयन्ति नभस्तलम् ।ततस्ते जलदा घोरराविणो भास्करात्मकाः ॥१६६॥सप्तधा संवृतात्मानस्तमग्निं शमयन्त्युत ।ततस्ते जलदा वर्षं मुञ्चन्ति च महौघवत् ॥१६७॥सुघोरमशिवं सर्वं नाशयन्ति च पावकम् ।प्रवृष्टैश्च तथात्यर्थं वारिणा पूर्यते जगत् ॥१६८॥अद्भिस्तेजोभिभूतं च तदाग्निः प्रविशत्यपः ।नष्टे चाग्नौ वर्षगते पयोदाः पावकोद्भवाः ॥१६९॥प्लावयन्तो जगत्सर्वं बृहज्जलपरिस्रवैः ।धाराभिः पूरयन्तीमं चोद्यमानाः स्वयंभुवा ॥१७०॥अन्ये तु सलिलौघैस्तु वेलामभिभवन्त्यपि ।साद्रिद्वीपान्तरं पीतं जलमन्नेषु तिष्ठति ॥१७१॥पुनः पतति भूमौ तत्पयोधस्तान्नभस्तले ।संवेष्टयति घोरात्मा दिवि वायुः समततः ॥१७२॥तस्मिन्नेकार्मवे घोरे नष्टे स्थावारजङ्गमे ।पूर्मे युगसहस्रे वै निःशेषः कल्प उच्यते ॥१७३॥अथांभसऽऽवृते लोके प्राहुरेकार्मवं बुधाः ।अथ भूमिर्जलं खं च वायुश्चैकार्मवे तदा ॥१७४॥नष्टेऽनलेऽन्धभूते तु प्राज्ञायत न किञ्चन ।पार्थिवास्त्वथ सामुद्रा आपो दैव्याश्च सर्वशः ॥१७५॥असरन्त्यो व्रजन्त्यैक्यं सलिलाख्यां भजन्त्युत ।आगतागतिके चैव तदा तत्सलिलं स्मृतम् ॥१७६॥प्रच्छाद्यति महीमेतामर्णवाख्यं तु तज्जलम् ।आभाति यस्मात्तद्भाभिर्भाशब्दो व्याप्तिदीप्तिषु ॥१७७॥भस्म सर्वमनुप्राप्य तस्मादंभो निरुच्यते ।नानात्वे चैव शीघ्रे च धातुर्वै अर उच्यते ॥१७८॥एकार्मवे तदा ह्यो वै न शीघ्रस्तेन ता नराः ।तस्मिन्युगसहस्रान्ते दिवसे ब्रह्मणो गते ॥१७९॥तावन्तं कालमेवं तु भवत्येकार्मवं जगत् ।तदा तु सर्वे व्यापारा निवर्त्तन्ते प्रजापतेः ॥१८०॥एकमेकार्णवे तस्मिन्नष्टे स्थावरजङ्गमे ।तदा स भवति ब्रह्मा सहस्राक्षः सहस्रपात् ॥१८१॥सहस्रशीर्षा सुमनाः सहस्रपात्सहस्रचक्षुर्वदनः सहस्रवाक् ।सहस्रबाहुः प्रथमः प्रजापतिस्त्रयी मयो यः पुरुषो निरुच्यते ॥१८२॥आदित्यवर्मा भुवनस्य गोप्ता अपूर्व एकः प्रथमस्तुराषाट् ।हिरण्यगर्भः पुरुषो महान्वै संपठ्यते वै रजसः परस्तात् ॥१८३॥चतुर्युगसहस्रान्ते सर्वतः सलिलाप्लुते ।सुषुप्सुरप्रकाशेप्सुः स रात्रिं कुरुते प्रभुः ॥१८४॥चतुर्विधा यदा शेते प्रजाः सर्वा लयं गताः ।पश्यन्ति तं महात्मानं कालं सप्त महर्षयः ॥१८५॥जनलोकं विवर्त्तास्ते तपसा लब्धचक्षुषः ॥१८५॥भृग्वादयो महात्मानः पूर्वे व्याख्यातलक्षणाः ॥१८६॥सत्यादीन्सप्तलोकान्वै ते हि पश्यन्ति चक्षुषा ।ब्रह्माणं ते तु पश्यन्ति सदा ब्राह्मीषु रात्रिषु ॥१८७॥सप्तर्षयः प्रपश्यन्ति स्वप्नं कालं स्वरात्रिषु ।कल्पानां परमेष्टि त्वात्तस्मादाद्यः स पठ्यते ॥१८८॥स स्रष्टा सर्वभूतानां कल्पादिषु पुनः पुनः ।एवमेशायित्वा तु ह्यात्मन्येव प्रजापतिः ॥१८९॥अथात्मनि महातेजाः सर्वमादाय सर्वकृत् ।ततः स वसते रात्रिं तमस्येकार्णवे जले ॥१९०॥ततो रात्रिक्षये प्राप्ते प्रति बुद्धः प्रजापतिः ।मनः सिसृक्षया युक्तः सर्गाय निदधे पुनः ॥१९१॥एवं स लोके निर्वृत्त उपशान्ते प्रजापतौ ।ब्राह्मे नैमित्तिके तस्मिन्कल्पिते वै प्रसंयमे ॥१९२॥देहैर्वियोगः सत्त्वानां तस्मिन्वै कृत्स्नशः स्मृतः ।ततो धग्धेषु भूतेषु सर्वेष्वादित्यरशिमभिः ॥१९३॥देवर्षिमनुवर्येषु तस्मिन्नंबुप्लवे तदा ।गन्धर्वादीनि सत्त्वानि पिशायान्तानि सर्वशः ॥१९४॥कल्पादावप्रतप्तानि जनमेवाश्रयन्ति वै ।तिर्यग्योनीनि नरके यानि यानि गतान्यपि ॥१९५॥तदा तान्यापि दग्धानि धूतपापानि सर्वशः ।जले तान्युपपद्यन्ते यावत्संप्लवते जगत् ॥१९६॥व्युष्टायां च रचन्यां तु ब्रह्मणोऽव्यक्तयोनितः ।जायन्ते हि पुनस्तानि सर्वभूतानि कृतस्नशः ॥१९७॥ऋषयो मनवो देवाः प्रजाः सर्वाश्चतुर्विधाः ।तेषामपि च सिद्धानां निधनोत्पत्तिरुच्यते ॥१९८॥यथासूर्यस्य लोकेऽस्मिन्नुदयास्तमने स्मृते ।तथा जन्मनिरोधश्च भूतानामिह दृश्यते ॥१९९॥आभूतसंप्लवात्तस्माद्भवः संसार उच्यते ।यथा सर्वाणि भूतानां जायन्ते वर्षणेष्विह ॥२००॥स्थावरादीनि नियमात्कल्पे कल्पे तथा प्रजाः ।यथार्त्तावृतुलिङ्गानि नानारूपाणि पर्यये ॥२०१॥दृश्यन्ते तानि तान्येव तथा ब्रह्मद्युरात्रिषु ।प्रत्याहारे विसर्गे च गतिमन्ति ध्रुवाणि च ॥२०२॥निष्क्रमन्ते विशन्ते च प्रजाः काले प्रजापतिम् ।ब्रह्माणं सर्वभूतानि महायोगं महेश्वरम् ॥२०३॥स स्रष्टा सर्वभूतानां कल्पादिषु पुनः पुनः ।व्यक्तोऽव्यक्तो महादेवस्तस्य सर्वमिदं जगत् ॥२०४॥येनैव सृष्टाः प्रथमं प्रयाता आपो हि मार्गेण महीतलेऽस्मिन् ।पूर्वं प्रयातेन यथात्वथापस्तेनैव तेनैव तु स्वर्व्रजन्ति ॥२०५॥यथा शूभेन त्वशुभेन चैव तत्रैव तत्रैव विवर्त्तमानाः ।मर्त्यास्तु देहान्तरभावितत्वाद्रवेर्वशादूर्ध्वमधश्चरन्ति ॥२०६॥ये चापि देवा मनवः प्रजेशा अन्येऽपि ये स्वर्गगताश्च सिद्धाः ।तद्भाविताः ख्यातिवशाश्च धर्म्याः पुनर्विसर्गेण भवन्ति सत्त्वाः ॥२०७॥अत ऊर्ध्वं प्रवक्ष्यामि कालमाभूतसंप्लवम् ।मन्वन्तराणि यानि स्युर्व्याख्यातानि मया द्विजाः ॥२०८॥सह प्रजानिसर्गेण सह देवैश्चतुर्द्दश ।सा युगाख्या सहस्रं तु सर्वाण्येवान्तराणि वै ॥२०९॥अस्याः सहस्रे द्व पूर्ण विशेषः कल्प उच्यते ।एतद्ब्राह्ममहर्ज्ञेयं तस्य सख्यां निबोधत ॥२१०॥निमेषतुल्यमात्रा हि कृता लब्दक्षणेन तु ।मानुषाक्षिनिमेषास्तु काष्ठा पञ्चदश स्मृताः ॥२११॥नव क्षणस्तु पञ्जैव विंशत्काष्ठा तु ते त्रयः ।प्रस्था सप्तो दकाश्चैव साधिकाक्तु लवः स्मृतः ॥२१२॥लवास्त्रिंशत्कला ज्ञेया मुहूर्त्तस्त्रिंशतः कलाः ।मुहूर्त्तास्तु पुनस्त्रिंशदहोरात्रमिति स्थितिः ॥२१३॥अहोरात्रं कलानां तु अधिकानि शतानि षट् ।ताश्चैव संख्याया ज्ञेयाश्चन्द्रादित्यगतिर्यथा ॥२१४॥निमेषा दशपञ्चैवं काष्ठा स्तास्त्रिंशतः कला ।त्रिंशत्कला मुहूर्त्तं तु दशभागं कला स्मृतम् ॥२१५॥चत्वारिंशत्कलाः पञ्च मुहूर्त्त इति संज्ञितः ।मुहूर्त्ताश्च लवाश्चापि प्रमाणज्ञैः प्रकल्पिताः ॥२१६॥तथानेनांभसश्चापिं पलान्यथ त्रयोदश ।मागधेनैव मानेन जलप्रस्थो विधीयते ॥२१७॥एते वाराप्लुतप्रस्थाश्चत्वारो नालिकोच्चयः ।हेममाषैः कृतच्छिद्रश्चतुर्भिश्चतुरङ्गुलैः ॥२१८॥समाहनि च रात्रौ च मुहूर्त्ता वै द्विनालिकाः ।रवेर्गतिविशेषेण सर्वेष्वेतेषु नित्यशः ॥२१९॥अधिकं षट्शतं यच्च कलानां प्रविधीयते ।तदहर्मानुषं ज्ञेयं नाक्षत्रं तु दशाधिकम् ॥२२०॥सावनेन तु मानेन अब्दोऽयं मानुषः स्मृतः ।एतद्दिव्यमहोरात्रमिति शास्त्रविनिश्चयः ॥२२१॥अह्लानेन तु या संख्या मासर्त्वयनवार्षिकी ।तदा बद्धमिदं ज्ञानं संज्ञया ह्युपलक्षितम् ॥२२२॥कलानां तु परिमाणं कला इत्यभिधीयते ।यदहो ब्रह्मणः प्रोक्तं दिव्या कोटी तु सा स्मृता ॥२२३॥शतानां च सहस्राणि दशद्विगुणितानि च ।नवतिं च सहस्राणि तथैवान्यानि यानि तु ॥२२४॥एतच्छ्रुत्वा तु ऋषयो विस्मयं परमाद्भुतम् ।संख्यासंभजनं ज्ञानमपृच्छन्सुतरां तदा ॥२२५॥ऋषय ऊचुःसंप्रकालन मानं तु मानुषेणैव सम्मतम् ।मानेन श्रोतुमिच्छामः संक्षेपार्थपादाक्षरम् ॥२२६॥तेषां श्रुत्वा स देवस्तु वायुर्लोकहिते रतः ।संक्षेपाद्दिव्यचक्षुष्ट्वा त्प्रोवाच वचनं प्रभुः ॥२२७॥एते रात्र्यहनी पूर्वं कीर्तिते त्विह लौकिके ।तासां संख्याथ वर्षाग्रं ब्राह्मे वक्ष्याम्यहःक्षये ॥२२८॥कोडीशतानि चत्वारि वर्षाणि मानुषाणि तु ।द्वात्रिंशच्च तथा कोट्यः संख्याताः संख्यया द्विजैः ॥२२९॥तथा शतसहस्राणि एकोननवतिः पुनः ।अशीतिश्च सहस्राणि एष कालः प्लवस्य तु ॥२३०॥मानुषाख्येन संख्यातः कालो ह्याभूतसं प्लवः ।सप्तसूर्यप्रदग्धेषु तदा लोकेषु तेषु वै ।महाभूतषु लीयन्त प्रजाः सर्वाश्चतुर्विधाः ॥२३१॥सलिलेनाप्लुते लोके नष्टे स्थावरजङ्गमे ॥२३२॥विनिवृत्ते च संहारे उपशान्ते प्रजापतौ ।निरालोके प्रदग्धे तु नैशेन तमसा वृते ॥२३३॥ईश्वराधिष्ठिते त्वस्मिं स्तदा ह्येकार्मवे किल ।तावदेकार्मवे ज्ञेयं यावदासीदहः प्रभोः ॥२३४॥रात्रिस्तु सलिलावस्था निवृत्तौ वाप्यहः स्मृतम् ।अहोरात्रस्तथैवास्य क्रमेण परिवर्तते ॥२३५॥आभूतसंप्लवो ह्येष अहोरात्रः स्मृतः प्रभोः ।त्रैलोक्ये यानि सत्त्वानि गतिमन्तिध्रुवाणि च ॥२३६॥आभूतेभ्यः प्रलीयन्ते तस्मादाभूतसंप्लवः ।अतीता वर्तमानाश्च तथैवानागताः प्रजाः ॥२३७॥दिव्यसंख्या प्रसंख्याता अपरार्धगुणीकृताः ।परार्द्धं द्विगुणं चापि परमायुः प्रकीर्त्ततम् ॥२३८॥एतावान्स्थितिकालस्तु ह्यजस्येह प्रजापतेः ।स्थित्यन्तं प्रतिसर्गश्च ब्रह्मणः परमेष्ठिनः ॥२३९॥यथा वायुप्रवेगेन दीपार्चिरुपशम्यति ।तथैव प्रतिसर्गेण ब्रह्मा समुपशाम्यति ॥२४०॥तथा स्वप्रतिसंसृष्टे महदादौ महेश्वरे ।महत्प्रलीयते व्यक्ते गुणसाम्यं ततो भवेत् ॥२४१॥इत्येष वः समाख्यातो मया ह्याभूतसंप्लवः ।ब्रह्मनैमित्तिको ह्येष संप्रक्षालनसंयमः ।समासेन समाख्यातो भूयः किं वर्मयामि वः ॥२४२॥य इदं धारयेन्नित्यं शृणुयाद्वाप्यभीक्ष्णशः ।कीर्त्तयेद्वर्णयेद्वापि महतीं सिद्धिमाप्नुयात् ॥२४३॥इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते उत्तरभागे चतुर्थ उपसंहारपादे आभूतसंप्लवाख्यवर्णनं नाम प्रथमोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP