उत्तरभागः - अध्यायः २१

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


आकर्ण्य ललितादेव्या यात्रानिगमनिस्वनम् ।
महान्तं क्षोभमायाता भण्डासुरपुरालयाः ॥१॥

यत्र चास्ति दुराशस्य भण्डदैत्यस्य दुर्धियः ।
महेन्द्रपर्वतोपान्ते महार्णवतटे पुरम् ॥२॥

तत्तु शून्यकनाम्नैव विख्यातं भुवनत्रये ।
विषङ्गाग्रजदैत्यस्य सदावासः किलाभवत् ॥३॥

तस्मिन्नेव पुरे तस्य शतयोजनविस्तरे ।
वित्रेसुर सुराः सर्वे श्रीदेव्यागमसंभ्रमात् ॥४॥

शतयोजनविस्तीर्णं तत्सर्वं पुरमासुरम् ।
धूमैरिवावृतमभूदुत्पातजनितैर्मुहुः ॥५॥

अकाल एव निर्भिन्ना भित्तयो दैत्यपत्तने ।
धूर्णमाना पतन्ति स्म महोल्का गगनस्थलात् ॥६॥

उत्पातानां प्राथमिको भूकंपः पर्यवर्तत ।
मही जज्वाल सकला तत्र शून्यकपत्तने ॥७॥

अकाल एव हृत्कंपं भेजुर्दैत्यपुरौकसः ।
ध्वजाग्रवर्तिनः कङ्कगृध्राश्चैव बकाः खगाः ॥८॥

आदित्यमण्डले दृष्ट्वादृष्ट्वा चक्रन्दुरुच्चकैः ।
क्रव्यादा बहवस्तत्र लोचनैर्नावलोकिताः ॥९॥

मुहुराकाशवाणीभिः परुषाभिर्बभाषिरे ।
सर्वतो दिक्षुदृश्यन्ते केतवस्तु मलीमसाः ॥१०॥

धूमायमानाः प्रक्षोभजनका दैत्यरक्षसाम् ।
दैत्यस्त्रीणां च विभ्रष्टा अकाले भूषणस्रजः ॥११॥

हाहेति दूरं क्रन्दन्त्यः पर्यश्रु समरोदिषुः ।
दपणानां वर्मणां च ध्वजानां खड्गसंपदाम् ॥१२॥

मणीनामंबराणां च मालिन्यमभवन्मुहुः ।
सौधेषु चन्द्रशालासु केलिवेश्मसु सर्वतः ॥१३॥

अट्टालकेषु गोष्ठेषु विपणेषु सभासु च ।
चतुष्किकास्वलिङ्गेषु प्रग्रीवेषु वलेषु च ॥१४॥

सर्वतोभद्रवासेषु नन्द्यावर्तेषु वेश्मसु ।
विच्छन्दकेषु संक्षुब्धेष्ववरोधनपालिषु ।
स्वस्तिकेषु च सर्वेषु गर्भागारपुटेषु च ॥१५॥

गोपुरेषु कपाटेषु वलभीनां च सीमसु ।
वातायनेषु कक्ष्यासु धिष्ण्येषु च खलेषु च ॥१६॥

सर्वत्र दैत्य नगरवासिभिर्जनमण्डलैः ।
अश्रूयन्त महाघोषाः परुषा भूतभाषिताः ॥१७॥

शिथिली सवतो जाता घोरपर्णा भयानका ।
करटैः कटुकालापैर्वलोकि दिवाकरः ।
आराविषु करोटीनां कोटयश्चापतन्भुवि ॥१८॥

अपतन्वेदिमध्येषु बिन्दवः शोणितांभसाम् ।
केशौघकाश्च निष्पेतुः सर्वतो धूमधूसराः ॥१९॥

भौमान्तरिक्षदिव्यानामुत्पातानामिति व्रजम् ।
अवलोक्य भृशं त्रस्ताः सर्वे नगरवासिनः ।
निवेदयामासुरमी भण्डाय प्रथितौजसे ॥२०॥

स च भण्डः प्रचण्डोत्थैस्तैरुत्पातकदंबकैः ।
असंजातधृतिभ्रंशो मन्त्र स्थानमुपागमत् ॥२१॥

मेरोरिव वपुर्भेदं बहुरत्नविचित्रितम् ।
अध्यासामास दैत्येन्द्रः सिंहासनमनुत्तमम् ॥२२॥

स्फुरन्मुकुटलग्नानां रत्नानां किरणैर्घनैः ।
दीपयन्नखिलाशान्तानद्युतद्दानवेश्वरः ॥२३॥

एकयोजनविस्तारे महत्यास्थानमण्डपे ।
तुङ्गसिंहासनस्थं तं सिषेवाते तदानुजै ॥२४॥

विशुक्रश्च विषङ्गश्च महाबलपराक्रमौ ।
त्रैलोक्यकण्टकीभूतभुजदण्डभयङ्करौ ॥२५॥

अग्रजस्य सदैवाज्ञामविलङ्घ्य मुहुर्मुहुः ।
त्रैलोक्यविजये लब्धं वर्धयन्तौ महद्यशः ॥२६॥

न तेन शिरसा तस्य मृदूनन्तौ पादपीठिकाम् ।
कृतां जरिप्रणामौ च समुपाविशता भुवि ॥२७॥

अथास्थाने स्थिते तस्मिन्नमरद्वेषिणां वरे ।
सर्वे सामन्तदैत्येन्द्रास्तं द्रष्टुं समुपागताः ॥२८॥

तेषामे कैकसैन्यानां गणना न हि विद्यते ।
स्वंस्वं नाम समुच्चार्य प्रणेमुर्भण्डकेश्वरम् ॥२९॥

म च तानसुरान्सर्वानतिधीरकनीनकैः ।
संभावयन्समालोकैः कियन्तं चित्क्षणं स्थितः ॥३०॥

अवोचत विशुक्रस्तमग्रजं दानवेश्वरम् ।
मथ्यमानमहासिंधुसमानार्गलनिस्वनः ॥३१॥

देवत्वदीयदोर्द्दण्डविध्वस्तबलविक्रमाः ।
पापिनः पामराचारा दुरात्मानः सुराधमाः ॥३२॥

शरण्यमन्यतः क्वापि नाप्नुवन्तो विषादिनः ।
ज्वलज्ज्वालाकुले वह्नौ पतित्वा नाशमागताः ॥३३॥

तस्माद्देवात्समुत्पन्ना काचित्स्त्री बलगर्विता ।
स्वयमेव किलास्राक्षुस्तां देवा वासवादयः ॥३४॥

तैः पुनः प्रबलोत्साहैः प्रोत्साहितपराक्रमाः ।
बहुस्त्रीपरिवाराश्च विविधायुधमण्डिताः ॥३५॥

अस्माञ्जेतुं किलायान्ति हा कष्टं विधिवैशसम् ।
अबलानां समूहस्छेद्बलिनोऽस्मान्विजेष्यते ॥३६॥

तर्हि पल्लवभङ्गेन पाषाणस्य विदारणम् ।
ऊह्यमानमिदं हन्तुं परिहासाय कल्प्यते ॥३७॥

विडंबना न किमसौ लज्जाकरमिदं न किम् ।
अस्मत्सैनिकनासीरभटेभ्योऽपि भवेद्भयम् ॥३८॥

कातरत्वं समापन्नाः शक्राद्यास्त्रिदिवौकसः ।
ब्रह्मादयश्च निर्विण्णविग्रहा मद्बलायुधैः ॥३९॥

विष्णोश्च का कथैवास्ते वित्रस्तः स महेश्वरः ।
अन्येषामिह का वार्ता दिक्पालास्ते पलायिताः ॥४०॥

अस्माकमिषुभिस्तीक्ष्णैरदृश्यैरङ्गपातिभिः ।
सर्वत्र विद्धवर्माणो दुर्मदा विबुधाः कृताः ॥४१॥

तादृशानामपि महापराक्रमभुजोष्मणाम् ।
अस्माकंविजयायाद्य स्त्री काचिदभिधावति ॥४२॥

यद्यपि स्त्री तथाप्येषा नावमान्या कदाचन ।
अल्पोऽपि रिपुरात्मज्ञैर्नावमान्यो जिगीषुभिः ॥४३॥

तस्मात्तदुत्सारणार्थं प्रेषणीयास्तु किङ्कराः ।
सकचग्रहमाकृष्य सानेतव्या मदोद्धता ॥४४॥

देव त्वदीय शुद्धान्तर्वर्तिनीनां मृगीदृशाम् ।
चिरेण चेटिकाभावं सा दुष्टा संश्रयिष्यति ॥४५॥

एकैकस्माद्भटादस्मात्सैन्येषु परिपन्थिनः ।
शङ्कते खलु वित्रस्तं त्रैलोक्यं सचराचरम् ॥४६॥

अन्यद्देवस्य चित्तं तु प्रमाणमिति दानव ।
निवेद्य भण्डदैत्यस्य क्रोधं तस्य व्यवीवृधत् ॥४७॥

विषङ्गस्तु महासत्त्वो विचारज्ञो विचक्षणः ।
इदमाह महादैत्यमग्रजन्मानमुद्धतम् ॥४८॥

देव त्वमेव जानासि सर्वं कार्यमरिन्दम ।
न तु ते क्वापि वक्तव्यं नीतिवर्त्मनि वर्तते ॥४९॥

सर्वं विचार्य कर्तव्यं विचारः परमा गतिः ।
अविचारेण चेत्कर्म समूलमवकृन्तति ॥५०॥

परस्य कटके चाराः प्रेषणीयाः प्रयत्नतः ।
तेषां बलाबलं ज्ञेयं जयसंसिद्धिमिच्छता ॥५१॥

चारचक्षुर्दृढप्रज्ञः सदाशङ्कितमानसः ।
अशङ्किताकारवांश्च गुप्तमन्त्रः स्वमन्त्रिषु ॥५२॥

षडुपायान्प्रयुञ्जानः सर्वत्रा भ्यर्हिते पदे ।
विजयं लभते राजा जाल्मो मक्षु विनश्यति ॥५३॥

अविमृश्यैव यः कश्चिदारम्भः स विनाशकृत् ।
विमृश्य तु कृतं कर्म विशेषाज्जयदायकम् ॥५४॥

तिर्यगित्यपि नारीति क्षुद्रा चेत्यपि राजभिः ।
नावज्ञा वैरिणां कार्या शक्तेः सर्वत्र सम्भवः ॥५५॥

स्तंभोत्पन्नेन केनापि नरतिर्यग्वपुर्भृता ।
भूतेन सर्वभूतानां हिरण्यकशिपुर्हतः ॥५६॥

पुरा हि चण्डिका नाम नारी मयाविजृंभिणी ।
निशुम्भशुंभौ महिषं व्यापादितवती रणे ॥५७॥

तत्प्रसंगेन बहवस्तया दैत्या विनाशिताः ।
अतो वदामिनावज्ञा स्त्रीमात्रे क्रियतां क्वचित् ॥५८॥

शक्तिरेव हि सर्वत्र कारणं विजयश्रियः ।
शक्तेराधारतां प्रप्तैः स्त्रीपुंलिङ्गैर्न नो भयम् ॥५९॥

शक्तिस्तु सर्वतो भाति संसारस्य स्वभावतः ।
तर्हि तस्या दुराशायाः प्रवृत्तिर्ज्ञायतां त्वया ॥६०॥

केयं कस्मात्समुत्पन्ना किमाचारा किमाश्रया ।
किंबला किंसहाया वा देव तत्प्रविचार्यताम् ॥६१॥

इत्युक्तः स विषङ्गेण को विचारो महौजसाम् ।
अस्मद्बले महासत्त्वा अक्षौहिण्यधिपाः शतम् ॥६२॥

पातुं क्षमास्ते जलधीनलं दग्धुं त्रिविष्टपम् ।
अरे पापसमाचार किंवृथा शङ्कसे स्त्रियः ॥६३॥

तत्सर्वं हि मया पूर्वं चारद्वारावलोकितम् ।
अग्रे समुदिता काचिल्ललितानामधारिणी ॥६४॥

यथार्थनामवत्येषा पुष्पवत्पेशलाकृतिः ।
न स्त्त्वं न च वीर्यं वा न संग्रामेषु वा गतिः ॥६५॥

सा चाविचारनिवहा किन्तु मायापरायणा ।
तत्सत्त्वेनाविद्यमानं स्त्रीकदम्बकमात्मनः ॥६६॥

उत्पादितवती किं ते न चैवं तु विचेष्टते ।
अथ वा भव दुक्तेन न्यायेनास्तु महद्बलम् ॥६७॥

त्रैलोक्योल्लङ्घिमहिमा भण्डः केन विजीयते ॥६८॥

इदानीमपि मद्बाहुबलसंमर्दमूर्च्छिताः ।
श्वसितुं चापि पटवो न कदाचन नाकिनः ॥६९॥

केचित्पातालगर्भेषु केचिदम्बुधिवारिषु ।
केचिद्दिगन्तकोणेषु केचित्कुञ्जेषुभूभृताम् ॥७०॥

विलीना भृशवित्रस्तास्त्यक्तदारसुतश्रियः ।
भ्रष्टाधिकाराः पशवश्छन्नवेषाश्चरन्ति ते ॥७१॥

एतादृशं न जानाति मम बाहुपराक्रमम् ।
अबला न चिरोत्पन्ना तेनैषा दर्पमश्नुते ॥७२॥

न जानन्ति स्त्रियो मूढा वृथा कल्पितसाहसाः ।
विनाशमनुधावन्ति कार्याकार्यविमोहिताः ॥७३॥

अथ वा तां पुरस्कृत्य यद्यागच्छन्ति नाकिनः ।
यथा महोरगाः सिद्धाः साध्या वा युद्धदुर्मदाः ॥७४॥

ब्रह्मा वा पद्मनाभो वा रुद्रो वापि सुराधिपः ।
अन्ये वा हरितां नाथास्तान्संपेष्टुमहं पटुः ॥७५॥

अथ वा मम सेनासु सेनान्यो रणदुर्मदाः ।
पक्वकर्करिकापेषमवपेक्ष्यति वैरिणः ॥७६॥

कुटिलाक्षः कुरण्डश्च करङ्कः कालवाशितः ।
वज्रदन्तो वज्रमुखो वज्रलोमा बलाहकः ॥७७॥

सूचीमुखः फलमुखो विकटो विकटाननः ।
करालाक्षः कर्कटको मदनो दीर्घजिह्वकः ॥७८॥

हुंबको हलमुल्लुञ्चः कर्कशः कल्किवाहनः ।
पुल्कसः पुण्ड३ एतुश्च चण्डबाहुश्च कुक्कुरः ॥७९॥

जंबुकाक्षो जृंभणश्च तीक्ष्मशृङ्गस्त्रिकण्टक ।
चतुर्गुप्तश्चतुर्बाहुश्चकाराक्षश्चतुःशिराः ॥८०॥

वज्रघोषश्चोर्ध्वकेशो महामायामहाहनुः ।
मखशत्रुर्मखास्कन्दी सिंहघोषः शिरालकः ॥८१॥

अन्धकः सिंधुनेत्रश्च कूपकः कूपलोचनः ।
गुहाक्षो गण्डगल्लश्च चण्डधर्मो यमान्तकः ॥८२॥

लडुनः पट्टसेनश्च पुरजित्पूर्वमारकः ।
स्वर्गशत्रुः स्वर्गबलो दुर्गाख्यः स्वर्गकण्टकः ॥८३॥

अतिमायो बृहन्माय उपमाय उलूकजित् ।
पुरुषेणो विषेणश्च कुन्तिषेणः परूषकः ॥८४॥

मलकश्च कशूरश्च मङ्गलो द्रघणस्तथा ।
कोल्लाटः कुजिलाश्वश्च दासेरो बभ्रुवाहनः ॥८५॥

दृष्टहासो दृष्टकेतुः परिक्षेप्तापकञ्चुकः ।
महामहो महादंष्ट्रो दुर्गतिः स्वर्गमेजयः ॥८६॥

षट्केतुः षड्वसुश्चैव षड्दन्त षट्प्रियस्तथा ।
दुःशठो दुर्विनीतश्च छिन्नकर्णश्च मूषकः ॥८७॥

अदृहासी महाशी च महाशीर्षो मदोत्कटः ।
कुम्भोत्कचः कुम्भनासः कुम्भग्रीवो घटोदरः ॥८८॥

अश्वमेढ्रो महाण्डश्च कुम्भाण्डः पूतिनासिकः ।
पूतिदन्तः पूतिचक्षुः पूत्यास्यः पूतिमेहनः ॥८९॥

इत्येवमादयः शूरा हिरण्यकशिपोः समाः ।
हिरण्याक्ष समाश्चैव मम पुत्रा महाबलाः ॥९०॥

एकैकस्य सुतास्तेषु जाताः शुराः परःशतम् ।
सेनान्यो मे मदोदुवृत्ता मम पुत्रैरनुद्रुताः ॥९१॥

नाशयिष्यन्ति समरे प्रोद्धतानमराधमान् ।
ये केचित्कुपिता युद्धे सहस्राक्षौहिणी वराः ।
भस्मशेषा भवेयुस्तै हा हन्त किमुताबला ॥९२॥

मायाविलासाः सर्वेऽपि तस्याः समरसीमनि ।
महामायाविनोदाश्च कुप्युस्ते भस्मसाद्बलम् ॥९३॥

तद्वृथा शङ्कया खिन्नं मा ते भवतु मानसम् ।
इत्यक्त्वा भण्डदैत्येन्द्रः समुत्थाय नृपासनात् ॥९४॥

उवाच निजसेनान्यं कुटिलाक्षं महाबलम् ।
उत्तिष्ठ रे बलं सर्वं संनाहय समन्ततः ॥९५॥

शून्यकस्य समन्ताच्च द्वारेषु बलमर्पय ।
दुर्गाणि संगृहाण त्वं कुरुक्षेपणिकाशतम् ॥९६॥

दुष्टाभिचाराः कर्तव्या मेत्रिभिश्च पुरोहितैः ।
सज्जीकुरु त्वं शस्त्राणि युद्धमेतदुपस्थितम् ॥९७॥

सेनापतिषु यं केचिदग्रे प्रस्थापयाधुना ।
अनेकबलसंघातसहितं घोरदर्शनम् ॥९८॥

तेन संग्रामसमये सन्निपत्य विनिर्जितम् ।
केशेष्वाकृष्य तां मूढां देवसत्त्वे न दर्पिताम् ॥९९॥

इत्याभाष्य चमूनाथं सहस्रत्रितयाधिपम् ।
कुटिलाक्षं महासत्त्वं स्वयं चान्तः पुरं ययौ ॥१००॥

अथापतन्त्याः श्रीदेव्या यात्रानिः साणनिःस्वनाः ।
अश्रूयन्त च दैत्येन्द्रैरतिकर्णज्वरावहाः ॥१०१॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने भण्डासुराहङ्कारो नामैकविंशोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP