संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|उत्तरभागः| अध्यायः ३८ उत्तरभागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ उत्तरभागः - अध्यायः ३८ ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे. Tags : brahmand puranpuranपुराणब्रह्माण्ड पुराणसंस्कृत अध्यायः ३८ Translation - भाषांतर अगस्त्य उवाचश्रुतमेतन्महावृत्तमाविर्भावादिकं महत् ।भण्डासुरवधश्चैव देव्याः श्रीनगरस्थितिः ॥१॥इदानीं श्रोतुमिच्छामि तस्या मत्रस्य साधनम् ।तन्मन्त्राणां लक्षणं च सर्वमेतन्निवेदय ॥२॥हयग्रीव उवाचसर्वेभ्योऽपि पदार्थेभ्यः शाब्दं वस्तु महत्तरम् ।सर्वेभ्योऽपि हि शब्देभ्यो वेदराशिर्महान्मुने ॥३॥सर्वेभ्योऽपि हि वेदेभ्यो वेदमन्त्रा महत्तराः ।सर्वेभ्यो वेदमन्त्रेभ्यो विष्णुमन्त्रा महत्तराः ॥४॥तेभ्योऽपि दौर्गमन्त्रास्तु महान्तो मुनिपुङ्गव ।तेभ्यो गाणपता मन्त्रा मुने वीर्य महत्तराः ॥५॥तेभ्योऽप्यर्कस्य मन्त्रास्तु तेभ्यः शैवा महत्तराः ।तेभ्योऽपि लक्ष्मीमन्त्रास्तु तेभ्यः सारस्वता वराः ॥६॥तेभ्योऽपि गिरिजामन्त्रास्तेभ्यश्चाम्नायभेदजाः ।सर्वाम्नायमनुभ्योऽपि वाराहा मनवो वराः ॥७॥तेभ्यः श्यामामनुवरा विशिष्टा इल्वलान्तक ।तेभ्योऽपि ललितामन्त्रा दशभेदविभेदिताः ॥८॥तेषु द्वौ मनुराजौ तु वरिष्ठौ विन्ध्यमर्दन ।लोपामुद्रा कामराज इति ख्यातिमुपागतौ ॥९॥ह्रादिस्तु लोपामुद्रा स्यात्कामराजस्तु कादिकाः ।हंसादेर्वाच्यतां याताः कामराजो महेस्वरः ॥१०॥स्मरादेर्वाच्यतां याता देवी श्रीललितांबिका ।हादिकाद्योर्मन्त्रयोस्तु भेदो वर्णत्रयोद्भवः ॥११॥त्योश्च कामराजोऽयं सिद्धिदो भक्तिशालिनाम् ।शिवेन शक्त्या कामेन क्षित्या चैव तु मायया ॥१२॥हंसेन भृगुणा चैव कामेन शशिमौलिना ।शक्रेण भुवनेशेन चन्द्रेण च मनोभुवा ॥१३॥क्षित्या हृल्लेखया चैव प्रोक्तो हंसादिमन्त्रराट् ।कामादिमन्त्रराजस्तु स्मरयोनिः श्रियो मुखे ॥१४॥पञ्चत्रिकमहाविद्या ललितांबा प्रवाचिकाम् ।ये यजन्ति महाभागास्तेषां सर्वत्र सिद्धये ॥१५॥सद्गुरोस्तु मनुं प्राप्य त्रिपञ्चार्णपरिष्कृतम् ।सम्यक्संसाधयेद्विद्वान्वक्ष्यमाणप्रकारतः ॥१६॥तत्क्रमेण प्रवक्ष्यामि सावधानो मुने शृणु ।प्रातरुत्थाय शिरसिस्मृत्वा कमलमुज्ज्वलम् ॥१७॥सहस्रपत्रशोभाढ्यं सकेशरसुकर्णिकम् ।तत्र श्रीमद्गुरुं ध्वात्वा प्रसन्नं करुणामयम् ॥१८॥ततोबहिर्विनिर्गत्य कुर्याच्छौचादिकाः क्रियाः ।अथागत्य च तैलेन सामोदेन विलेपितः ॥१९॥उद्वर्तितश्च सुस्नातः शुद्धेनोष्णेन वारिणा ।आपो निसर्गतः पूताः किं पुनर्वह्निसंयुताः ।तस्मादुष्णोदके स्नायात्तदभावे यथोदकम् ॥२०॥परिधाय पटौ शुद्धे कौसुम्भौ वाथ वारुणौ ।आचम्य प्रयतो विद्वान्हृदि ध्यायन्परांबिकाम् ॥२१॥ऊर्ध्वपुण्ड्रं त्रिपुण्डं वा पट्टवर्धनमेव वा ।अगस्त्यपत्राकारं वा धृत्वा भाले निजोचितम् ।अन्तर्हितश्च शुद्धात्मा सन्ध्यावन्दनमाचरेत् ॥२२॥अश्वत्थपत्राकारेण पात्रेण सकुशाक्षतम् ।सपुष्पचन्दनं चार्ध्यं मार्तण्डाय समुत्क्षिपेत् ॥२३॥तथार्ध्यभावदेवत्वाल्ललितायै त्रिरर्ध्यकम् ।तर्प्पयित्वा यथाशक्ति मूलेन ललितेश्वरीम् ॥२४॥देवर्षिपितृवर्गांश्च तर्पयित्वा विधानतः ।दिवाकरमुपास्थाय देवीं च रविबिम्बगाम् ॥२५॥मौनी विशुद्धहृदयः प्रविश्य मखमन्दिरम् ।चारुकर्पूरकस्तूरीचन्दनादिविलेपितः ॥२६॥भूषणैर्भूषिताङ्गश्च चारुशृङ्गारवेषधृक् ।आमोदिकुसुमस्रग्भिरवतंसितकुन्तलः ॥२७॥संकल्पभूषणो वाथ यथाविभवभूषणः ।पूजाखण्डे वक्ष्यमाणान्कृत्वा न्यासाननुक्रमात् ॥२८॥मृद्वासने समासीनो ध्यायेच्छ्रीनगरं महत् ।नानावृक्षमहोद्यानमारभ्य ललितावधि ॥२९॥ध्यायेच्छ्रीनगरं दिव्यं बहिरन्तरतः शुचिः ।पूजाखण्डोक्तमार्गेम पूजां कृत्वा विलक्षणः ॥३०॥अक्षमालां समादाय चन्द्रकस्तूरिवासिताम् ।उदङ्मुखः प्राङ्खो वा जपेत्सिंहासनेश्वरीम् ।षट्त्रिंशल्लक्षसंख्यां तु जपेद्विद्या प्रसीदति ॥३१॥तद्दशांशस्तु होमः स्यात्तद्दशांशं च तर्पणम् ।तद्दशांशं ब्राह्मणानां भोजनं समुदीरितम् ॥३२॥एवं स सिद्धमन्त्रस्तु कुर्यात्काम्यजपं पुनः ।लक्षमात्रं जपित्वा तु मनुष्यान्वशमानयेत् ॥३३॥लक्षद्वितयजाप्येन नारीः सर्वा वशं नयेत् ।लक्षत्रितयजापेन सर्वान्वशयते नृपान् ॥३४॥चतुर्लक्षजपे जाते क्षुभ्यन्ति फणिकन्यकाः ।पञ्चलक्षजपे जाते सर्वाः पातालयोषितः ॥३५॥भूलोकसुन्दरीवर्गो वश्यःषड्लक्षजापतः ।क्षुभ्यन्ति सप्त लक्षेण स्वर्गलोकमृगीदृशः ॥३६॥देवयोनिभवाः सर्वेऽप्यष्टलक्षजपाद्वशाः ।नवलक्षेण गीर्वाणा नखिलान्वशमानयेत् ॥३७॥लक्षैकादशजाप्येन ब्रह्मविष्णुमहेश्वरान् ।लक्षद्वादशजापेन सिद्धीरष्टौ वशं नयेत् ॥३८॥इन्द्रस्येन्द्रत्वमेतेन मन्त्रेण ह्यभवत्पुरा ।विष्णोर्विष्णुत्वमेतेन शिवस्य शिवतामुना ॥३९॥इन्दोश्चन्द्रत्वमेतेन भानोर्भास्करतामुना ।सर्वासां देवतानां च तास्ताः सिद्धय उज्ज्वलाः ।अनेन मन्त्रराजेन जाता इत्यवधारय ॥४०॥एतन्मन्त्रस्य जापी तु सर्वपापविवर्जितः ।त्रैलोक्यसुन्दराकारो मन्मथस्यापि मोहकृत् ॥४१॥सर्वाभिः सिद्धिभिर्युक्तः सर्वज्ञः सर्वपूजितः ।दर्शनादेव सर्वषामन्तरालस्य पूरकः ॥४२॥वाचा वाचस्पतिसमः श्रिया श्रीपतिसानभः ।बले मरुत्समानः स्यात्स्थिरत्वे हिमवानिव ॥४३॥औन्नत्ये मेरुतुल्यः स्याद्गांभीर्येण महार्णवः ।क्षणात्क्षोभकरो मूर्त्या ग्रामपल्लीपुरादिषु ॥४४॥ईषद्भूभङ्गमात्रेण स्तम्भको जृंभकस्तथा ।उच्चाटको मोहकश्च मारको दुष्टचेतसाम् ॥४५॥क्रुद्धः प्रसीदति हठात्तस्य दर्शनहर्षितः ।अष्टादशसु विद्यासु निरूढिमभिगच्छति ॥४६॥मन्दाकिनीपूरसमा मधुरा तस्य भारती ।न तस्याविदितं किञ्चित्सर्वशास्त्रेषु कुम्भज ॥४७॥दर्शनानि च सर्वाणि कर्तु खण्डयितुं पटुः ।तत्त्वञ्जानाति निखिलं सर्वज्ञत्वं च गच्छति ॥४८॥सदा दयार्द्रहृदयं तस्य सर्वेषु जन्तुषु ।तत्कोपाग्नेर्विषयतां गन्तुं नालं जगत्त्रयी ॥४९॥तस्य दर्शनवेलायां श्लथन्नीवीनिबन्धनाः ।विश्रस्तरशनाबन्धा गलत्कुण्डलसञ्चयाः ॥५०॥घर्मवारिकणश्रेणीमुक्ताभूषितमूर्तयः ।अत्यन्तरागतरलव्यापारनयनाञ्चलाः ॥५१॥स्रंसमानकरांभोजमणिकङ्कणपङ्क्तयः ।ऊरुस्तम्भेन निष्पन्दा नमितास्याश्च लज्जया ॥५२॥द्रवत्कन्दर्पसदनाः पुलकाङ्कुरभूषणाः ।अन्यमाकारमिव च प्राप्ता मानसजन्मना ॥५३॥दीप्यमाना इवोद्दामरागज्वालाकदंबकैः ।वीक्ष्यमाणा इवानङ्गशरपावकवृष्टिभिः ॥५४॥उत्कण्ठया तुद्यमानाः खिद्यमाना तनूष्मणा ।सिच्यमानाः श्रमजलैः शुच्यमानाश्च लज्जया ॥५५॥कुलं जातिं च शीलं च लज्जां च परिवारकम् ।लोकाद्भयं बन्धुभयं परलोकभये तथा ॥५६॥मुञ्चन्त्यो हृदि याचन्त्यो भवन्ति हरिणीदृशः ।अरण्ये पत्तने वापि देवालयमठेषु वा ।यत्र कुत्रापि तिष्ठन्तं तं धावन्ति मृगीदृशः ॥५७॥अत्याहतो यथैवांभोबिन्दुर्भ्रमति पुष्करे ।तद्वद्भ्रमन्ति चित्तानि दर्शने तस्य सुभ्रुवाम् ॥५८॥विनीतानवनीतानां विद्रावणमहाफलम् ।तं सेवन्ते समस्तानां विद्यानामपि पङ्क्तयः ॥५९॥चन्द्रार्कमण्डलद्वन्द्वकुचमण्डलशोभिनी ।त्रिलोके ललना तस्य दर्शनादनुरज्यति ।अन्यासां तु वराकीणां वक्तव्यं किं तपोधन ॥६०॥पत्तनेषु च वीथीषु चत्वरेषु वनेषु च ।तत्कीर्तिघोषणा पुण्या सदा द्युसद्द्रुमायते ॥६१॥तस्य दर्शनतः पाप जालं नश्यति पापिनाम् ।तद्गुणा एव घोक्ष्यन्ते सर्वत्र कविपुङ्गवैः ॥६२॥भिन्नैर्वर्णैरायुधैश्च भिन्नैर्वाहनभूषणैः ।ये ध्यायन्ति महादेवीं तास्ताः सिद्धीर्भञ्जति ते ॥६३॥मनोरादिमखण्डस्तु कुन्देन्दुधवलद्युतिः ।अहश्चक्रे ज्वलज्ज्वालश्चिन्तनीयस्तु मूलके ॥६४॥इन्द्रगोपक संकाशो द्वितीयो मनुखण्डकः ।नीभालनीयेऽहश्चक्रे आबालान्तज्वलच्छिखः ॥६५॥अथ बालादिपद्मस्थद्विदलांबुजकोटरे ।नीभालनीयस्तार्तीयखण्डो दुरितखण्डकः ॥६६॥मुक्ता ध्येया शशिजोत्स्ना धवलाकृतिरंबिका ।रक्तसंध्यकरोचिः स्याद्वशीकरणकर्मणि ॥६७॥सर्वसंपत्तिलाभे तु श्यामलाङ्गी विचिन्त्यते ।नीला च मूकीकरणे पीता स्तंभनकर्मणि ॥६८॥कवित्वे विशदाकारा स्फटिकोपलनिर्मला ।धनलाभे सुवर्णाभा चिन्त्यते ललितांबिका ॥६९॥आमूलमाब्रह्मबिलं ज्वलन्माणिक्यदीपवत् ।ये ध्यायन्ति महापुञ्जं ते स्युः संसिद्धसिद्धयः ॥७०॥एवं बहुप्रकारेण ध्यानभेदेन कुम्भज ।निभालयन्तः श्रीदेवीं भजन्ति महतीं श्रियम् ।प्राप्यते सद्भिरेवैषा नासद्भिस्तु कदाचन ॥७१॥यैस्तु तप्तं तपस्तीव्रं तैरेवात्मनि ध्यायते ।तस्य नो पश्चिमं जन्म स्वयं यो वा न शङ्करः ।न तेन लभ्यते विद्या ललिता परमेश्वरी ॥७२॥वंशे तु यस्य कस्यापि भवेदेष मनुर्यदि ।तद्वंश्याः सर्व एव स्युर्मुक्तास्तृप्ता न संशयः ॥७३॥गुप्ताद्गुप्ततरैवैषा सर्वशास्त्रेषु निश्चिता ।वेदाः समस्तशास्त्राणि स्तुवन्ति ललितेश्वरीम् ॥७४॥परमात्मेयमेव स्यादियमेव परा गतिः ।इयमेव महत्तीर्थमियमेव महत्फलम् ॥७५॥इमां गायन्ति मुनयो ध्यायन्ति सनकादयः ।अर्चन्तीमां सुरश्रेष्ठा ब्रह्माद्याः पञ्चसिद्धिदाम् ॥७६॥न प्राप्यते कुचारित्रैः कुत्सितैः कुटिलाशयैः ।दैवबाह्यैर्वृथातर्कैर्वृथा विभ्रान्त बुद्धिभिः ॥७७॥नष्टैरशीलैरुच्छिष्टैः कुलभ्रष्टैश्च निष्ठुरैः ।दर्शनद्वेषिभिः पापशीलैराचारनिन्दकैः ॥७८॥उद्धतैरुद्धतालापैर्दांभिकैरतिमानिभिः ।एतादृशानां मर्त्यानां देवानां चातिदुर्लभा ॥७९॥देवतानां च पूज्यत्वमस्याः प्रोक्तं घटोद्भव ।भण्डासुर वधायैषा प्रादुर्भूता चिदग्नितः ॥८०॥महात्रिपुरसुन्दर्या सूर्तिस्तेजोविजृंभिता ।कामाक्षीति विधात्रा तु प्रस्तुता ललितेश्वरी ॥८१॥ध्यायतः परया भक्त्या तां परां ललितांबिकाम् ।सदाशिवस्य मनसो लालनाल्ललिताभिधा ॥८२॥यद्यत्कृतवती कृत्यं तत्सर्वं विनिवेदितम् ।पूजाविधानमखिलं शास्त्रोक्तेनैव वर्त्मना ।खण्डान्तरे वदिष्यामि तद्विलासं महाद्भुतम् ॥८३॥इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने मन्त्रराजसाधनप्रकारकथनन्नामाष्टत्रिंशोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP