उत्तरभागः - अध्यायः ३९
ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.
अगस्त्य उवाच
अनाद्यनन्तमव्यक्तं व्यक्तानामादिकारणम् ।
आनन्दबोधैकरसं तन्महन्मन्महे महः ॥१॥
अश्वानन महाप्राज्ञ वेदवेदान्तवित्तम ।
श्रुतमेतन्महापुण्यं ललिताख्यानमुत्तमम् ॥२॥
सर्वपूज्या त्वया प्रोक्ता त्रिपुरा परदेवता ।
पाशाङ्कुशधनुर्बाण परिष्कृतचतुर्भुजा ॥३॥
तस्या मन्त्रमिति प्रोक्तं श्रीचक्रं चक्रूषणम् ।
नवावरणमीशानी श्रीपरस्याधिदैवतम् ॥४॥
काञ्चीपुरे पवित्रेऽस्मिन्महीमण्डलमण्डले ।
केयं विभाति कल्याणी कामाक्षीत्यभिविश्रुता ॥५॥
द्विभुजा विविधोल्लासविलसत्तनुवल्लरी ।
अदृष्टपूर्वसैन्दर्या परज्योतिर्मयी परा ॥६॥
सूत उवाच
अगस्त्येनैवमुक्तः सन्परानन्दादृतेक्षणः ।
ध्यायंस्तच्च परं तेजो हयग्रीवो महामनाः ।
इति ध्यात्वा नमस्कृत्य तमगस्त्यमथाब्रवीत् ॥७॥
हयग्रीव उवाच
रहस्यं संप्रवक्ष्यामि लोपामुद्रापते शृणु ॥८॥
आद्या याणुतरा सा स्याच्चित्परा त्वादिकारणम् ।
अन्ताख्येति तथा प्रोक्ता स्वरूपात्तत्त्वचिन्तकैः ॥९॥
द्वितीयाभूत्ततः शुद्धपराद्विभुजसंयुता ।
दक्षहस्ते योगमुद्रां वामहस्ते तु पुस्तकम् ॥१०॥
बिभ्रती हिमकुन्देन्दुमुक्तासमवपुर्द्युतिः ।
परापरा तृतीया स्याद्बा लार्कायुतसंमिता ॥११॥
सर्वाभरणसंयुक्ता दशहस्तधृताम्बुजा ।
वामोरुन्यस्तहस्ता वा किरीटार्धेन्दुभूषणा ॥१२॥
पश्चाच्चतुर्भुजा जाता सा परा त्रिपुरारुणा ।
पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्करा ॥१३॥
ललिता सैव कामाक्षी काञ्च्यां व्यक्तिमुपागता ।
सरस्वतीरमागौर्यस्तामेवाद्यामुपासते ॥१४॥
नेत्रद्वयं महेशस्य काशीकाञ्जीपुरद्वयम् ॥१५॥
विख्यातं वैष्णवं क्षेत्रं शिवसांनिध्य कारकम् ।
काञ्चीक्षेत्रे पुरा धाता सर्वलोकपितामहः ॥१६॥
श्रीदेवीदर्शनायैव तपस्तेपे सुदुष्करम् ।
आत्मैकध्यानयुक्तस्य तस्यव्रतवतो मुने ॥१७॥
प्रादुरासीत्पुरो लक्ष्मीः पद्महस्ता परात्परा ।
पद्मासने च तिष्ठन्ती विष्णुना जिष्णुना सह ॥१८॥
सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता ।
सिंहासनेश्वरी ख्याता सर्वलोकैकरक्षिणी ॥१९॥
तां दृष्ट्वाद्भुतसैन्दर्यां परज्योतिर्मयीं पराम् ।
आदिलक्ष्मीमिति ख्यातां सर्वेषां हृदये स्थिताम् ॥२०॥
यामाहुस्त्रिपुरामेव ब्रह्मविष्णवीशमातरम् ।
कामाक्षीति प्रसिद्धां तामस्तौ षीत्पुर्मभक्तिमान् ॥२१॥
ब्रह्मोवाच ।
जय देवि जगन्मातर्जय त्रिपुरसुन्दरि ।
जय श्रीनाथसहजे जय श्रीसर्वमङ्गले ॥२२॥
जय श्रीकरुणाराशे जय शृङ्गारनायिके ।
जयजयेधिकसिद्धेशि जय योगीन्द्रवन्दिते ॥२३॥
जयजय जगदम्ब नित्यरूपे जयजय सन्नुतलोकसौख्यदात्रि ।
जयजय हिमशैलकीर्तनीये जयजय शङ्करकामवामनेत्रि ॥२४॥
जगज्जन्मस्थितिध्वंसपिधानानुग्रहान्मुहुः ।
या करोति स्वसङ्कल्पात्तस्यै देव्यै नमोनमः ॥२५॥
वर्णाश्रमाणां सांकर्यकारिणः पापिनो जनान् ।
निहन्त्याद्यातितीक्ष्णास्त्रैस्तस्यै देव्यैदृ ॥२६॥
नागमैश्च न वेदैश्च न शास्त्रैर्न च योगिभिः ।
देद्या या च स्वसंवेद्या तस्यै देव्यै नमोनमः ॥२७॥
रहस्याम्नायवेदान्तैस्तत्त्वविद्भिर्मुनीश्वरैः ।
परं ब्रह्मेति या ख्याता तस्यैदृ ॥२८॥
हृदयस्थापि सर्वेषां या न केनापि दृश्यते ।
सूक्ष्मविज्ञानरूपायैदृ ॥२९॥
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
यद्ध्यानैकपरा नित्यं तस्यैदृ ॥३०॥
यच्चरणभक्ता इन्द्राद्या यदाज्ञामेव बिभ्रति ।
साम्राज्यसंपदीशायै तस्यैदृ ॥३१॥
वेदा निःश्वसितं यस्या वीक्षितं भूतपञ्चकम् ।
स्मितं चराचरं विश्वं तस्यैदृ ॥३२॥
सहस्रशीर्षा भोगीन्द्रो धरित्रीं तु यदाज्ञया ।
धत्ते सर्वजनाधारां तस्यैदृ ॥३३॥
ज्वलत्यग्निस्तपत्यर्केवातो वाति यदाज्ञया ।
ज्ञानशक्तिस्वरूपायै तस्यैदृ ॥३४॥
पञ्चविंशतितत्त्वानि मायाकञ्चुकपञ्चकम् ।
यन्मयं मुनयः प्राहुस्तस्यैदृ ॥३५॥
शिवशक्तीश्वराश्चैव शुद्धबोधः सदाशिवः ।
यदुन्मेषविभेदाः स्युस्तस्यैदृ ॥३६॥
गुरुर्मन्त्रो देवता च तथा प्राणाश्च पञ्चधा ।
या विराजति चिद्रूपा तस्यैदृ ॥३७॥
सर्वात्मनामन्तरात्मा परमान्दरूपिणी ।
श्रीविद्येति स्मृता वा तु तस्यैदृ ॥३८॥
दर्शनानि च सर्वाणि यदङ्गानि विदुर्बुधाः ।
तत्तन्नियमयूपायै तस्यै देव्यै नमोनमः ॥३९॥
या भाति सर्वलोकेषु मणिमन्त्रौष धात्मना ।
तत्त्वोपदेशरूपायै तस्यैदृ ॥४०॥
देशकालपदार्थात्मा यद्यद्वस्तु यथा तथा ।
तत्तद्रूपेण या भाति तस्यैदृ ॥४१॥
हे प्रतिभटाकारा कल्याणगुणशालिनी ।
विश्वोत्तीर्णेति चाख्याता तस्यैदृ ॥४२॥
इति स्तुत्वा महादेवीं धाता लोकपितामहः ।
भूयोभूयो नमस्कृत्य सहसा शरणं गतः ॥४३॥
सन्तुष्टा सा तदा देवी ब्रह्माणं प्रेक्ष्य संनतम् ।
वरदा सर्वलोकानां वृणीष्व वरमित्यशात् ॥४४॥
ब्रह्मोवाच ।
भक्त्या त्वद्दर्शनेनैव कृतार्थोऽस्मि न संशयः ।
तथापि प्रार्थये किञ्चिल्लोकानुग्रहकाम्यया ॥४५॥
कर्मभूमौ तु लोकेऽस्मिन्प्रायो मूढा इमे जनाः ।
तेषामनुग्रहार्थाय नित्यं कुर्वत्र संनिधिम् ॥४६॥
तथेति तस्य तं कामं पूरयामास वेधसः ।
अथ धाता पुनस्तस्या देव्या वासमकल्पयत् ॥४७॥
श्रीदेवीसोदरं नत्वा पुण्डरीकाक्षमच्युतम् ।
तत्सांनिध्यं सदा काञ्च्यां प्रार्थयामास चादृतः ॥४८॥
ततस्तथा करिष्यामीत्यब्रवीत्तं जनार्दनः ।
अथ तुष्टो जगद्धाता पुनः प्राह महेश्वरीम् ॥४९॥
शिवोऽप्यत्रैव सांनिध्यं तव प्रीत्या करोत्विति ।
अथ श्रीत्रिपुरादक्षभागात्कामेश्वरः परः ॥५०॥
ईशानःसर्वविद्या नामीश्वरः सर्वदेहिनाम् ।
आविरासीन्महादेवः साक्षाच्छृङ्गारनायकः ॥५१॥
ततः पुनः श्रीकामाक्षीभालनेत्रकटाक्षतः ।
काचिद्बाला प्रादुरासीन्महागौरा महोज्ज्वला ॥५२॥
सर्वशृङ्गारवेषाढ्या महालावण्यशेवधिः ।
अथ श्रीपुण्डरीकाक्षो ब्रह्मणा सह सादरम् ॥५३॥
कारयामास कल्याणमादिस्त्रीपुंसयोस्तयोः ।
आखण्डलादयो देवा वसुरुद्रादिदेवताः ॥५४॥
मार्कण्डेयादिमुनयो वसिष्ठादिमुनीश्वराः ।
योगीन्द्राः सनकाद्याश्च नारदाद्याः सुरर्षयः ॥५५॥
वामदेवप्रभृतयो जीवन्मुक्ताः शुकादयः ।
यक्षकिन्नर गन्धर्वसिद्धविद्याधरोरगाः ॥५६॥
गणाग्रणीर्महाशास्ता दुर्गाद्याश्चैव मातरः ।
या यास्तु देवताः प्रोक्तास्ताः सर्वाः परमेश्वरीम् ॥५७॥
भद्रासनविमानस्था नेमुः प्राञ्जलयस्तदा ।
मनसा निर्मितं धात्रा मध्ये नगरमद्भुतम् ॥५८॥
मन्दिरं परमेशान्या मनोहरतमं शुभम् ।
श्रीमता वासुदेवेन सोदरेम महेश्वरः ॥५९॥
तत्रोदवोढतां गौरीमुपाग्नि भगवान्भवः ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात ह ॥६०॥
दम्पत्योर्जगतां पत्योः पाणिग्रहणमङ्गलम् ।
को वा वर्णयितुं शक्तो यदि जिह्वासहस्रवान् ॥६१॥
आदिश्रीमन्दिरस्यास्य वायुभागे महेशितुः ।
विस्तृतं भुवनश्रेष्ठं कल्पितं परमेष्ठिना ॥६२॥
श्रीगृहस्याग्निभागे तु विचित्रं विष्णुमन्दिरम् ।
इत्थं ता देवतास्तत्र तिस्रः सन्निहिताः सदा ॥६३॥
तदा प्रदक्षिणीकृत्य तत्परौ दम्पती तु तौ ।
प्राप्तौ सभावनागारं तदा विधिजनार्दनौ ॥६४॥
समागम्य च सभ्यानां समास्तानांयथाविधि ।
संस्कारं वैदिकैर्मन्त्रैः कथयामासतुर्मुदा ॥६५॥
आद्यादिलक्ष्मीः सर्वेषां पुरतः श्रीपरेश्वरी ।
विरञ्चिं दक्षिणेनाक्ष्णा वामेन हरिमैक्षत ॥६६॥
का नाम वाणी मा नाम कमला ते उभे ततः ।
प्रादुर्भूते प्रभापुञ्जे पञ्जरान्त इव स्थिते ॥६७॥
श्रीदेवतानमच्छीर्षबद्धाञ्जलिपुटावुभौ ।
जय कामाक्षिकामाक्षीत्यूचतुस्तां प्रणेमतुः ॥६८॥
मूर्ते च गङ्गायमुने तत्र सेवार्थमागते ।
तिस्रः कोट्योर्ऽधकोटी च या यास्तीर्थाधिदेवताः ॥६९॥
सेवार्थं त्रिपुरांबा यास्तास्ताः सर्वाः समागताः ।
तदा कराभ्यामादाय चामरे भारतीश्रियौ ।
श्रीदेवीमुपतस्थाते वीजयन्त्यौ यथोचितम् ॥७०॥
अनर्घ्यरत्नखचितकिङ्किणीचितदोर्लते ।
आदिश्रीनयनोत्पन्ने ते उभे भारतीश्रियौ ॥७१॥
संवीक्ष्य सर्वजनता विशेषेण विसिस्मिये ।
तदा प्रभृति कल्याणी कामाक्षीत्यभिधामियात् ।
तदुच्चारणमात्रेण श्रीदेवी शं प्रयच्छति ॥७२॥
कामाक्षीति त्रयो वर्णाः सर्वमङ्गलहेतवः ।
अथ सा जगदीशानी वेदवेदाङ्गपारगे ॥७३॥
विधौ नित्यं निषीदेति संदिदेश सरस्वतीम् ।
सापि वाणीश्वरी गङ्गाहस्तनिक्षिप्तचामरा ।
पश्यतां सर्वदेवानां विधातुर्मुखमाविशत् ॥७४॥
इन्दिरा च महालक्ष्म्या संदिष्टा तुष्टया तथा ।
यथोचितनिवासाय विष्णोर्वक्षस्थलं मुदा ।
तदाज्ञां शिरसा धृत्वा रमा विष्णुश्च भक्तितः ॥७५॥
तावुभौ दंपती नत्वा महात्रिपुरसुन्दरीम् ।
प्रार्थयामासतुर्भूयस्तदावरणदेवताम् ॥७६॥
तथास्त्विति वरं दत्त्वा ताभ्यां त्रिपुरसुन्दरम् ।
तदावरणदेवत्वं प्राप्तौ पद्माच्युतौ तदा ॥७७॥
स्वपीठोत्तरमास्थाप्य दक्षिणे स्थितवान्स्वयम् ।
अथोवाच महागौरीं त्वमन्यद्रूपमाचर ।
तत्र यातो महागौर्याः प्रतिबिंबो मनोहरः ॥७८॥
चकासद्दिव्यदेहेन महागौरीसमाकृतिः ।
तरुणारुणराजाभसैन्दर्यचरणद्वयः ॥७९॥
क्वणत्कङ्कणमञ्जीरतित्तिरीकृतपीठकः ।
विद्युदुल्लासितस्वानमनोज्ञमणिमेखलः ॥८०॥
रत्नकङ्कणकेयूरविराजितभुजद्वयः ।
मुक्तावैदूर्यमाणिक्य निबद्धवरबन्धनः ॥८१॥
विभ्राजमानो मध्येन वलित्रितयशोभितः ।
जाह्नवीसरिदावर्तशोभिनाभीविभूषितः ॥८२॥
पाटीरपङ्ककर्पूरकुङ्कुमालङ्कृतस्तनः ।
आमुक्तमुक्तालङ्कारभासुरस्तनकुञ्चुकः ॥८३॥
विनोदेन कटीदेशलंबमानसुशृङ्खलः ।
माणिक्यशकलाबद्धमुद्रिकाभिरलङ्कृतः ॥८४॥
दक्षहस्तांबुजासक्तस्निग्धोज्जवलमनोहरः ।
आभात्याप्रपदीनस्रग्दिव्याकल्पकदंबकैः ॥८५॥
दीप्तभूषणरत्नांशुराजिराजितदिङ्मुखः ।
तप्तहाटकसंकॢप्तरत्नग्रीबोपशोभितः ॥८६॥
माङ्गल्यसूत्ररत्नांशुशोणिमाधरकन्धरः ।
पालीवतंसमाणिक्यताटङ्कपरिभूषितः ॥८७॥
जपाविद्रुमलावण्यललिताधरपल्लवः ।
दाडिमीफलबीजाभदन्तपङ्क्तिविराजितः ॥८८॥
मन्दमन्दस्मितोल्लासिकपोलफलकोमलः ।
औपम्यरहितोदारनासामणिमनोहरः ॥८९॥
विलसत्तिलपुष्पश्रीविमलोन्नत नासिकः ।
ईषदुन्मेषमधुरनीलोत्पलविलोचनः ॥९०॥
नवप्रसूनचापश्रीललितभ्रूविकाशकः ।
अर्द्धेन्दुतुलितो भाले पूर्णेन्दुरुचिराननः ॥९१॥
सांद्रसौरभसंपन्नकस्तूरीतिलकोज्ज्वलः ।
मत्तालिमालाविलसदलकाढ्यमुखांबुजः ॥९२॥
पारिजातप्रसूनस्रग्वाहिधम्मिल्लबन्धनः ।
अत्यर्थरत्नखचितमुकुटाञ्चितमस्तकः ॥९३॥
सर्वलावण्यवसतिर्भवनं विभ्रमाश्रियः ।
शिवो विष्णुश्च तत्रत्याः समस्ताश्च महाजनाः ॥९४॥
बिंबस्य तस्य देव्याश्च अभेदं जगृहुस्तदा ।
अथ तर्हि महेशानी स्वतन्त्रा प्रविवेश ह ॥९५॥
अग्रतः सर्बदेवानामाश्रयेण प्रपश्यताम् ।
बिम्बं कृत्वात्मना बिम्बे संप्रविश्य स्थितां च ताम् ।
दृष्ट्वा भूयो नमस्कृत्य पुनः प्रार्थितवान्विधिः ॥९६॥
पूर्णब्रह्मे महाशक्ते महात्रिपुरसुन्दरि ।
श्रीकामाक्षीति विख्याते नमस्तुभ्यं दिनेदिने ।
किञ्चिद्विज्ञापयाम्यद्य शृणु तत्कृपया मम ॥९७॥
अत्रैव तु महागौर्या महेशस्योभयोरपि ।
श्रीदेवि नित्यकल्याणि विवाहः प्रतिवत्सरम् ।
कर्तव्यो जगतामृद्धसेवायै च दिवौकसाम् ॥९८॥
भूलोकेऽस्मिन्महादेवि विमूढा जनता अपि ।
तां दृष्ट्वा भक्तितो नत्वा प्रयान्तु परमां गतिम् ॥९९॥
तथेत्याकाशवाण्या तु ददौ तस्यौत्तरं परा ।
विससर्ज च सर्वांस्तान्स्वनिकेतनिवृत्तये ॥१००॥
तदद्भुततमं शीलं स्मृत्वा स्मृत्वा मुहुर्मुहुः ।
तां नमस्कृत्य ते सर्वे ततो जगमुर्यथागतम् ॥१०१॥
पितामहस्तु हृष्टात्मा मुकुन्देन शिवेन च ।
सार्धं श्रीमन्दिरे तत्र मन्त्रोपेतां निवेश्य च ।
आराध्य वैदिकैः स्तोत्रैः साष्टाङ्गं प्रणनाम सः ॥१०२॥
अथाकाशगिरा देवी ब्रह्माणमिदमब्रवीत् ॥१०३॥
विष्णुं शिवं च स्वस्थाने समाधाय समाहितः ।
प्रतिसंवत्सरं तत्र सेवां कुरुदृढाशय ॥१०४॥
स्वयंव्यक्तमिह श्रीशमित्रेशांबासमन्वितम् ।
श्रीकामगिरिपीठं तु साक्षाच्छ्रीपुरमध्यगम् ॥१०५॥
वामभागे वृतं लक्ष्यं विष्णुनान्यत्र सेविनम् ॥१०६॥
चिदानन्दाकाररूपं सर्वपीठाधिदैवतम् ।
अदृश्यमूर्तिमव्यक्तमादधार यथा विधि ॥१०७॥
श्रीमनोज्ञे सुनक्षत्रे दलानां हीरकोरकैः ।
अर्चिष्मद्भिरप्रधृष्यैर्ल्लोकानामभिवृद्धये ॥१०८॥
इदानीं त्वं तदभ्यर्च्य यधाविधि विधे मुदा ।
मण्डलं त्वखिलं कृत्वा निजलोकं हि पालय ॥१०९॥
इत्युक्तो भगवान्ब्रह्मा तथा कृत्वा तदीरितम् ।
निक्षिप्य हृदि तां देवीं निजं धाम जगाम सः ॥११०॥
इति ते तत्त्वतः प्रोक्तं कामाक्षीशीलमद्भुतम् ।
साक्षादेवमहालक्ष्मीमिमां विद्धि घटोद्भव ॥१११॥
य इदं शृणुयान्नित्यं यश्चापि प्रयतः पठेत् ।
तस्य भुक्तिश्च मुक्तिश्च करस्था नात्र संशयः ॥११२॥
बृहस्पतिसमो बुद्ध्या सर्वविद्याधिपो भवेत् ।
आदिर्नारायणः श्रीमान्भगवान्भक्तवत्सलः ॥११३॥
तपसा तोषितः पूर्वं मया च चिरकालतः ।
सारूप्यमुक्तिं कृपया दत्त्वा पुत्राय मे प्रभुः ।
महात्रिपुरसुन्दर्या महात्म्यं समुपादिशत् ॥११४॥
ततस्तस्मादहं किञ्चिद्वेद्मि वक्ष्ये न चान्यथा ।
रहस्यमन्त्रं संवक्ष्येशृणु तं त्वं समाहितः ॥११५॥
न ब्रह्मा न च विष्णुर्वा न रुद्रश्च त्रयोऽप्यमी ।
मोहिता मायया यस्यास्तुरीयस्तु स चेश्वरः ।
सदाशिवो न जानाति कथं प्राकृतदेवताः ॥११६॥
सदाशिवस्तु सर्वात्मा सच्चिदानन्दविग्रहः ।
अकर्तुमन्यथा कर्तुं कर्तुमस्या अनुग्रहात् ॥११७॥
सदा कश्चित्तदेवाहं मन्यमानो महेश्वरः ।
तन्मायामोहितो भूत्वा त्ववशः शवतामगात् ॥११८॥
सैव कारणमेतेषामुत्पत्तौ च लयेऽपि च ।
कश्चिदत्र विशेषोऽस्ति वक्तव्यांशोऽपि तं शृणु ॥११९॥
ब्रह्मादीनां त्रयाणां च तुरीयस्त्वीश्वरः प्रभुः ।
चतुर्णामपि सर्वेषामादि कर्ता सदाशिवः ॥१२०॥
एतद्रहस्यं कथितं तस्याश्चरितमद्भुतम् ।
भूय एव प्रवक्ष्यामि सावधानमनाः शृणु ॥१२१॥
इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने एकोनचत्वारिंशोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP