संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|उत्तरभागः| अध्यायः ४० उत्तरभागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ उत्तरभागः - अध्यायः ४० ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे. Tags : brahmand puranpuranपुराणब्रह्माण्ड पुराणसंस्कृत अध्यायः ४० Translation - भाषांतर अगस्त्य उवाचश्रीकामकोष्ठपीठस्था महात्रिपुरसुन्दरी ।कङ्कं विलासमकरोत्कामाक्षीत्यभिविश्रुता ॥१॥श्रीकामाक्षीति सा देवी महात्रिपुरसुंदरी ।भूमण्डलस्थिता देवी किं करोति महेश्वरी ।एतस्याश्चरितं दिव्यं वद मे वदतां वर ॥२॥हयग्रीव उवाचअत्र स्थितापि सर्वेषां हृदयस्था घटोद्भव ।तत्तत्कर्मानुरूपं सा प्रदत्ते देहिनां फलम् ॥३॥यत्किञ्चिद्वर्तते लोके सर्वमस्या विचेष्टितम् ।किञ्चिच्चिन्तयते कश्चित्स्वच्छन्दं विदधात्यसौ ॥४॥तस्या एवावतारास्तु त्रिपुराद्याश्च शक्तयः ।इयमेव महालक्ष्मीः ससर्जाण्डत्रयं पुरा ॥५॥परत्रयाणामावासं शक्तीनां तिसृणामपि ।एकस्मादण्डतो जातावंबिकापुरुषोत्तमौ ॥६॥श्रीविरिञ्चौ ततोऽन्यस्मादन्य स्माच्च गिराशिवौ ।इन्दिरां योजयामास मुकुन्देन महेश्वरी ।पार्वत्या परमेशानं सरस्वत्या पितामहम् ॥७॥ब्रह्माणं सर्व लोकानां सृष्टिकार्ये न्ययुङ्क्त सा ।वासुदेवं परित्राणे संहारे च त्रिलोचनम् ॥८॥ते सर्वेऽपि महालक्ष्मीं ध्यायन्तः शर्मदां सदा ।ब्रह्मलोके च वैकुण्ठे कैलासे च वसंत्यमी ॥९॥कदाचित्पार्वती देवी कैलासशिखरे शुभे ।विहरन्ती महेशस्य पिधानं नेत्रयोर्व्यधात् ॥१०॥चन्द्रसूर्यौं यतस्तस्य नेत्रात्तस्माज्जगत्त्रयम् ।अन्धकारावृतमभूदतेजस्कं समन्ततः ॥११॥ततश्च सकला लोका स्त्यक्तदेवपितृक्तियाः ।इति कर्त्तव्यतामूढा न प्रजानन्त किञ्चन ॥१२॥तद्दृष्ट्वा भगवान्रुद्रः पार्वतीमिदमब्रवीत् ।त्वया पापं कृतं देवि मम नेत्रपिधानतः ॥१३॥ऋषयस्त्यक्ततपसो हतसन्ध्याश्च वैदिकाः ।सर्वं च वैदिकं कर्म त्वया नाशितमंबिके ॥१४॥तस्मात्पापस्य शान्त्यर्थं तपः कुरु सुदुष्करम् ।गत्वा काशीं व्रतं तत्र किञ्चित्कालं समाचर ॥१५॥पश्चात्काञ्चीपुरं गत्वा कामाक्षीं तत्र द्रक्ष्यसि ।आराधयैतां नित्यां त्वं सर्वपापहरीं शिवाम् ॥१६॥तुलसीमग्रतः कृत्त्वा कम्पाकूले तपः कुरु ।इत्यादिश्य महादेवस्तत्रैवान्तरधीयत ॥१७॥तथा कृतवतीशानी भर्तुराज्ञानुवर्तिनी ।चिरेण तपसा क्लिष्टामनन्यहृदयां शिवाम् ॥१८॥अग्रतः कृतसांनिध्या कामाक्षी वाक्यमब्रवीत् ।वत्से तपोभिरत्युग्रैरलं प्रीतास्मि सुव्रते ॥१९॥उन्मील्य नयने पश्चात्पार्वती स्वपुरः स्थिताम् ।बालार्कायुतसंकाशां सर्वाभरणभूषिताम् ॥२०॥किरीटहारकेयूरकटकाद्यैरलङ्कृताम् ।पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्कराम् ॥२१॥किरीटमुकुटोल्लासिचन्द्ररेखाविभूषणाम् ।विधातृहरिरुद्रेशसदाशिवपदप्रदाम् ॥२२॥सगुणं ब्रह्मतामाहुरनुत्तरपदाभिधाम् ।प्रपञ्चद्वयनिर्माणकारिणीं तां परांबिकाम् ॥२३॥तां दृष्ट्वाथ महाराज्ञीं महा नन्दपरिप्लुता ।पुलकाचितसर्वाङ्गी हर्षेणोत्फुल्ललोचना ॥२४॥चण्डिकामङ्गलाद्यैश्च सहसा स्वसखीजनैः ।प्रणिपत्य च साष्टाङ्गं कृत्वा चैव प्रदक्षिणाम् ॥२५॥बद्धाञ्जलिपुटा भूयः प्रणता स्वैक्यरूपिणी ।तामाह कृपया वीक्ष्य महात्रिपुरसुंदरी ॥२६॥बाहुभ्यां संपरिष्वज्य सस्नेहमिदमब्रवीत् ।वत्से लभस्व भर्तारं रुद्रं स्वमनसेप्सितम् ॥२७॥लोके त्वमपि रक्षार्थं ममाज्ञाम नुवर्तय ।अहं त्वमिति को भेदस्त्वमेवाहं न संशयः ॥२८॥किं पापं तव कल्याणि त्वं हि पापनिकृन्तनी ।आमनन्ति हि योगीन्द्रास्त्वामेव ब्रह्मरूपिणीम् ॥२९॥लीलामात्रमिदं वत्से परलोकविडंबनम् ।इत्यूचिषीं महाराज्ञीमबिकां सर्वमङ्गला ।भक्त्या प्रणम्य पश्यन्ती परां प्रीतिमुपाययौ ॥३०॥स्तुवत्यामेव पार्वत्यां तदानीमेव सापरा ।प्रविष्टा हृदयं तस्याः प्रहृष्टाया महामुने ॥३१॥अथ विस्मयमापन्ना चिन्तयन्ती मुहुर्मुहुः ।स्वप्नः किमेष दृष्टो वा मया किमथ वा भ्रमः ॥३२॥इत्थं विमृश्य परितः प्रेरयामास लोचने ।जयां च विजयां पश्चात्सख्यावालोक्य सस्मिते ।प्रसन्नवदना सा तु प्रणते वदति स्म सा ॥३३॥एतावन्तमलं कालं कुत्र याते युवां प्रिये ।मया दृष्टां तु कामाक्षीं युवां चेत्किमपश्यतम् ॥३४॥सख्यौ तु तद्वचः श्रुत्वा प्रहर्षोत्फुल्ललोचने ।पुष्पाणि पूजनार्हाणि निधायाग्रे समूचतुः ॥३५॥सत्यमेवाधुना दृष्टा ह्यावाभ्यामपि सा परा ।न स्वप्नो न भ्रमो वापि साक्षात्ते हृदयं गता ।इत्युक्त्वा पार्श्वयोस्तस्या निषण्णे विनयानते ॥३६॥एकाम्रमूले भगवान्भवानीविरहार्तिमान् ।गौरीसंप्राप्तये दध्यौ कामाक्षीं नियतेन्द्रियः ॥३७॥तत्रापि कृतसांनिध्या श्रीविद्यादेवता परा ।अचष्ट कृपया तुष्टा ध्यायन्तं निश्चलं शिवम् ॥३८॥अलं ध्यानेन कन्दर्पदर्पघ्न त्वं ममाज्ञया ।अङ्गीकुरुष्व कन्दर्पं भूयो मच्छासने स्थितम् ॥३९॥एकाम्रसंज्ञे मत्पीठे त्विहैव निवसन्सदा ।त्वमेवागत्य मत्प्रीत्यै संनिधौ मम सुव्रत ।गौरीमनुगृहाण त्वं कंपानीरनिवासिनीम् ॥४०॥तापद्वयं जहीह्याशु योगजं तद्वियोगजम् ।इत्युक्त्वान्तर्दधे तस्य हृदये परमा रमा ॥४१॥शिवो व्युत्थाय सहसा धीरः संहृष्टमानसः ।तस्या अनुग्रहं लब्ध्वा सर्वदेवनिषेवितः ॥४२॥हृदिध्यायंश्च तामेव महात्रिपुरसुन्दरीम् ।यद्विलासात्समुत्पन्नं लयं याति च यत्र वै ॥४३॥जगच्चराचरं चैतत्प्रपञ्चद्वितयात्मकम् ।भूषयन्तीं शिवां कम्पामनुकंपार्द्रमानसाम् ॥४४॥अङ्गीकृत्य तदा गौरी वैवाहिकविधानतः ।आदाय वृषमारुह्य कैलासशिखरं ययौ ॥४५॥पुनरन्यं महप्राज्ञं समाकर्णय कुम्भज ।आदिलक्ष्म्याः प्रभावं तु कथयामि तवानघ ॥४६॥सभायां ब्रह्मणो गत्वा समासेदुस्त्रिमुर्त्तयः ।दिक्पालाश्च सुराः सर्वे सनकाद्याश्च योगिनः ॥४७॥देवर्षयो नारदाद्या वशिष्ठाद्याश्च तापसाः ।ते सर्वे सहितास्तत्र ब्रह्मणश्च कपर्दिनः ।द्वयोः पञ्चमुखत्वेन भेदं न विविदुस्तदा ॥४८॥अन्योन्यं पृष्टवन्तस्ते ब्रह्मा कः कश्चशङ्करः ।तेषां संवदतां मध्ये क्षिप्रमन्तर्हितः शिवः ॥४९॥तदा पञ्चमुखो ब्रह्मा सितो नारायणस्तयोः ।उभयोरपि संवादस्त्वहं ब्रह्मेत्यजायत ॥५०॥अ५ अन्नाभिकमलाज्जातस्त्वं यन्ममात्मजः ।सृष्टिकर्ता त्वहं ब्रह्मा नामसाधर्म्यतस्तथा ।त्वं च रुद्रश्च मे पुत्रौ सृष्टिकर्तुरुभौ युवाम् ॥५१॥इति मायामोहितयोरुभयोरन्तरे तदा ।तयोश्च स्वस्य माहात्म्यमहं ब्रह्मेति दर्शयन् ।प्रादुरासीन्महाज्योतिस्तंभरूपो महेश्वरः ॥५२॥ज्ञात्वैवैनं महेशानं विष्णुस्तूष्णीं ततः स्थितः ।पञ्चवक्त्रस्ततो ब्रह्मा ह्यवमत्यैवमास्थितः ।ब्रह्मणः शिरसामूर्ध्वं ज्योतिश्चक्रमभूत्पुरः ॥५३॥तन्मध्ये संस्थितो देवः प्रादुरासोमया सह ।ऊर्ध्वमैक्षथ भूयस्तमवमत्य वचोऽब्रवीत् ॥५४॥तन्निशम्य भृशं क्रोधमवाप त्रिपुरान्तकः ।विष्णुमेवं तदालोक्य क्रोधेनैव विकारतः ॥५५॥तयोरेव समुत्पन्नो भैरवः क्रोधसंयुतः ।मूर्धानमेकं चिच्छेद नखेनैव तदा विधेः ।हाहेति तत्र सर्वेऽपि क्रन्दन्तश्च पलायिताः ॥५६॥अथ ब्रह्मकपालं तु नखलग्नं स भैरवः ।भूयोभूयो धुनोति स्म तथापि न मुमोच तम् ॥५७॥तद्ब्रह्महत्यामुक्त्यर्थं चचार धरणीतले ।पुण्यक्षेत्राणि सर्वाणि गङ्गाद्याश्च महानदीः ॥५८॥न च ताभिर्विमुक्तोऽभूत्कपाली ब्रह्महत्यया ।विषण्णवदनो दीनो निःश्रीक इव लक्षितः ।चिरेण प्राप्तवान्काञ्चीं ब्रह्मणा पूर्वमोषिताम् ॥५९॥तत्र भिक्षामटन्नित्यं सेवमानः परा श्रियम् ।पञ्चतीर्थे प्रतिदिनं स्नात्वा भूलक्षणाङ्किते ॥६०॥कञ्चित्कालमुवासाथ प्रभ्रान्त इव बिल्वलः ।काञ्चीक्षेत्रनिवासेन क्रमेण प्रयताशयः ॥६१॥निर्धूतनिखिलातङ्कः श्रीदेवीं मनसा वान् ।उत्तरे सेवितुं लक्ष्म्या वासुदेवेन दक्षिणे ॥६२॥श्रीकामकोष्ठमागत्य पुरस्तात्तस्य संस्थितः ।आदिलक्ष्मीपदध्यानमाततान यतात्मवान् ॥६३॥यथा दीपो निवातस्थो निस्तरङ्गो यथांबुधिः ।तथान्तर्वायुरोधेन न चचाला चलेश्वरः ॥६४॥तैलधारावदच्छिन्नामनवच्छिन्नभैरवः ।वितेने शैलतनयानाथश्रीध्यानसन्ततिम् ।न ब्रह्मा नैव विष्णुर्वा न सिद्धः कपिलोऽपि वा ॥६५॥नान्ये च सनकाद्या ये मुनयो वा शुकादयः ।तया समाधिनिष्ठायां न समर्थाः कथञ्चन ॥६६॥अथ श्रीभावयोगेन श्रीभावं प्राप्तवाञ्शिवः ।ततः प्रसन्ना श्रीदेवी प्रभामण्डलवर्तिनी ।अर्धरात्रे पुरः स्थित्वा वाचं प्रोवाच वाङ्मयी ॥६७॥श्रीकण्ठ सर्वपापघ्न किं पापं तव विद्यते ।मद्रूपस्त्वं कथं देहः सेयं लोकविडम्बना ॥६८॥श्वोभूते ब्रह्महत्यायाः क्षणान्मुक्तो भविष्यसि ।इत्युक्त्वान्तर्दधे तत्र महासिंहासनेश्वरी ॥६९॥भैरवोऽपि प्रहृष्टात्मा कृतार्थः श्रीविलोकनात् ।विनीय तं निशाशेषं श्रीध्यानैकपरायणः ॥७०॥प्रातः पञ्चमहातीर्थे स्नात्वा सन्ध्यामुपास्य च ।पुनः पुनर्धूनुते स्म करलग्नं कपालकम् ॥७१॥तथापि तत्तु नास्रंसत्स निर्वेदं परं गतः ।स्वप्नः किमेष माया वा मानसभ्रान्तिरेव वा ॥७२॥मुहुरेवं विचिन्त्येशः शोकव्याकुलमानसः ।स्वयमेव निगृह्याथ शोकं धीराग्रणीः शिवः ॥७३॥तुलसीमण्डलं नत्वा पूजयित्वा पुरः स्थितः ।निगृहीतेन्द्रियग्रामः समाधिस्थोऽभवत्पुनः ॥७४॥याममात्रे गते देवी पुनः सांनिध्यमागता ।अलं समाधिना शम्भो निमज्जात्र सरोवरे ॥७५॥इत्या दिश्य तिरोऽधत्त सोऽपि चिन्तामुपागमत् ।इयं च माया स्वप्नो वा किं कर्त्तव्यं मयाथ वा ॥७६॥श्वोभूते ब्रह्महत्यायाः क्षणान्मुक्तो भविष्यसि ।इत्युक्तं श्रीपरादेव्या यामातीतमिदं दिनम् ॥७७॥एवं सर्वं च मिथ्यैवेत्यधिकं चिन्तयावृतः ।भगवान्व्यो मवाण्या तु निमज्जाप्स्विति गर्जितम् ॥७८॥श्रुत्वा शङ्कां समुत्सृज्य तत्त्वं निश्चित्य शङ्करः ।निममज्ज सरस्यां तु गङ्गायां पुनरुत्थितः ॥७९॥तत्र काशीं समालोक्य किमेतदिति चिन्तयन् ।स मुहुर्तं स्थितस्तूष्णीं नखलीनकपालकः ॥८०॥ललाटन्त पमुद्वीक्ष्य तरणिं तरुणोन्दुभृत् ।भिक्षार्थं नगरीमेनां प्रविवेश वशी शिवः ॥८१॥गृहाणि कानिचिद्गत्वा प्रतोल्यां पर्यटन्भवः ।सोऽपश्यदग्रतः काञ्चित्काञ्चीं श्रीदेवताकृतिम् ॥८२॥भिक्षां ज्योतिर्मयीं तस्मै दत्त्वा क्षिप्रं तिरोदधे ।क्षणाद्ब्रह्मकपालं तत्प्रच्युतं तन्नखाग्रतः ॥८३॥तद्दृष्ट्वाद्भुतमीशानः कामाक्षी शीलमुत्तमम् ।प्रसन्नवदनांभोजो बहु मेने मुहुः परम् ॥८४॥पुरी काञ्ची पुरी पुण्या नदी कंपा नदी परा ।देवता सैव कामाक्षीत्यासीत्संभावना पुरः ॥८५॥इत्थं देवीप्रभावेण विमुक्तः संकटाद्धरः ।स्वस्थः स्वस्थानमगमच्छ्लाघमानः परां श्रियम् ॥८६॥पुनरन्यत्प्रवक्ष्यामि विलासं शृणु कुम्भज ।प्रभावं श्रीमहादेव्याः कामदं शृण्वतां सदा ॥८७॥अयोध्याधिपतिः श्रीमान्नाम्ना दशरथो नृपः ।सन्तानरहितोऽतिष्ठद्बहुकालं शुचाकुलः ॥८८॥रहस्याहूय मतिमान्वशिष्ठं स्वपुरोहितम् ।उवाचाचारसंशुद्धः सर्वशास्त्रार्थवेदिनम् ॥८९॥श्रीनाथ बहवोऽतीताः कालानाधिगतः सुतः ।संततेर्मम संतापः संततं वर्धतेतराम् ।किं कुर्वे यदि संतानसंपत्स्यात्तन्निवेदय ॥९०॥वशिष्ठ उवाचमम वंश महाराज रहस्यं कथयामि ते ।अयोध्या मथुरा माया काशी काञ्ची ह्यवन्तिका ।एता पुण्यतमाः प्रोक्ताः पुरीणामुत्तमोत्तमाः ॥९१॥अस्याः सांनिध्यमात्रेण महात्रिपुरसुन्दरीम् ।अर्चयन्ति ह्ययोध्यायां मनुष्या अधिदेवताम् ॥९२॥नैतस्याः सदृशी काचिद्देवता विद्यते परा ।एनामेवर्चयन्त्यन्ये सर्वे श्रीदेवतां नृप ॥९३॥ब्रह्मविष्णुमहेशाद्याः सस्त्रीकाः सर्वदा सदा ।नारिकेलफलालीभिः पनसैः कदलीफलैः ॥९४॥मध्वाज्यशर्कराप्राज्यैर्महापायसराशिभिः ।सिद्धद्रव्यविशेषैश्च पूजयेत्त्रिपुरांबिकाम् ।अभीष्टमचिरेणैव संप्रदास्यति सैव नः ॥९५॥इत्युक्तवन्तमभ्यर्च्य गुरुमिष्टैरुपायनैः ।स्वाङ्गजप्राप्तये भूयो विससर्ज विशांपतिः ॥९६॥ततो गुरूक्तरीत्यैव ललितां परमेश्वरीम् ।अर्चयामास राजेन्द्रो भक्त्या परमया युतः ॥९७॥एवं प्रतिदिनं पूजां विधाय प्रीतमानसः ।अयोध्यादेवताधामामशिषत्तत्र सङ्गतः ॥९८॥अर्धरात्रे व्यतीते तु निभृतोल्लासदीपिके ।किञ्चिन्निद्रालसस्यास्य पुरतस्त्रिपुरांबिका ॥९९॥पाशाङ्कुशधनुर्बाणपरिष्कृतचतुर्भुजा ।सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता ।स्थित्वा वाचमुवाचेमां मन्दमिन्दुमतीसुतम् ॥१००॥अस्ति पङ्क्तिरथ श्रीमन्पुत्रभाग्यं तवानघ ।विश्वासघातकर्माणि संति पूर्वकृतानि ते ॥१०१॥तादृशां कर्मणां शान्त्यै गत्वा काञ्चीपुरं वरम् ।स्नात्वा कम्पासरस्यां च तत्र मां पश्य पावनीम् ॥१०२॥मध्ये काञ्चीपुरस्य त्वं कन्दराकाशमध्यगम् ।कामकोष्ठं विपाप्मापि सप्तद्वारबिलान्वितम् ॥१०३॥साम्राज्यसूचकं पुंसां त्रयाणामपि सिद्धिदम् ।प्राङ्मुखी तत्र वर्तेऽहं महासिंहासनेश्वरी ॥१०४॥महालक्ष्मीस्वरूपेण द्विभुजा पद्मधारिणी ।चक्रेश्वरी महाराज्ञी ह्यदृश्या स्थूलचक्षुषाम् ॥१०५॥ममाक्षिजा महागौरी वर्तते मम दक्षिणे ।सौन्दर्यसारसीमा सा सर्वाभरणभूषिता ॥१०६॥मया च कल्पिताऽवासा द्विभुजा पद्मधारिणी ।महालक्ष्मीस्वरूपेण किं वा कृत्यात्मना स्थिता ॥१०७॥आपीठमौलिपर्यन्तं पश्य तस्तां ममांशजाम् ।पातकान्याशु नश्यन्ति किं पुनस्तूपपातकम् ॥१०८॥कुवासना कुबुद्धिश्च कुतर्कनिचयश्च यः ।कुदेहश्च कुभावश्च नास्तिकत्वं लयं व्रजेत् ॥१०९॥कुरुष्व मे महापूजां सितामध्वाज्यपायसैः ।विविधैर्भक्ष्यभोज्यैश्च पदार्थैः षड्रसान्वितैः ॥११०॥तत्रैव सुप्रसन्नाहं पूरयिष्यामि ते वरम् ।उपदिश्येति सम्राज्ञी दिव्यमूर्तिस्तिरोदधे ॥१११॥राजापि सहसोत्थाय किमेतदिति विस्मितः ।देवीमुद्बोध्य कौसल्यां शुभलक्षणलक्षिताम् ॥११२॥तस्यै तद्रात्रिवृत्तान्तं कथयामास सादरम् ।तत्समा कर्ण्य सा देवी सन्तोषमभजत्तदा ॥११३॥प्राप्तहर्षो नृपः प्रातस्तया दयितया सह ।अनीकसचिवोपेतः काञ्चीपुरमुपागमत् ॥११४॥स्नात्वा कंपातरङ्गिण्यां दृष्ट्वा देवीं च पावनीम् ।पञ्चतीर्थे ततः स्नात्वा देव्या कौसल्यया नृपः ॥११५॥गोभूवस्त्र हिरण्याद्यैस्तत्तीर्थक्षेत्रवासिनः ।प्रीणयित्वा सपत्नीकस्तथा तद्भक्तिपूजकान् ॥११६॥अथालयं समाविश्य महाभक्त्या नृपोत्तमः ।प्रदक्षिणत्रयं कृत्वा विनयेन समन्वितः ॥११७॥ततः संनिधिमागत्य देव्या कौसल्यया सह ।श्रीकामकोष्ठनिलयं महात्रिपुरसुन्दरीम् ॥११८॥त्रिमूर्तिजननीमंबां दृष्ट्वा श्रीचक्ररूपिणीम् ।प्रणिपत्य तु साष्टाङ्गं भार्यया सह भक्तिमान् ॥११९॥स्वपुरे त्रैपुरे धाम्नि पुरेक्ष्वाकुप्रवर्तिते ।दुर्वासा सशिष्येण पूजार्थं पूर्वकल्पिते ॥१२०॥दासीदासध्वजारोहगृहोत्सवसमन्विते ।तत्र स्वगुरुणोक्तं च कृत्वा स्वात्मार्घपूजनम् ॥१२१॥रात्रौ स्वप्ने तु यद्रूपं दृष्टवान्स्वपुरे महः ।तदेवात्रापि संदध्यौ सन्निधौ राजसत्तमः ॥१२२॥चिरं ध्यात्वा महाराजः सुवासांसि बहूनि च ।दिव्यान्यायतनान्यस्यै दत्त्वा स्तोत्रं चकार ह ॥१२३॥पादाग्रलंबिपरमाभरणाभिरामेमञ्जीररत्नरुचिमञ्जुलपादपद्मे ।पीतांबरस्फुरितपेशलहेमकाञ्चि केयूरकङ्कणपरिष्कृतबाहुवल्लि ॥१२४॥पुण्ड्रेक्षुचापविलसन्मृदुवामपाणे रत्नोर्मिकासुमशराञ्चितदक्षहस्ते ।वक्षोजमण्डलविलासिवलक्षहारि पाशाङ्कुशाङ्गदलसद्भुजशोभिताङ्गि ॥१२५॥वक्त्रश्रिया विजितशारदचन्द्रबिंबे ताटङ्करत्नकरमण्डितगण्डभागे ।वामे करे सरसिजं सुबिसं दधाने कारुण्यनिर्झरदपाङ्गयुते महेशि ॥१२६॥माणिक्यसूत्रमणिभासुरकंबुकण्ठि भालस्थचन्द्रशकलोज्जवलितालकाढ्ये ।मन्दस्मितस्फुरणशालिनि मञ्जुनासे नेत्रश्रिया विजितनीलसरोजपत्रे ॥१२७॥सुभ्रूलते सुवदने सुललाटचित्रे योगीन्द्रमानससरोजनिवासहंसि ।रत्नानुबद्धतपनीयमहाकिरीटे सर्वाङ्गसुन्दरि समस्तसुरेन्द्रवन्द्ये ॥१२८॥काङ्क्षानुरूपवरदे करुणार्द्रचित्ते साम्राज्यसम्पदभिमानिनि चक्रनाथे ।इन्द्रादिदेवपरिसेवितपादपद्मे सिंहासनेश्वरी परे मयि संनिदध्याः ॥१२९॥इति स्तत्वा स भूपालो बहिर्निर्गत्य भक्तितः ।तस्यास्तु दक्षिणे भागे महागौरीं ददर्श ह ॥१३०॥प्रणम्य दण्डवद्भूमौ कृत्वा चास्याः स्तुतिं पुनः ।दत्त्वा चास्यै महार्हाणि वासांसि विविधानि च ॥१३१॥अमुल्यानि महार्हाणि भूषणानि महान्ति च ।ततः प्रदक्षिणीकृत्य निर्गत्य सह भार्यया ॥१३२॥स्वगुरूक्तविधानेन महापूजां विधाय च ।तामेव चिन्तयंस्तत्र सप्तरात्रमुवास सः ॥१३३॥अष्टमे दिवसे देवीं नत्वा भक्त्या विलोकयन् ।अम्बाभीष्टं प्रदेहीति प्रार्थयामास चेतसा ॥१३४॥सुप्रसन्ना च कामाक्षी सांतरिक्षगिरावदत् ।भविष्यन्ति मदंशास्ते चत्वारस्तनया नृप ॥१३५॥इत्युदीरितमाकर्ण्य प्रमोदविकसन्मुखः ।श्रियं प्रणम्य साष्टाङ्गमननन्यशरणः पराम् ॥१३६॥आमन्त्र्य मनसैवांबां सस्त्रीकः सह मन्त्रिभिः ।अयोध्यां नगरीं प्रापदिन्दुमत्यास्तु नन्दनः ॥१३७॥एवं प्रभावा कामाक्षी सर्वलोकहितैषिणी ।सर्वेषामपि भक्तानां काङ्क्षितं पूरयत्यलम् ॥१३८॥एनां लोकेषु बहवः कामाक्षीं परदेवताम् ।उपास्य विधिवद्भक्त्या प्राप्ताः कामानशेषतः ॥१३९॥अद्यापि प्राप्नुवन्त्येव भक्तिमन्तः फलं मुने ।अनेके च भविष्यन्ति कामाक्ष्याः करुणादृशः ॥१४०॥माहात्म्यमस्याः श्रीदेव्याः को वा वर्णयितुं क्षमः ।नाहं न शम्भुर्न ब्रह्मा न विष्णुः किमुतापरे ॥१४१॥इति ते कथितं किञ्चित्कामाक्ष्याः शीलमुज्ज्वलम् ।शृण्वतां पठतां चापि सर्वपापहरं स्मृतम् ॥१४२॥इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने चत्वारिंशोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP