संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः| अथ श्रीशांतिः प्रथमांशुः ग्रन्थोद्देशः गणपतिपूजनं पुण्याहवाचनं च मातृकापूजनम् नांदीश्राद्धम् अग्निमुखम् ग्रहयज्ञः भुवनेश्वरीशांतिः गर्भाधानम् पुंसवनप्रयोगः सीमंतोन्नयनप्रयोगः वस्त्रदानं जातकर्म षष्ठीपूजनम् नामकरणम् आंदोलारोहणम् कर्णवेधः तांबूलभक्षणम् निष्क्रमणम् भूम्युपवेशनम् अन्नप्राशनम् बालस्य दृष्टिदोषादौ रक्षाविधिः वर्धापनम् चौलम् विद्यारम्भः छूरिकाबंधः मौजीबंधनकारिकाः मौंजीबंधनप्रयोगः मौंजीबंधनांगभूतः सायंहोमः मेधाजननम् देवकोत्थापनम् मौंजीविसर्जनम् स्नातकधर्माः दत्तपुत्रप्रतिग्रहविधिः विवाहविधिः सप्रयोगः मुहूर्तमेथिकास्थापनं देवकस्थापनम् वरस्य वधूगृहगमनम् वरस्य सीमांतपूजनम् घटिकास्थापनम् गौरीहरपूजा मधुपर्कः मुहूर्तपत्रिकापूजनादि अक्षतारोपणम् कन्यादानम् विवाहहोमः ऐरिणीदानम् वधूवस्त्रदानम् वधूगृहप्रवेशः नाम - लक्ष्मी - पूजनम् आशीर्वादमंत्राः देवकोत्थापनम् अथ द्विरागमनम् अर्कविवाहः अथ श्रीशांतिः प्रथमांशुः - अथ श्रीशांतिः ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : poojaपूजासंस्कृत अथ श्रीशांतिः Translation - भाषांतर विवाहादौ नांदीश्राद्धात्प्राड नांदीश्राद्धोत्तरं वा रजोदोषे श्रीशांतिं कृत्वा विवाहादि कार्यमिति धर्माब्धावुक्तं तदनुसार्ययं श्रीशांतिप्रयोगः ॥ कर्ता आचम्य पवित्रपाणिर्देशकालौ संकीर्त्य मम पुत्रस्य कन्याया वा करिष्यमाणविवाहे मद्भार्यारजोदोषसमुपस्थितसर्वारिष्टपरिहारद्वारा सन्निहितमुहूर्ते विवाहाकरणादिसिद्ध्यर्थं श्रीशांतिं करिष्ये । तदंगतयाऽऽदौ गणेशपूजनं पुण्याहवाचनं आचार्यवरणं च करिष्ये इति संकल्प्य गणपतिपूजनादि कृत्वा आचार्यं वृणुयात् । तत आचार्यः स्वीयं कर्म संकल्प्य सर्षपविकिरणादिभूप्रादेशांतं कुर्यात् । ततः प्राच्यां गोमयोपलिप्ते शुद्धदेशे सर्वेषामाश्रया भूमिरित्यादिविधिना कलशं संस्थाप्य तदुपरि पूर्णपात्रं निधाय । तत्र सुवर्णप्रतिमासु पूगीफले वा देवतास्थापनं कुर्यात् । तद्यथा - प्रतप्तस्वर्णवर्णाभां दिव्यालंकारभूषिताम् । पद्मासनां पद्महस्तां श्रियं देवीं नमाम्यहम् । श्रियै नमः श्रियं सांगां सपरिवारां सायुधां सशक्तिकामावाहयामि ॥ विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् । अनेकरुपं दैत्यांतं नमामि पुरुषोत्तमम् । विष्णवे नमः विष्णुं सांगं सपरिवारं० । सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यंबके गौरी नारायणि नमोऽस्तुते ॥ गौर्यै नमः गौरीं सांगां० ॥ रुद्रो देवो वृषारुढश्चतुर्बाहुस्त्रिलोचनः । त्रिशूलखट् वावरदाभयपाणिर्नमामि ते ॥ रुद्राय नमः रुद्रं सांगं० ॥ दंडहस्तं यमं देवं महामहिषवाहनम् । वैवस्वतं पितृपतिं तं नमामि महाबलम् । यमाय० यमं सांगं० ॥ इत्यावाह्य कांडानुसमयेन पदार्थानुसमयेन वाऽऽ वाहितदेवताः षोडशोपचारैः पूजयेत् । ततः स्थंडिले वरदनामानमग्निं प्रतिष्ठाप्य ध्यात्वा अन्वाधानं कुर्यात् । देशकालौ स्मृत्वा समिदद्वयमादाय क्रियमाणे श्रीशांतिहोमे देवतापरिग्रहार्थमित्यादिचक्षुष्यंतमुक्त्वा अत्र प्रधानं - श्रियं प्रतिद्रव्यं अष्टोत्तरशतसंख्यातिलाज्याहुतिभिः ( यद्वा पायसप्रतिनिधिक्षीराक्ततंडुलाहुतिभिरित्येकमेव द्रव्यग्रहणम् ) शेषेण स्विष्टकृतमित्यादि होमं समाप्य ततो देवतानामुत्तरपूजां कृत्वा स्थापितकलशोदकेन यजमानमभिषिंचेत् । ततो यजमानः देशकालौ स्मृत्वा कृतस्य श्रीशांतिकर्मणः सांगतासिद्ध्यर्थं आचार्यपूजनं देवताग्निपूजनं च करिष्ये इति संकल्प्य आचार्यं संपूज्य । यज्ञसाधनभूताया विश्वस्याघौघनाशिनी । विश्वरुपधरो देवः प्रीयतामनया गवा ॥ एतत्कृतस्य शांतिकर्मणः सांगता सिद्ध्यर्थं गोद्वयं ( यद्वा तन्निष्क्रयीभूतद्रव्यं ) अमुकशर्मणे आचार्याय तुभ्यमहं संप्रददे न ममेति दद्यात् । ततो देवताः संपूज्य विसृज्य च तत्पीठमाचार्याय दत्त्वाऽग्निं संपूज्य विभूतिं धृत्वा आज्यमवलोक्य आमान्नादिना ब्राह्मणान् संतर्प्य यस्य स्मृत्येति कर्मेश्वरार्पणं कुर्यात् ॥ इति साधले इत्युपाद्दमाणग्रामनिवासि विद्वद्वर्यमहादेवात्मजदिवाकरकृते कृत्यदिवाकरे प्रथमांशौ श्रीशांतिप्रयोगः ॥॥ इति श्रीकृत्यदिवाकरे प्रथमांशुः समाप्तः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP