संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः| ऐरिणीदानम् प्रथमांशुः ग्रन्थोद्देशः गणपतिपूजनं पुण्याहवाचनं च मातृकापूजनम् नांदीश्राद्धम् अग्निमुखम् ग्रहयज्ञः भुवनेश्वरीशांतिः गर्भाधानम् पुंसवनप्रयोगः सीमंतोन्नयनप्रयोगः वस्त्रदानं जातकर्म षष्ठीपूजनम् नामकरणम् आंदोलारोहणम् कर्णवेधः तांबूलभक्षणम् निष्क्रमणम् भूम्युपवेशनम् अन्नप्राशनम् बालस्य दृष्टिदोषादौ रक्षाविधिः वर्धापनम् चौलम् विद्यारम्भः छूरिकाबंधः मौजीबंधनकारिकाः मौंजीबंधनप्रयोगः मौंजीबंधनांगभूतः सायंहोमः मेधाजननम् देवकोत्थापनम् मौंजीविसर्जनम् स्नातकधर्माः दत्तपुत्रप्रतिग्रहविधिः विवाहविधिः सप्रयोगः मुहूर्तमेथिकास्थापनं देवकस्थापनम् वरस्य वधूगृहगमनम् वरस्य सीमांतपूजनम् घटिकास्थापनम् गौरीहरपूजा मधुपर्कः मुहूर्तपत्रिकापूजनादि अक्षतारोपणम् कन्यादानम् विवाहहोमः ऐरिणीदानम् वधूवस्त्रदानम् वधूगृहप्रवेशः नाम - लक्ष्मी - पूजनम् आशीर्वादमंत्राः देवकोत्थापनम् अथ द्विरागमनम् अर्कविवाहः अथ श्रीशांतिः प्रथमांशुः - ऐरिणीदानम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : poojaपूजासंस्कृत ऐरिणीदानम् Translation - भाषांतर तच्च चतुर्थदिने भद्रादिरहितायां रात्रौ भद्रासंभवे दिवैव वा कार्यम् । सवस्त्रफलतांबूलं पक्कान्नैः पूरितं वंशपात्रं सदीपं ऐरिणीरुपं संपाद्य सभार्यः कन्यादाता आचम्य देशकालौ स्मृत्वा मम कन्यकायाः कृतविवाहस्य संपूर्णफलावाप्तये वरस्य तत्पितृमात्रादीनां तत्पक्षीयाणां च यथाविभवं पूजनमहं करिष्ये । तथा ममोमामहेश्वरप्रीतिद्वारा कन्यादानफलप्राप्तये वंशाभिवृद्धये च ऐरिणीपूजनं वरमात्रे ऐरिणीदानं वसंतपूजनं ऐरावतपूजनं च करिष्ये । तात्रादौ गणपतिपूजां करिष्ये इति संकल्प्य गणपतिं संपूज्य वरस्य तत्पितृमात्रादीनां पाद्यादिभिर्यथाविभवं पूजां कृत्वा ऐरिणीं पूजयेत् - ऐरिणी त्वमुमादेवी तवेशो गिरिजापतिः । अतस्त्वां पूजयिष्यामि ऐरिणीं सर्वकामदाम् ॥ सवस्त्रां च सदीपां च शूर्पे षोडशभिर्युताम् । वरमात्रे प्रदास्यामि कन्यादानस्य सिद्धये ॥ इति पठित्वा ‘ उमामहेश्वराभ्यां नमः ध्यायामि ’ इत्यादिमंत्रपुष्पांजल्यंत षोडशोपचारैर्वंशपात्रे उमामहेश्वरौ संपूज्य वंशपात्रे वरमात्रे तत्समायै वा दत्त्वेमान्मंत्रान् पठेत् - वंशो वंशकरः श्रेष्ठो वंशो वंशसमुद्भवः । अनेन वंशदानेन तुष्टो ऋद्धिं करोतु मे ॥ वंशपात्रमिदं पुण्यं वंशजातसमुद्भवम् । वंशानामुत्तमं दानमतः शांतिं प्रयच्छ मे ॥ वंशपात्राणि सर्वाणि मया संपादितानि वै । उमाकांताय दत्तानि मम गोत्राभिवृद्धये ॥ वंशवृद्धिकरं दानं सौभाग्यादिसमन्वितम् । वस्त्रेणाच्छादितं पूगफलहेमसमन्वितम् ॥ सर्वपापक्षयकरं नानाद्रव्यैस्तु पूरितम् । दानानामुत्तमं दानमतः शांतिं प्रयच्छ मे ॥ ततस्तत्पात्रं सवस्त्रं सदीपं वधूवरयोस्तत्पित्रादिपक्षीयाणां च शिरसि निधायोत्तारयेदित्याचारः । वसंतपूजनं कृताकृतम् । तद्यथा रंगवल्ल्यादियुतभूमौ मध्ये पंचवर्णैः स्वस्तिकं तच्चतुर्दिक्षु चत्वारि स्वस्तिकानि च कृत्वा तेषु तंदुलराशीन्प्रकल्प्य तत्तदुपरिमध्ये ईशानादिचतुर्दिक्षु चाक्षतयुतपंचकलशान्निधाय तान्कौसुंभसूत्रेण ग्रथयित्वा मुखेष्वाम्रपल्लवान्निधाय तदुपरि घृतपाचितपोलिकाः संस्थाप्य तदुपरि प्रत्येकं पंच पंच द्वौ द्वौ वा दीपान् निधाय तत्र वसंतं पूजयेत् । तत्र मंत्रौ - इंद्रादिदेवतानां च प्रीतिदो नंदवर्धनः । कालरुपी स विश्वात्मा वसंतः कामदोऽस्तु मे ॥ प्रसूनदेहरुपाय ह्यनंगत्राणकारक । कालरुपाय देवाय वसंताय नमो नमः ॥ ‘ वसंतरुपींद्राय नमः ध्यायामि ’ इत्येवं प्रकारेणावाहनादिषोडशोपचारैः संपूज्य पूर्वोक्तमंत्राभ्यां संप्रार्थ्य नमस्कुर्यात् । ततो वरपक्षसुवासिनीः सकंचुकीवस्त्रयुगमंगलसूत्रयुतमण्यलंकारादिभिर्यथाविभवं कन्यां पूजयेत् । तत्र वस्त्रदानमंत्रः प्रागुक्तोऽनुसंधेयः । ततो वरस्तत्मूत्रं - मांगल्यतंतुनाऽनेन मम जीवनहेतुना । कंठे बध्नामि सुभगे सा जीव शरदां शतम् - इति मंत्रेण वधूकंठे बध्नीयात् । ततः ऐरावतौ पूजयेत् [ तच्च कृताकृतं ] देशकालौ स्मृत्वा अनयोर्वधूवरयोः सुखसौभाग्यपुत्रपौत्राद्यभिवृद्ध्यर्थं ऐरावतपूजां करिष्ये इति संकल्प्य गोधूमनिर्मितं प्राक्शिरसं उत्तरभागस्थमुदड्मुखं मत्तमातंगसंज्ञकं यथाविभवं वस्त्रादिभिः पूजयेत् ‘ मत्तमातंगाय नमः ’ ध्यायामि इत्येवं नाम्ना संपूज्य प्रार्थयेत् - ऐरावत महाभाग मत्तमातंगसंज्ञक । वरवध्वोः सुखप्राप्त्यै प्रसन्नो भव सर्वदा ॥ इति प्रार्थ्य नमस्कुर्यात् । ततो लवणनिर्मितं प्राक्शिरसमुदड्मुखं दक्षिणभागस्थं भद्रमातंगं तथैव ‘ भद्रमातंगाय नमः ’ इति मंत्रेण पंचोपचारैः संपूज्य - नागानामिह नागेश भद्रमातंगसंज्ञक । वरवध्वोः सुखप्राप्त्यै प्रसन्नो भव सर्वदा । इति प्रार्थयेत् ॥ ततो वरो मत्तमातंगे प्राड्मुखस्तिष्ठेत् । कन्यापि भद्रमातंगे उत्तराभिमुखी तिष्ठेत् । ततो वरो वधूं वामहस्ते धृत्वा पश्चाद्भागेनानीय मत्तमातंगेऽवस्थाप्य स्वयं मत्तमातंगात्प्राग्भागेन गत्वा भद्रमातंगे स्थित्वा - ‘ अस्याः मम पत्न्याः सौभाग्यपुत्रपौत्राद्यभिवृद्ध्यर्थं नानानामगोत्रेभ्यो ब्राह्माणेभ्यः सुवासिनीभ्यश्च वायनदानानि दातुमहमुत्सृजे ’ इति संकल्प्य ब्राह्मणान् संपूज्य तेभ्यो दद्यात् । ततो यथाशक्त्यन्येभ्यो भूयसीं दक्षिणां दत्त्वा कर्मेश्वरार्पणं कृत्वा वरांके कन्यामुपवेशयेत् । अष्टवर्षा त्वियं कन्या पुत्रवत् पालिता मया । इदानीं तु मया दत्ता तुभ्यं स्नेहेन पाल्यताम् - इति मंत्रेण ॥ ( कन्यावयोमानेनात्र सर्वत्र नवदशैकादशषोडशविंशवर्षेति विशेषः ) । तथैव वरपितृमात्रुत्संगयोः पृथक्पृथगुपवेश्य पृथक् तौ प्रार्थवेदेवं - अष्टवर्षा त्वियं कन्या पुत्रवत् पालिता मया । इदानीं तव पुत्राय दत्ता स्नेहेन पाल्यताम् ॥ ( वसंतपूजनं गजपूजनं च शिष्टाचारगत, न सर्वत्र । कृताकृते ते ) ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP