संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः| अर्कविवाहः प्रथमांशुः ग्रन्थोद्देशः गणपतिपूजनं पुण्याहवाचनं च मातृकापूजनम् नांदीश्राद्धम् अग्निमुखम् ग्रहयज्ञः भुवनेश्वरीशांतिः गर्भाधानम् पुंसवनप्रयोगः सीमंतोन्नयनप्रयोगः वस्त्रदानं जातकर्म षष्ठीपूजनम् नामकरणम् आंदोलारोहणम् कर्णवेधः तांबूलभक्षणम् निष्क्रमणम् भूम्युपवेशनम् अन्नप्राशनम् बालस्य दृष्टिदोषादौ रक्षाविधिः वर्धापनम् चौलम् विद्यारम्भः छूरिकाबंधः मौजीबंधनकारिकाः मौंजीबंधनप्रयोगः मौंजीबंधनांगभूतः सायंहोमः मेधाजननम् देवकोत्थापनम् मौंजीविसर्जनम् स्नातकधर्माः दत्तपुत्रप्रतिग्रहविधिः विवाहविधिः सप्रयोगः मुहूर्तमेथिकास्थापनं देवकस्थापनम् वरस्य वधूगृहगमनम् वरस्य सीमांतपूजनम् घटिकास्थापनम् गौरीहरपूजा मधुपर्कः मुहूर्तपत्रिकापूजनादि अक्षतारोपणम् कन्यादानम् विवाहहोमः ऐरिणीदानम् वधूवस्त्रदानम् वधूगृहप्रवेशः नाम - लक्ष्मी - पूजनम् आशीर्वादमंत्राः देवकोत्थापनम् अथ द्विरागमनम् अर्कविवाहः अथ श्रीशांतिः प्रथमांशुः - अर्कविवाहः ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : poojaपूजासंस्कृत अर्कविवाहः Translation - भाषांतर कश्यपः - उद्वहेद्भूतिसिद्ध्यर्थं तृतीयां न कदाचन । मोहादज्ञानतो वापि यदि गच्छेत्तु मानुषीम् ॥ तृतीयां यदि चोद्वाहेत्तर्हि सा विधवा भवेत् । चतुर्थादिविवाहार्थं तृतीयेऽर्कं समुद्वहेत् ॥तत्प्रयोगः - वरः शुभे दिने ग्रामाद्बहिः प्राच्यामुदीच्यां वार्कसमीपं गत्वा आचम्य देशकालौ संकीर्त्य मम भावि तृतीयमानुषीपरिणयनस्य शुभतासिद्ध्यर्थं अर्कविवाहं करिष्ये तदंगतयाऽऽदौ गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं आचार्यवरणं च करिष्ये इति संकल्प्य तान्याचार्यवरणांतानि कुर्यात् । ततो वरोऽर्कपुरतस्तिष्ठन् सूर्यं प्रार्थयेत् - त्रिलोकवासिन् सप्ताश्व च्छायया सहितो रवे । तृतीयोद्वाहजं दोषं निवारय सुखं कुरु ॥ ततोऽर्कवृक्षे छायासहितं सूर्यं - एकचक्ररथो यस्य दिव्यः कनकभूषणः । स मे भवतु सुप्रीतः पद्महस्तो दिवाकरः ॥ इति मंत्रेण अर्कवृक्षे ‘ सच्छायं सूर्यं सांगं सपरिवारं सायुधं सशक्तिकं आवाहयामि ’ इत्येवं मंत्रेण षोडशोपचारैः संपूजयेत् । तत्र वस्त्रदानकाले वस्त्रेण तंतुभिश्च अर्कं संवेष्टयेत् । तत आचार्योऽद्येत्यादि संकल्प्य अर्कविवाहांगत्वेन वरं मधुपर्केण पूजयिष्ये इति संकल्प्य वरं मधुपर्केण गंधमाल्यवस्त्रभूषणोष्णीषाद्यैः पूजयेत् । ततो वरोऽर्कं प्रदक्षिणीकुर्वन् - मम प्रीतिकरा येयं मया स्पृष्टा पुरातनी । अर्कजा ब्रह्मणा सृष्टा ह्यस्माकं प्रतिरक्षतु - इति जपेत् ॥ पुनः प्रदक्षिणां कुर्वन् - नमस्ते मंगले देवि नमः सवितुरात्मजे । त्राहि मां कृपया देवि पत्नी त्वं मे इहागता ॥ अर्क त्वं ब्रह्मणा सृष्टः सर्वप्राणिहिताय च । वृक्षाणामादिभूतस्त्वं देवानां प्रीतिवर्धनः । तृतीयोद्वाहजं दोषं मृत्युं चापि विनाशय - इति जपेत् ॥ ततः ‘ कन्यां ’ प्रयच्छ इत्याचार्यं प्रार्थयेत् । तत आचार्यः - काश्यपगोत्रोत्पन्नां आदित्यप्रपौत्रीं सवितुः पौत्रीं सूर्यस्य पुत्रीं अर्कनाम्नीं कन्यां अमुकगोत्रोत्पन्नाय अमुकप्रपौत्राय अमुकपौत्राय अमुकपुत्राय अमुकनाम्ने वराय दास्ये । इति वाग्दानं कुर्यात् ॥ ततो वरोंऽतःपटधारणपूर्वकं अर्ककन्यां सुमुहूर्ते निरीक्ष्य - करोतु स्वस्ति ते ब्रह्मेत्यादि मंत्रान् पठेत् । तत आचार्यो वाग्दानवद्गोत्रमुच्चार्य अमुकनाम्ने वराय इमामर्ककन्यां तुभ्यमहं संप्रददे न मम इति वरहस्ते जलं दद्यात् । अर्ककन्यामिमां वर्मन् यथाशक्ति विभूषिताम् । गोत्राय वर्मणे तुभ्यं दत्तां वर्मन् समाश्रय - इति मंत्रं पठेत् ॥ तत आचार्यो वरस्य सूत्रेण कंकणबंधन कृत्वा अर्ककन्याप्रतिनिधित्वेनाक्षतारोपणं विवाहमंत्रैः कुर्यात् । वरोपि अर्के तदुक्तमंत्रैः कुर्यात् । ततो वरो ‘ नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिः स्थितिनाशहेतवे । त्रयीमयाय त्रिगुणात्मधारिणे विरिंचिनारायणशंकरात्मने ’ इति मंत्रेणार्कं सूत्रेण पंचवारं संवेष्ट्य तेन सूत्रेणार्कस्य स्कंधे बध्नीयात् । तत्र मंत्रः - येन बद्धो बलीराजा दानवेंद्रो महाबलः । तेन त्वामपि बध्नामि रक्षे मा चल मा चल इति ॥ ततो वर आचार्यो वाऽर्कस्याष्टदिक्षु अष्टौ कलशान् संस्थाप्य कलशकंठान् वस्त्रेण सूत्रेण वा संवेष्ट्य हरिद्रां निक्षिप्य सर्वेषु विष्णुं संपूज्य पूर्वकलशे विष्णुप्रतिमां संस्थाप्य पूजयित्वा अर्कोत्तरतोऽग्निं बलवर्धननामानं प्रतिष्ठाप्यान्वादध्यात् । देशकालौ स्मृत्वा समिदद्वयमादाय क्रियमाणे अर्कविवाहहोमे देवतापरिग्रहार्थमित्यादिआघारदेवते अज्येनेत्यंतमुक्त्वाऽत्रप्रधानं - बृहस्पतिं, अग्निं अग्निं वायुं सूर्यं प्रजापतिं चाज्येन यक्ष्ये । शेषेण स्विष्टकृतमित्याद्याज्यभागांतं कृत्वा प्रधानहोमं कुर्यात् । देवानां च ऋषीणां च गुरुं कांचनसंनिभम् । बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥ बृहस्पतये नमः बृहस्पतय इदं० ॥ अग्ने त्वं नः शिवस्राता वसुदाता सदा भव । नमस्ते यज्ञपुरुष हुतभुग्घव्यवाहन ॥ अग्नये नमः अग्नय इदं० ॥ पुनः अग्नये न० अग्नय इ० वायवे० वायव इ० सूर्याय० सूर्यायेदं० प्रजापतये० प्रजापतय इ० । ततः - समधिकमपि हीनं जातमस्मिन्क्रतौ यद्भवतु सुकृतमग्ने तद्धि सर्वं सुपूर्णम् । प्रचुरदयितदात्रे स्विष्टकृत्तो जुहोमीदमथ सकलकामान् वर्धय त्वं सदा मेति मंत्रेण स्विष्टकृतं हुत्वा इध्मसन्नहनं हुत्वा प्रायश्चित्तादि कर्मशेषं समापयेत् । ततो वरः - मम प्रीतिकरा येयमिति पूर्वोक्तमंत्रेणार्कं त्रिः प्रदक्षिणीकृत्य - मया कृतमिदं कर्म स्थावरेषु जरायुणा । अर्कापत्यानि नो देहि तत्सर्वं क्षंतुमर्हसि । इति प्रार्थयेत् ॥ ततोऽर्कस्थसूर्यं विसृज्य आचार्याय गोयुग्मं दत्त्वाऽयथाशक्ति भूयसीं दक्षिणां दत्त्वा विष्णुप्रतिमामांचांर्याय दत्त्वा पुण्याहवाचनं विधिवत्कृत्वा मंत्रैः पाठयित्वा वा पुनरर्के सूर्यं संपूज्य विसृज्य मानुषीं परिणयेत् ॥ ॥ ॥ ॥ इति माणग्रामनिवासिविद्वद्वर्यमहादेवात्मजदिवाकरकृते कृत्यदिवाकरे प्रथमांशौ अर्कविवाहप्रयोगः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP