संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः| देवकोत्थापनम् प्रथमांशुः ग्रन्थोद्देशः गणपतिपूजनं पुण्याहवाचनं च मातृकापूजनम् नांदीश्राद्धम् अग्निमुखम् ग्रहयज्ञः भुवनेश्वरीशांतिः गर्भाधानम् पुंसवनप्रयोगः सीमंतोन्नयनप्रयोगः वस्त्रदानं जातकर्म षष्ठीपूजनम् नामकरणम् आंदोलारोहणम् कर्णवेधः तांबूलभक्षणम् निष्क्रमणम् भूम्युपवेशनम् अन्नप्राशनम् बालस्य दृष्टिदोषादौ रक्षाविधिः वर्धापनम् चौलम् विद्यारम्भः छूरिकाबंधः मौजीबंधनकारिकाः मौंजीबंधनप्रयोगः मौंजीबंधनांगभूतः सायंहोमः मेधाजननम् देवकोत्थापनम् मौंजीविसर्जनम् स्नातकधर्माः दत्तपुत्रप्रतिग्रहविधिः विवाहविधिः सप्रयोगः मुहूर्तमेथिकास्थापनं देवकस्थापनम् वरस्य वधूगृहगमनम् वरस्य सीमांतपूजनम् घटिकास्थापनम् गौरीहरपूजा मधुपर्कः मुहूर्तपत्रिकापूजनादि अक्षतारोपणम् कन्यादानम् विवाहहोमः ऐरिणीदानम् वधूवस्त्रदानम् वधूगृहप्रवेशः नाम - लक्ष्मी - पूजनम् आशीर्वादमंत्राः देवकोत्थापनम् अथ द्विरागमनम् अर्कविवाहः अथ श्रीशांतिः प्रथमांशुः - देवकोत्थापनम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : poojaपूजासंस्कृत देवकोत्थापनम् Translation - भाषांतर समे च दिवसे कुर्याद्देवकोत्थापनं बुधः । षष्ठं च विषमं नेष्टं मुक्त्वा पंचमसप्तमौ ॥ सपत्नीको यजमानः आचम्य देशकालौ संकीर्त्य मम पुत्रस्य कन्यकाया वा कृतविवाहांगभूतं स्थापितदेवतानामुत्थापनं मंडपोद्वासनं पुण्याहवाचनं च करिष्ये आदौ निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं च करिष्ये इति संकल्प्यावाहनादिषोडशोपचारैः गणपतिं संपूज्य सर्वाः पूर्वस्थापितदेवताः पूजयित्वा यांतु देवगणाः० इति विसृज्य बहिर्मंडपे आनीय नंदिन्यादीनां तैलाभ्यंगोद्वर्तनोष्णोदकस्नानानि कारयित्वा वेष्टनसूत्रमुन्मुच्य स्वस्तिवाचनं कुर्यात् तत्र स्वस्तिवाचने मह्यमित्यादि वाक्यांते ‘ मम पुत्रस्य कन्यकाया वा कृतविवाहाख्यस्य कर्मणः ’ इत्याद्यूहः कार्यः । ततो अभिषेकांते तच्छाखादिदेवतास्थापनपात्रे निधाय तदुपरि प्रक्षिप्ताभिषेकजलं सकुटुंबयजमानशिरसि किंचित् स्रावयन् इमं मंत्रं पठेत् - षटसु षट्सु च मासेषु मांगल्यं मामके कुले । अस्त्वित्येवं भवंतोंऽगा ब्रुवंत्वाशीर्वचो द्विजाः - इति ॥ षट्सु षट्सु च मासेषु यजमानकुले तव । विवाहादिकमांगल्यं कर्मास्तु प्रतिहायनम् - इति द्विजा ब्रूयुः । ततः पुण्याहवाचनफलसमृद्धिं वाचयित्वा कर्मणः सांगतासिद्ध्यर्थं ब्राह्मणान् संपूज्य यथाशक्ति भूयसीं दक्षिणां दत्त्वा आशिषो गृहीत्वा कर्मेश्वरार्पणं कृत्वा नीराज्य सुह्रद्युतो भुंजीत ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP