संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः| मौंजीबंधनप्रयोगः प्रथमांशुः ग्रन्थोद्देशः गणपतिपूजनं पुण्याहवाचनं च मातृकापूजनम् नांदीश्राद्धम् अग्निमुखम् ग्रहयज्ञः भुवनेश्वरीशांतिः गर्भाधानम् पुंसवनप्रयोगः सीमंतोन्नयनप्रयोगः वस्त्रदानं जातकर्म षष्ठीपूजनम् नामकरणम् आंदोलारोहणम् कर्णवेधः तांबूलभक्षणम् निष्क्रमणम् भूम्युपवेशनम् अन्नप्राशनम् बालस्य दृष्टिदोषादौ रक्षाविधिः वर्धापनम् चौलम् विद्यारम्भः छूरिकाबंधः मौजीबंधनकारिकाः मौंजीबंधनप्रयोगः मौंजीबंधनांगभूतः सायंहोमः मेधाजननम् देवकोत्थापनम् मौंजीविसर्जनम् स्नातकधर्माः दत्तपुत्रप्रतिग्रहविधिः विवाहविधिः सप्रयोगः मुहूर्तमेथिकास्थापनं देवकस्थापनम् वरस्य वधूगृहगमनम् वरस्य सीमांतपूजनम् घटिकास्थापनम् गौरीहरपूजा मधुपर्कः मुहूर्तपत्रिकापूजनादि अक्षतारोपणम् कन्यादानम् विवाहहोमः ऐरिणीदानम् वधूवस्त्रदानम् वधूगृहप्रवेशः नाम - लक्ष्मी - पूजनम् आशीर्वादमंत्राः देवकोत्थापनम् अथ द्विरागमनम् अर्कविवाहः अथ श्रीशांतिः प्रथमांशुः - मौंजीबंधनप्रयोगः ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : poojaपूजासंस्कृत मौंजीबंधनप्रयोगः Translation - भाषांतर कर्ता कुमारस्य गर्भाधानादिसंस्कारा अतीताश्चेत् आचम्य देशकालौ स्मृत्वा अस्य कुमारस्य गर्भाधानादि संस्काराणां लोपजनितप्रत्यवायपरिहारार्थं प्रतिसंस्कारं पादकृच्छ्रप्रायश्चित्तं प्रतिकृच्छ्रं यथाशक्तिगोनिष्क्रयीभूत द्रव्यदानप्रत्याम्नायेनाहमाचरिष्ये इति संकल्प्य संकल्पितद्रव्यं ब्राह्मणेभ्यो दद्यात् । तत आचम्य देशकालौ संकीर्त्य ममास्य कुमारस्य स्वविद्यास्वीकरणाधिकारार्थं ( सचौलं )मौंजीबंधनं करिष्ये । तदादौ गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं मंडपदेवतास्थापनं च करिष्ये इति संकल्प्य तानि कुर्यात् । ततः सचौलकरणपक्षे चौलकर्म कृत्वा घटिकास्थापनं कृत्वा मात्रासह भोजनानंतरं मुहूर्तपत्रिकां संपूज्य कुमारं कृतवपनं स्नापयित्वा स्वसमीपमानीयोपवेश्य । मध्येऽन्तः पटं धृत्वा ज्यौतिषिकेण मंगलपद्य मंगलाष्टकपाठपूर्वकं तदेवलग्नमिति पठिते प्रतिष्ठिते काले सद्योऽन्तः पटमुदगपसार्य । सुमुहूर्ते पुत्रमुखमीक्षेत । पुत्रश्च पितृपादौ प्रणमेत् । ततो ब्राह्मणाः - करोतु स्वस्ति ते ब्रह्मेत्यादिमंत्रैरक्षताप्रक्षेपणं कुर्युः । ततो देशकालौ स्मृत्वा अस्य कुमारस्य मौंजीबंधनांगहोमं कर्तुं स्थंडिलादिकर्म करिष्ये इति संकल्प्य स्थंडिलोपलेपनादि कृत्वा समुद्भवनामानमग्निं प्रतिष्ठाप्य ध्यात्वाऽन्वादध्यात् । समिद्द्व्यमादाय देशकालौ स्मृत्वा क्रियमाणे अस्य कुमारस्य मौंजीबंधनहोमे देवतापरिग्रहार्थमन्वाधानं करिष्ये । अस्मिन्नन्वाहितेग्नावित्यादि आघारावाज्येनेत्यंतमुक्त्वा अत्र प्रधानं - विष्णुं लक्ष्मीं सरस्वतीं स्वविद्यासूत्रकारान् स्वविद्यां च एकैकयाज्याहुत्या यक्ष्ये शेषेण स्विष्टकृतमित्यादिआज्यसंस्कारांतं कृत्वा कौपीनार्थं त्रिवृतं कार्पाससूत्रं कुमारस्य कट्यामाबद्ध्य कौपीनं परिधाप्य - बार्हस्पत्यमिदं नवं हि सदशं वासोयुगं शोभनं सर्वप्राज्यमनुत्तमं तनु तथा लोकत्रपारक्षणम् । देहालंकरणं शिवप्रियमथो लावण्यसौभाग्यसद्रूपारोग्यसुखप्रदं बहुगुणं दास्यामि ते गृह्यताम् ॥ इति मंत्रेण वस्त्रद्वयं दत्त्वा - अजिनाच्छादनमिदं मित्रनेत्रं यशस्करम् । संधारयाम्यहं मेध्यं वीर्यतेजोबलप्रदम् ॥ इति मंत्रेण कृष्णाजिनं यज्ञोपवीतवद्धारयित्वा अभिमंत्रितं यज्ञसूत्रं दद्यात् - सितं सग्रंथिकं सूत्रं त्रिवृतं ब्रह्मनिर्मितम् । देहालंकरणं यस्मात्तस्मात्तद्धारयाम्यहम् ॥ इति मंत्रेण धारयित्वा कुमारमग्नेरुत्तरतो गमयित्वा आचमय्य पुनरानीय तेनान्वारब्धः प्रधानहोमं कुर्यात् । स्रुवेणाज्यमादाय - कौमोदकीगदापद्मचक्रोपेतं चतुर्भुजम् । नमामि विष्णुं देवेशं कृष्णं गरुडवाहनम् । विष्णवे नमः विष्णव इदं० ॥ क्षीरोदधिसमुद्भूते दिव्यालंकारभूषिते । चतुर्भुजे महामाये विष्णुपत्नि नमोस्तु ते । लक्ष्मै० लक्ष्म्या इदं० ॥ कुंदेंदुधवले श्वेतपद्मपीठे सरस्वति । शुक्लवस्त्रावृते तुभ्यं वीणादंडकरे नमः । सरस्वत्यै० सरस्वत्या इदं० ॥ स्वविद्यासूत्रकारेभ्यो० स्वविद्यासूत्रकारेभ्य इदं० । स्वविद्यायै० स्वविद्याया इदं० । ततः कुमारोऽग्नेरुत्तरतो गत्वा गुरोः संमुखीभूय गुरुः - अस्य कुमारस्य शुद्ध्यर्थ अवक्षारणं करिष्ये इति संकल्प्य उदकेन कुमारांजलिमापूर्य स्वांजलिमन्येन पूरयित्वा तन्मध्ये हिरण्यफलादि निक्षिप्य - यो देवः सविता सूर्यः कुमारस्यास्य बुद्धिदः । भवत्वविरतं तस्मा अर्पयाम्युदकांजलिम् ॥ इति मंत्रेण स्वांजल्युदकं कुमारांजलाववक्षार्य तज्जलं कुमारांजलिनाऽवक्षारयेत् । ततः कुमारस्य हस्तं धृत्वा सवित्रे देवाय नमः अमुकवर्मन् ( गुप्त - दासेति वा सर्वत्र ) इति कुमारस्य नाक्षत्रनाम वदेत् । पुनरप्येवं हस्तग्रहणांतं कृत्वा सवित्रे नमः अमुकवर्मन् ० पुनः पूर्ववत्कृत्वा अग्नये नमः अमुकवर्मन् इति त्रिवारं कृत्वा ‘ हे सवितर्देव तवैष कुमारः एनं रक्षस्व ’ इति कुमारं संरक्षणार्थं सूर्याय दत्त्वा पुनरागत्योपविश्य कुमारः परिसमूहनपर्युक्षणे कृत्वा - भो जातवेदस्तवचेदमिध्ममात्मा प्रदीप्तो भव वर्धमानः । अस्मान्प्रजाभिः पशुभिः समृद्धान् कुरु त्वमग्ने धनधान्ययुक्तान् ॥ इति मंत्रेण समिधं हुत्वा अग्नये इदं० इति त्यक्त्वा हस्तौ प्रक्षाल्य तेजसे नमः इति प्रताप्य मुखमवाडू निमृजेत् । एवं पुनर्द्विवारं कृत्वा - अग्ने त्वं नः शिवस्राता वसुदाता सदा भव । नमस्ते यज्ञपुरुष हुतभुग्घव्यवाहन ॥ श्रद्धां मेधामिति च मंत्राभ्यामग्निमुपस्थायोपविश्य विभूतिं धृत्वा अग्नेरुत्तरतो गत्वा गुरोरभिमुखो भूत्वोपविश्य तत्पादौ शिरसा नत्वा ‘ भो गुरो मामात्मविद्यां ब्रूहि ’ इति प्रार्थयेत् । ततो गुरुस्तद्धस्तावेकीकृत्य वाससाऽऽच्छाद्य स्वांके निधाय स्वविद्यामंत्रं त्रिवारमुपदिशेत् । ततः गुरुरस्य ह्रदि हस्तं धृत्वा - मच्चित्तं मद्ध्रतं चैव मद्वाचं चात्मनो ह्रदि । धारय त्वं दृढं शश्वत्तद्वदाचर निश्चयात् - इति ॥ ततो मौंजीं बध्नीयात् ॥ तत्र मंत्रः - मौंजीमिमां संवलितां द्विजन्मना कल्याणकर्त्रीं त्रिगुणां त्रिरावृताम् ॥ बघ्नामि कट्यां तव पाणिपीडनाधिकारसिद्ध्यै बलजीवितार्द्धिदाम् । इति मंत्रेण त्रिरावेष्ट्य नाभिप्रदेशे ग्रंथित्रयं कुर्यात् । ततः - अदांतं दमयित्वा मां मार्गे संस्थापयन् स्वयम् । दण्डः करे धृतो यस्मात्तस्माद्रक्ष यतो भयम् - इति मंत्रेण दंडं दद्यात् ॥ अथ कुमाराय आचारमादिशेदेवम् - “ कर्म चार्यसि अंभोऽशान ( मूत्रपुरीषादिशुद्ध्यर्थं गंडूषान् कुर्वित्यर्थः ) कर्म कुरु ( सूर्योपासनादीत्यर्थः ) । दिवास्वापं न कुर्याः गुर्वधीनः स्वविद्याभ्यासं कुरु यावद्विद्याग्रहणं मौंजीधारणम् प्रातः सायं भिक्षां याचयेत् अप्रत्याख्यायिनं भिक्षेत् आदौ भातरं ‘ त्वं भिक्षां मे देहि ’ इति । ततः पितरं ‘ त्वं भिक्षां मे देहि ’ इति । तां भिक्षां पुरोहिताय निवेदयेत् स यद्दद्यात्तावता स्वनिर्वाहं कुर्यात् । ततो ब्राह्मणान् संपूज्य तेभ्यो दक्षिणां दत्त्वाऽऽशिषो गृह्णीयात् ॥ अथाशीर्मंत्राः - श्रीकंठो विश्वसृट् देवो वैकुंठो गरुडासनः । हेरंबश्च महासेनः कुर्वंत्वेनं चिरायुषम् ॥ जिष्णुरग्निर्यमश्चैव कर्बुरो यादसांपतिः । वायुः कुबेर ईशानः कुर्वंत्वेनं चिरायुषम् ॥ वसवोऽष्टौ तथाऽऽदित्या द्वादशैकादशस्मृताः ॥ रुद्राः साध्याश्च सिद्धाश्च कुर्वंत्वेनं चिरायुषम् ॥ रविः सोमः कुजः सौम्यो गुरुः शुक्रः शनिस्तथा ॥ राहुः केतुर्ग्रहास्त्वेते कुर्वंत्वेनं चिरायुषम् ॥ मनवः पितरश्चैव ऋषयो देवमातरः । सर्वे देवाः सगंधर्वाः कुर्वंत्वेनं चिरायुषम् ॥ श्रीमान् दीर्घायुष्मान् बलवान् वीर्यवानिंद्रियवान् पशुमान् रयिमान् धान्यवान् पुष्टिमांस्तुष्टिमान् धीमान् धृतिमाँल्लक्ष्मीवांस्त्वं सुप्रतिष्ठितो भव सुप्रतिष्ठितो भव । सकुमारस्य पित्रादेः सायंहोमांते भोजनम् ॥ इति माणग्रामनिवासि विद्वद्वर्यमहादेवात्मजदिवाकरकृतकृत्यदिवाकरप्रथमांशौ मौंजीबंधनप्रयोगः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP