संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
पुंसवनप्रयोगः

प्रथमांशुः - पुंसवनप्रयोगः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


द्वितीये तृतीये चतुर्थे वा मासे पुंनक्षत्रे चंद्रताराबलान्विते शुभे दिने भर्ताऽभ्यंगस्नातः आचम्य देशकालौ स्मृत्वा अस्यां मम भार्यायां जनिष्यमाणगर्भस्य पुंरुपताप्राप्त्यर्थं बीजगर्भसमुद्भवैनोनिबर्हणार्थं च श्रीपरमेश्वरप्रीत्यर्थं पुंसवनं करिष्ये । तदंगत्वेनादौ गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं च करिष्ये इति संकल्प्य तानि कृत्वा समानवर्णसवत्साया गोर्दधि पत्न्या दक्षिणपाणौ दत्वा तन्मध्ये प्रागग्रं यवं तत्पार्श्वयोर्द्वौ माषौ निधाय ‘ किं पिबसि ’ इति पत्नीं त्रिः पृच्छेत् सा तु ‘ पुंसवनं पुंसवनं पुंसवनं ’ इति त्रिरुक्त्वा प्राश्नीयात् । एवं त्रिवारं कुर्यात् । ततो ब्राह्मणान् संपूज्य दक्षिणां दत्वा आशिषो गृहीत्वा नीराजनादि कुर्यात् ॥ इति कृत्यदिवाकरे पुंसवनम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP