संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
वर्धापनम्

प्रथमांशुः - वर्धापनम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


वर्धापनं वर्षपर्यंतं प्रतिमासं जन्मदिने कार्यम् वर्षोत्तरं प्रतिवर्षं जन्मतिथौ कार्यम् अत्र ग्राह्यजन्मतिथिनिर्णयः सिंध्वादौ द्रष्टव्यः ॥ अथ संक्षेपतः प्रयोगः - तिलोद्वर्तनपूर्वकं तिलोदकेन स्नात्वा कृततिलकः आचम्य पवित्रपाणिः देशकालौ संकीर्त्य मम अस्य शिशोर्वा आयुरभिवृद्ध्यर्थं वर्षवृद्धिकर्म करिष्ये तत्रादौ तदंगत्वेन गुरुपूजनं कुलदेवतादिपूजनं करिष्ये आदौ निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं च करिष्ये । इति संकल्प्य गणपतिं संपूज्य गुरुपूजां कृत्वा अक्षतपुंजेषु पूगीफलदौ वा वक्ष्यमाणदेवताः स्थापयेत् । तत्रादौ - आत्मनोऽमुककुलदेवतायै नमः अमुका कुलदेवतामावाहयामि जन्मनक्षत्राय न० जन्मनक्षत्रमावा० ( एवमग्रेपि ) पितृभ्यां नमः पितरावावा० प्रजापतये० प्रजापतिमा० भानवे० भानुमा० विघ्नेशाय० विघ्नेशमा० मार्कंडेयाय० मार्कंडेयमा० व्यासाय० व्यासमा० जामदग्न्याय रामाय० जामदग्न्यं राममा० अश्वत्थाम्ने नमः अश्वत्थामानमा० कृपाय० कृपमा० बलये नमः बलिमा० प्रह्लादाय० प्रह्लादमा० हनुमते० हनुमंतमा० बिभीषणाय० बिभीषणमा० षष्ठ्यै देव्यै० षष्ठीदेवीमा० एवमावाह्य अमुककुलदेवताद्यावाहितदेवताभ्यो नमः ध्यायाभीति षोडशोपचारैः संपूज्य षष्ठ्यै दधिभक्तनैवेद्यं समर्प्य पूजांते प्रार्थयेदेवम् - चिरंजीवी यथा त्वं तु मुनीनां प्रवरो द्विज । कुरुष्व मुनिशार्दूल तथा मां चिरजीविनम् ॥ चिरंजीवी यथा त्वं भो भविष्यामि तथा मुने । रुपवान्वित्तवांश्चैव श्रियायुक्तश्च सर्वदा ॥ मार्कण्डेय नमस्तेस्तु सप्तकल्पांतजीवन । आयुरारोग्यसिद्ध्यर्थं प्रसीद भगवन्मुने । मार्कण्डेय महाभाग सप्तकल्पांतजीवन । आयुरारोग्यसिद्ध्यर्थमस्माकं वरदो भव ॥ पित्रादिः कर्ता चेत् ‘ अस्माकं ’ इत्यत्र ‘ अस्य त्वं ’ इति वदेत् । स्वयं कर्ता चेत् ‘ मम त्वं ’ इति च वदेत् । तथाऽग्रेऽपि षष्ठीप्रार्थना - जय देवि जगन्मातर्जगदानंदकारिणि । प्रसीद मम कल्याणि नमस्ते षष्ठिदेवते ॥ त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च । ब्रह्मविष्णुशिवैः सार्धं रक्षां कुर्वंतु तानि मे ॥ ततस्तिलगुडमिश्रितं पयः पाययेत्, स्वयं वा पिबेत् । तत्र मंत्रः - सतिलं गुडसंमिश्रमंजल्यर्धमितं पयः । मार्कण्डेयाद्वरं लब्ध्वा पिबाम्यायुर्विवृद्धये ॥ क्वचित्पूजितदेवताभ्यो नाम्ना प्रत्येकमष्टाविंशतिसंख्याकस्तिलहोम उक्तः । ततो विप्रान् संपूज्य तेभ्यो दक्षिणामामान्नानि च दद्यात् । देवतानां विसर्जनं कृत्वा कर्मेश्वरार्पणं कुर्यात् । तद्दिननियमाः - खंडनं नखकेशानां मैथुनाध्वगमौ तथा । आमिषं कलहं हिंसां वर्षवृद्धौ विवर्जयेत् ॥ तत्रैव - कृतांतकुजयोर्वारे यस्य जन्मतिथिर्भवेत् । अनृक्षयोगसंप्राप्तौ विघ्नस्तस्य पदे पदे ॥ कृतांतः शनिः । जन्मनक्षत्रयोगे न दोषः ॥ तस्य सर्वौषधिस्नानं गुरुदेवादिपूजनम् ॥ इति कृत्यदिवाकरे वर्षवृद्धिकर्मविधिः ॥ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP