संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
देवकोत्थापनम्

प्रथमांशुः - देवकोत्थापनम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तत्र कर्ता देशकालौ स्मृत्वा अस्य कुमारस्य कृतमौंजीबंधनांगस्थापितदेवतानामुत्थापनं मंडपोद्वासनं पुण्याहवाचनं च करिष्ये आदौ निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं करिष्ये इति संकल्प्य गणेशं संपूज्य स्थापितदेवतानां पूजां कृत्वा - यांतु देवगणाः सर्वे पूजामादाय पार्थिवीम् । इष्टकामप्रसिद्ध्यर्थं पुनरागमनाय च ॥ इति विसृज्य मंडपांते तैलाभ्यंगोद्वर्तनोष्णोदकस्नानानि कारयित्वा वेष्टनसूत्रमुन्मुच्य स्वस्तिवाचनं कुर्यात् । तत्र - अस्य कुमारस्य कृतमौंजीबंधनाख्यस्य कर्मणः पुण्याहमिति विशेषः । शेषं वक्ष्यमाणविवाहवत् ॥ इति कृत्यदिवाकरे देवकोत्थापनम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP