संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः| अन्नप्राशनम् प्रथमांशुः ग्रन्थोद्देशः गणपतिपूजनं पुण्याहवाचनं च मातृकापूजनम् नांदीश्राद्धम् अग्निमुखम् ग्रहयज्ञः भुवनेश्वरीशांतिः गर्भाधानम् पुंसवनप्रयोगः सीमंतोन्नयनप्रयोगः वस्त्रदानं जातकर्म षष्ठीपूजनम् नामकरणम् आंदोलारोहणम् कर्णवेधः तांबूलभक्षणम् निष्क्रमणम् भूम्युपवेशनम् अन्नप्राशनम् बालस्य दृष्टिदोषादौ रक्षाविधिः वर्धापनम् चौलम् विद्यारम्भः छूरिकाबंधः मौजीबंधनकारिकाः मौंजीबंधनप्रयोगः मौंजीबंधनांगभूतः सायंहोमः मेधाजननम् देवकोत्थापनम् मौंजीविसर्जनम् स्नातकधर्माः दत्तपुत्रप्रतिग्रहविधिः विवाहविधिः सप्रयोगः मुहूर्तमेथिकास्थापनं देवकस्थापनम् वरस्य वधूगृहगमनम् वरस्य सीमांतपूजनम् घटिकास्थापनम् गौरीहरपूजा मधुपर्कः मुहूर्तपत्रिकापूजनादि अक्षतारोपणम् कन्यादानम् विवाहहोमः ऐरिणीदानम् वधूवस्त्रदानम् वधूगृहप्रवेशः नाम - लक्ष्मी - पूजनम् आशीर्वादमंत्राः देवकोत्थापनम् अथ द्विरागमनम् अर्कविवाहः अथ श्रीशांतिः प्रथमांशुः - अन्नप्राशनम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : poojaपूजासंस्कृत अन्नप्राशनम् Translation - भाषांतर मदनरत्ने नारदः - षष्ठे वाप्यष्टमे मासि पुंसां स्त्रीणां तु पंचमे । सप्तमे मासि वा कार्यं नवान्नप्राशनं शिशोः ॥ तत्प्रयोगः - पिता सपत्नीकः कृताभ्यंगस्नानः आचम्य देशकालौ स्मृत्वा ममास्य शिशोर्बींजगर्भसमुद्भवैनोविनाशद्वारा बलायुर्वर्चोभिवृद्ध्यर्थं अन्नप्राशनाख्यं कर्म करिष्ये । ( अत्रैव सह तंत्रेण निष्क्रमणोपवेशनकरणपक्षे पूर्वमुभयोः पूर्वोक्तसंकल्पौ कृत्वा ततोऽन्नप्राशनसंकल्पः ) तदंगतयादौ गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं च करिष्ये इति संकल्प्य गणेशपूजनादिनांदीश्राद्धांतं कृत्वा पीठे प्रतिमासु पूगीफलेषु वा नाममंत्रैर्देवताः स्थापयेत् । यथा - इंद्राय नमः इंद्रमावाहयामि । ( एवमग्रेपि ) अग्नये न० यमाय न० निऋतये० वरुणाय न० वायवे० सोमाय० ईशानाय० आकाशाय० भूम्यै० चंद्राय० सूर्याय० वासुदेवाय० गगनाय० वराहाय० पृथिव्यै नमः पृथिवीमावाहयामि एवं संस्थाप्य तथैव तत्र - ब्रह्मणे न० शंकराय न० विष्णवे० कुलदेवतायै० प्राच्यै० अग्नेय्यै० दक्षिणायै० नैऋत्यै० प्रतीच्यै० वायव्यै० उदीच्यै० ईशान्यै न० । इत्यावाह्य इंद्राद्यावाहितदेवताभ्यो नमः इति षोडशोपचारैः संपूज्य पूर्वोक्तप्रकारेण शंखादिमंगलनिस्वनैः सूर्याद्यवलोकनादिप्रार्थनाश्लोकपठनांतं निष्क्रमणकर्म कृत्वा ततो देवताग्रे शिशूपवेशनकर्म प्रागुक्तप्रयोगप्रकारेण कृत्वा अन्नप्राशनं कुर्यात् । अत्र होमः कृताकृतः । होमपक्षे उपवेशनकर्म कृत्वा अद्येत्यादि० अस्य शिशोः अन्नप्राशनहोमं कर्तुं स्थंडिलादि करिष्ये इति संकल्प्य स्थंडिले शुचिनामानमग्निं प्रतिष्ठाप्यान्वादध्यात् । समिव्दृयमादाय देशकालौ स्मृत्वा क्रियमाणे अन्नप्राशनहोमे देवतापरिग्रहार्थमित्यादि चक्षुष्यंतमुक्त्वा अत्र प्रधानं - अग्निं इंद्रं प्रजापतिं विश्वेदेवान् ब्रह्माणं च एता देवता एकैकयाऽऽज्याहुत्या यक्ष्ये शेषेणेत्यादि होमं सामाप्यान्नं प्राशयेत् । तद्यथा - देवतापुरस्तस्य धात्र्युत्संगगतस्यालंकृतस्य शिशोः प्राड्मुखस्थं कांचने नवे कांस्यपात्रे वा दधिमधुघृतमिश्रमन्नं गृहीत्वा सुवर्णहस्तोऽन्नपात्रात् किंचिदादाय प्राशनं कारयेत् । तत्र मंत्रः - नमोस्त्वन्नपते तुभ्यमस्य बालस्य संततम् । तेजः पुष्टिं श्रियं चान्नं देह्यारोग्यायुषी बलम् ॥ इति मंत्रेण प्राशयित्वा तांबूलं दत्त्वा तदग्रे रत्नमणिभाजन - हेमभाजन - पुस्तक - शस्त्र - वस्त्र - शिल्पादीनि निधाय यब्दालः स्वेच्छया स्पृशेत्साऽस्य जीविकेति परीक्षेत् । ततो द्विजान्संपूज्य दक्षिणां दत्त्वाऽऽशिषो गृहीत्वा यथाशक्ति ब्राह्मणेभ्यः आमान्नानि दत्त्वा कर्मेश्वरार्पणं कृत्वा सुह्रद्युतो भुंजीत ॥ ॥ इति कृत्यदिवाकरेऽन्नप्राशनप्रयोगः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP