संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः| दत्तपुत्रप्रतिग्रहविधिः प्रथमांशुः ग्रन्थोद्देशः गणपतिपूजनं पुण्याहवाचनं च मातृकापूजनम् नांदीश्राद्धम् अग्निमुखम् ग्रहयज्ञः भुवनेश्वरीशांतिः गर्भाधानम् पुंसवनप्रयोगः सीमंतोन्नयनप्रयोगः वस्त्रदानं जातकर्म षष्ठीपूजनम् नामकरणम् आंदोलारोहणम् कर्णवेधः तांबूलभक्षणम् निष्क्रमणम् भूम्युपवेशनम् अन्नप्राशनम् बालस्य दृष्टिदोषादौ रक्षाविधिः वर्धापनम् चौलम् विद्यारम्भः छूरिकाबंधः मौजीबंधनकारिकाः मौंजीबंधनप्रयोगः मौंजीबंधनांगभूतः सायंहोमः मेधाजननम् देवकोत्थापनम् मौंजीविसर्जनम् स्नातकधर्माः दत्तपुत्रप्रतिग्रहविधिः विवाहविधिः सप्रयोगः मुहूर्तमेथिकास्थापनं देवकस्थापनम् वरस्य वधूगृहगमनम् वरस्य सीमांतपूजनम् घटिकास्थापनम् गौरीहरपूजा मधुपर्कः मुहूर्तपत्रिकापूजनादि अक्षतारोपणम् कन्यादानम् विवाहहोमः ऐरिणीदानम् वधूवस्त्रदानम् वधूगृहप्रवेशः नाम - लक्ष्मी - पूजनम् आशीर्वादमंत्राः देवकोत्थापनम् अथ द्विरागमनम् अर्कविवाहः अथ श्रीशांतिः प्रथमांशुः - दत्तपुत्रप्रतिग्रहविधिः ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : poojaपूजासंस्कृत दत्तपुत्रप्रतिग्रहविधिः Translation - भाषांतर पूर्वेद्युः कृतोपवासो ग्रहीता आचम्य देशकालौ संकीर्त्य मम अप्रजत्वप्रयुक्तपैतृकऋणापाकरणपुन्नामनरकत्राणद्वारा श्रीपरमेश्वरप्रीत्यर्थं उक्तविधिना पुत्रप्रतिग्रहं करिष्ये । तदंगत्वेन स्वस्तिवाचनं आचार्यवरणं विष्णुपूजनं आमान्नदानं च करिष्ये आदौ निर्विघ्नतासिद्ध्यर्थं गणपतिपूजां करिष्ये । इति संकल्प्य गणपतिपूजनादि आचार्यवरणांतं कृत्वा आचार्यं मधुपर्केणाभ्यर्च्य शांताकारं भुजगशयनमिति विष्णुमावाह्य ध्यात्वा च महाविष्णवे नम इति नामंमंत्रेण षोडशोपचारैः पूजयेत् । ततो देशकालौ संकीर्त्यकरिष्यमाणपुत्रप्रतिग्रहसांगतासिद्ध्यर्थं नानानामगोत्रेभ्यो ब्राह्मणेभ्यः यथाशक्तिसोपस्कराणि सदक्षिणाकानि आमान्नानि दातुमहमुत्सृजे । तेन श्रीमहाविष्णुः प्रीयताम् । ततः आचार्यो देशकालौ स्मृत्वा ‘ यजमानानुज्ञया पुत्रप्रतिग्रहांगत्वेन विहितहोमं करिष्ये तदंगत्वेन स्थंडिलादि करिष्ये ’ इति संकल्प्य सकलंकर्म स्थंडिलसंस्कारं कृत्वा तत्र बलवर्धननामानमग्निं प्रतिष्ठाप्यान्वादध्यात् । समिव्द्दयमादाय देशकालौ स्मृत्वा क्रियमाणे पुत्रप्रतिग्रहांगविहितहोमे देवतापरिग्रहार्थमित्यादिचक्षुष्यंतमुक्त्वा अत्र प्रधानम् - सकृदग्निं सूर्यासावित्रीं षडवारं तंडुलद्रव्येण, अग्निं वायुं सूर्यं प्रजापतिं चाज्येन यक्ष्ये शेषेण स्विष्टकृतमित्यादि आज्योत्पवनांतं कृत्वा दातारं गत्वा एतस्मै पुत्रं देहीति याचयेत् । ततो दाता देशकालौ स्मृत्वा श्रीपरमेश्वरप्रीत्यर्थं पुत्रदानं करिष्ये इति संकल्प्य गणपतिं संपूज्य प्रतिग्रहीतारं वस्त्रादिना यथाविभवं संपूज्य करोतु स्वस्ति ते ब्रह्मेत्यादिमंत्रान् पठित्वा इमं पुत्रं तव पैतृकऋणापाकरणपुंन्नामनरकत्राणसिद्ध्यर्थं आत्मनश्च श्रीपरमेश्वरप्रीत्यर्थं तुभ्यमहं संप्रददे न मम प्रतिगृह्णातु पुत्रं भवान् । इति प्रतिग्रहीतृहस्ते जलं क्षिपेत । ग्रहीता प्रतिगृह्णामीति प्रतिगृह्य स्वांके उपवेश्य - यस्मास्वमधिजातोऽसि ह्रदाद्यंगात्कुमारक । तस्मादात्मासि पुत्राख्यो भवायुष्मात्र्छरच्छतम् - इति मंत्रेण पुत्रमूर्धनि त्रिर्जिघ्रेत् । ततो वस्त्रालंकारादिभिरलंकृतं पुत्रं गीतवाद्यैः स्वस्तिमंत्रैश्च स्वगृहमानीय पादौ प्रक्षाल्याचम्य आचार्यदक्षिणतः स्वयं स्वदक्षिणतो भार्योत्संगे ‘ पुत्र ’ इत्युपावेशयेत् । आचार्यो बर्हिरासादनाद्याज्यभागांतं कृत्वा प्रधानहोमं कुर्यात् तत्र मंत्राः - आग्नेय्यः पुरुषो रक्तः सर्वदेवमयोऽव्ययः । धूम्रकेतू रजोध्यक्षस्तस्मै नित्यं नमो नमः । अग्नये नमः अग्नय इदं न ममेति यजमानस्त्यजेत् । एवमग्रेपि । सूर्यासावित्र्यै नमः सूर्यासावित्र्या इदं० इति तंडुलैः षडाहुतीर्हुत्वा पुनः आज्येन अग्नये नमः अग्नय इदं० वायवे नमः वायव इदं० सूर्याय० सूर्यायेदं० प्रजापतये० प्रजापतय इदं० । ततः स्विष्टकृदादिकर्मशेषं समाप्य आचार्यं संपूज्य तस्मै धेनुं दत्त्वा विप्रान् आमान्नादिना संतर्प्य विप्राशिषो गृहीत्वा यस्य स्मृत्येति कर्मेश्वरार्पणं कृत्वा सुह्रद्युतो भुंजीत ॥ ॥ इति दत्तपुत्रप्रतिग्रहप्रयोगः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP