संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
बालस्य दृष्टिदोषादौ रक्षाविधिः

प्रथमांशुः - बालस्य दृष्टिदोषादौ रक्षाविधिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


भस्म गृहीत्वा‍ऽमिमंत्रयेत् - वासुदेवो जगन्नाथः पूतनातर्जनो हरिः । रक्षंतु त्वरितं बालं मुंच मुंच कुमारकम् ॥ कृष्ण रक्ष शिशुं शंखमधुकैटभमर्दन । प्रातः संगवमध्याह्ने सायान्हे मुंच संध्ययोः ॥ महानिशि सदा रक्ष कंसारिष्टनिषूदन । महोरगान् पिशाचांश्च ग्रहान्मातृगणांस्तथा ॥ बालग्रहान्विशेषेण छिंधि छिंधि महाभयान् । त्राहि त्राहि हरे नित्यं त्वद्रक्षाभूषितं शिशुम् ॥ इति भस्माभिमंत्र्यैव भूषयेत्तेन भस्मना । शिरो ललाटाद्यंगेषु रक्षां कुर्याद्यथाविधि ॥ रक्ष रक्ष महादेव नीलग्रीव जटाधर । ग्रहैस्तु सहितो रक्ष मुंच मुंच कुमारकम् ॥ अमुं मंत्रं भूर्जपत्रे विलिख्य तत्पत्रं बालस्य दक्षिणभुजे बध्नीयात् । बालरोदनपरिहारार्थं यंत्रमुक्तं मयूखे - षडस्रमध्ये ह्वींकारस्तन्मध्ये शिशोर्नाम विलिख्य षटकोणेषु - ‘ ॐ लुलुव स्वाहा ’ इति मंत्रषडक्षराणि विलिख्य तद्बहिर्नेमिवद्वृत्तद्वयं विलिख्य तद्बहिरधोमुखैरर्धचंद्रैरावेष्टय ‘ यंत्रदेवताभ्यो नमः ’ इति षोडशोपचारैः संपूज्य बालहस्ते बन्धीयात् ( बालग्रहशांत्यादिकं शांत्यादिग्रंथे द्रष्टव्यम् ) इति बालस्य रक्षाविधिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP