प्रथमांशुः - चौलम्
‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.
तच्च मातुर्गर्भे रजोदर्शने कदा कार्यमकार्यं वेत्यादिनिर्णयो ग्रंथांतरतोऽवगंतव्यः । विशेषस्त्वत्रोच्यते । प्रथमे द्वितीये तृतीये पंचमेवाब्दे यथाकुलधर्मं वोक्तशुभे काले आदौ ग्रहानुकूल्यार्थं ग्रहयज्ञं कुर्यात् । ततः कर्ता कृतमंगलस्नानं बालमलंकृतं कृतस्वस्त्ययनं स्वदक्षिणस्थमातुरंके उपवेश्य । आचम्य देशकालौ संकीर्त्य अस्य शिशोर्बीजगर्भसमुद्भवदोषनाशनबलायुर्वर्चोभिवृद्ध्यर्थं चौलकर्म करिष्ये तदंगतयाऽदौ गणेशपूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं च करिष्ये इति संकल्प्य गणेशपूजनादिनांदीश्राद्धांतं कुर्यात् । संस्कारलोपे सति तत्प्रायश्चित्तं कुर्यात् ॥ ततः देशकालौ स्मृत्वा अस्य कुमारस्य चौलहोमं कर्तुं स्थंडिलादिकर्म करिष्ये इति संकल्प्य स्थंडिलं संस्कृत्य तत्र सभ्यनामानमग्निं प्रतिष्ठाप्य ध्यात्वा देशकालौ स्मृत्वा समिदद्वयमादाय क्रियमाणे चौलकर्महोमे देवतापरिग्रहार्थमित्यादि आघारांतमुक्त्वा अत्र प्रधानं - त्रिरग्निंपवमानं प्रजापतिं एताः प्रधानदेवता चाज्येन शेषेण स्विष्टकृतमित्यादि सद्यो यक्ष्ये इत्यंतमुक्त्वा समिदद्वयमग्नौ प्रक्षिप्य ततः परिसमूहनपरिस्तरणपर्युक्षणानि कृत्वा प्रोक्षण्यादिषट् पात्राण्यासाद्य अग्नेरुत्तरतो दर्भेषु व्रीहियवमाषतिलैः पृथक्पृथक्पूरितानि नव शरावाण्येकैकशः प्राक्संस्थान्यासादयेत् मातुर्दक्षिणतः पिता ब्रह्मा वा एकविंशतिकुशपिंजूलानि धारयन्नासीत अग्नेः प्राक् प्रक्षालितः क्षुरो निधेयः । ततः कर्ता कुमारेणान्वारब्ध आघारहोमांतं कृत्वा प्रधानाज्याहुतीर्जुहुयात् । स्रुवेणाज्यमादाय - पवमानाभिधेयाग्रे भगवन् हव्यवाहन । आयुर्बलं यशो वीर्यं देहि मे ते नमो नमः । अग्नये पवनमानायेदं न ममेति त्यागः ॥ त्वमृषिः पवमानस्त्वमग्ने देववर प्रभो । प्रजां पुष्टिं श्रियं तेजो देहि मे ते नमो नमः । अग्नये पवमानायेदं न मम ॥ यत्ते वह्ने शिवं रुपं याश्च ते सप्त हेतयः । ताभिर्नस्त्राहि दोषौघात्तुभ्यमग्ने नमो नमः । अग्नये पवमानायेदं न मम ॥ प्रजापते त्वदृते न धाता विश्वसृजां परः । यजामि येन कामेन त्वां तन्मे देहि ते नमः । प्रजापतय इदं न मम ॥ ततः कर्ता शिशोः पश्चात्स्थित्वा दक्षिणवामकराभ्यां शीतोष्णोदकपात्रे गृहीत्वा ‘ शीतमुष्णं चोभे जले संमीलयामि ’ इत्युक्त्वा तदुदकमन्यस्मिन्पात्रे युगपन्निनीय तस्यैकदेशं पात्रांतरे गृहीत्वा नवनीतेन दधिद्रप्सेन वा मिश्रयित्वा तेन कुमारस्य वामकर्णमारभ्य प्रदक्षिणं ‘ एताभिरद्भिरस्य शिरः क्लेदयाम्यदितये नमः ’ इति पठन् शिरस्त्रिवारं क्लेदयेत् । ततः पिता त्रिभिस्त्रिभिः कुशपिंजूलैः सह शिशोर्दक्षिणकेशभागे कांश्चित् केशान् गृहीत्वा - सविता यत्क्षुरप्रेण सोमस्य वरुणस्य च । तेन ते संवपाभ्यद्य यशसे श्रेयसे तथा ॥ इति मंत्रेण पूर्वस्थापितक्षुरेण छित्त्वा शमीपर्णैः सह छिन्नकेशाग्राणि मात्रे दत्वा साऽनडुहे गोमये निदध्यात् । एवं पुनस्त्रिवारं कुर्यात् । तत्र मंत्राः - धाता बृहस्पतेर्येन शुक्रस्य च विभावसोः । तेन दीर्घायुषे पुत्र संवपाम्यद्य तेजसे । इति द्वितीयम् ॥ येन तेजस्विनं सूर्यं रात्रौ पश्यामि पुत्रक । तेन ते संवपाम्यद्य बलवीर्याभिवृद्धये । इति तृतीयम् ॥ ततस्तथैव सर्वैः मंत्रैश्चतुर्थं कुर्यात् । पुनस्तथैव वामभागे समंत्रकं त्रिवारं कृत्वा तूष्णीं चतुर्थं कार्यम् । ततः क्षुरधारां संमृज्य ‘ अक्षुण्वन् कुशलं कुरु ’ इति नापितं संप्रेष्य शिशुं भद्रासने उपवेश्य पूर्वावशेषितशीतोष्णोदकैर्नापितेन यथा कुलधर्मं वापयित्वा ततः स्नापितं कुमारमलंकृतं मातुरुत्संगेऽवस्थाप्य स्विष्टकृदादिहोमशेषं समाप्य यथाशक्तिब्राह्मणान् संतर्प्याशिषो गृहीत्वा कर्मेश्वरार्पणं कुर्यात् । व्रीह्यादिशरावाणि नापिताय दद्यात् ॥ ॥ इति माणग्रामनिवासिविद्वद्वर्यमहादेवात्मजदिवाकरकृतकृत्यदिवाकरे प्रथमांशौ चौलप्रयोगः ॥ ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP