संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
ग्रन्थोद्देशः

प्रथमांशुः - ग्रन्थोद्देशः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तत्रादौ मंगलपूर्वको ग्रन्थोद्देशः ।
॥ श्रीगणेशाय नमः ॥ श्रीसरस्वत्यै नमः ॥ श्रीगुरुवे नमः ॥ श्रीमहालसायै नमः ॥ नमामि विघ्नेश्वरपादपंकजं महालसां श्रीधरमीश्वरं परम् । सरस्वतीं सर्वस्वगान्हुनींस्तथा गुरुं स्वमातापितरौ च यक्षिणीम् ॥१॥

येषां न किंचिद्विदितं कथंचित्कुर्वन्ति कर्माणि नृपादिकानाम् । तेषां कृतेऽकारि दिवाकरेण ग्रंथो लघुः कृत्यदिवाकरोऽयम् ॥२॥

नानाभट्टकुलोद्भवप्रभृतयो ये सूरयस्तत्कृता ग्रंथाः संति सहस्त्रशः खलु तथाप्येतेषु नो दृश्यते । पूर्णः क्षत्रियविट् जघन्यजनुषां कर्मप्रयोगान्वितस्तस्मादेष ममोद्यमोऽस्ति भगवान् सिद्धिं नयत्वाशु तम् ॥३॥

कर्मणां निर्णयं कालं पश्यंत्वन्यत्र याज्ञिकाः । प्रयोगान्केवलान्वक्ष्ये निबंधेऽस्मिन्यथामति ॥४॥ इति ॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP