संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः| नामकरणम् प्रथमांशुः ग्रन्थोद्देशः गणपतिपूजनं पुण्याहवाचनं च मातृकापूजनम् नांदीश्राद्धम् अग्निमुखम् ग्रहयज्ञः भुवनेश्वरीशांतिः गर्भाधानम् पुंसवनप्रयोगः सीमंतोन्नयनप्रयोगः वस्त्रदानं जातकर्म षष्ठीपूजनम् नामकरणम् आंदोलारोहणम् कर्णवेधः तांबूलभक्षणम् निष्क्रमणम् भूम्युपवेशनम् अन्नप्राशनम् बालस्य दृष्टिदोषादौ रक्षाविधिः वर्धापनम् चौलम् विद्यारम्भः छूरिकाबंधः मौजीबंधनकारिकाः मौंजीबंधनप्रयोगः मौंजीबंधनांगभूतः सायंहोमः मेधाजननम् देवकोत्थापनम् मौंजीविसर्जनम् स्नातकधर्माः दत्तपुत्रप्रतिग्रहविधिः विवाहविधिः सप्रयोगः मुहूर्तमेथिकास्थापनं देवकस्थापनम् वरस्य वधूगृहगमनम् वरस्य सीमांतपूजनम् घटिकास्थापनम् गौरीहरपूजा मधुपर्कः मुहूर्तपत्रिकापूजनादि अक्षतारोपणम् कन्यादानम् विवाहहोमः ऐरिणीदानम् वधूवस्त्रदानम् वधूगृहप्रवेशः नाम - लक्ष्मी - पूजनम् आशीर्वादमंत्राः देवकोत्थापनम् अथ द्विरागमनम् अर्कविवाहः अथ श्रीशांतिः प्रथमांशुः - नामकरणम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : poojaपूजासंस्कृत नामकरणम् Translation - भाषांतर तच्च स्वाशौचांते द्वात्रिंशे वाऽह्नि कार्यम् । पिता देशकालौ संकीर्त्य ममाऽस्य कुमारस्य बीजगर्भसमुद्भवैनोनिबर्हणद्वारा नामव्यवहारसिद्ध्यर्थं श्रीपरमेश्वरप्रीत्यर्थं नामकरणाख्यं कर्म करिष्ये तदंगत्वेनादौ गणेशपूजनपूर्वकं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं च करिष्ये । इति संकल्प्य तानि कृत्वा ततस्तंदुलपूर्णे कांस्यपात्रे सुवर्णशलाकादिना विलिखेत् । तच्चेत्थम् - श्रीगणेशाय नमः श्रीसरस्वत्यै नमः श्रीकुलदेवतायै नमः इति लिखित्वा ततो नाम चतुष्टयं लिखेत् । तदित्थम् - अस्य शिशोः कुलदेवता नाम अमुकदेवताभक्तः मासनाम कृष्ण इत्यादि ततो नाक्षत्रनाम अवकहडाचक्रानुसारेण अमुकः ततो व्यावहारिकं नाम अमुकदेवदत्तवर्मा गुप्तो दासो वा । एवंरीत्या लिखित्वा नामदेवताभ्यो नम इति षोडशोपचारैः संपूज्य तद्बालस्य दक्षिणकर्णे उपदिशेत् । तच्चैवम् - इदमार्याः कुमारस्य नामास्य विदधाम्यहम् । तेनैव नाम्ना कुर्वंतु व्यवहारो जनाः सदा ॥ इति विप्रान् संप्रार्थ्य तैरनुज्ञातः पिता - श्रीगणेशाय नमः इत्युपन्यस्य कुलदेवतानाम्ना त्वं अमुकदेवताभक्तोऽसि मासनाम्ना त्वं अमुकोऽसि नाक्षत्रेण नाम्ना त्वं अमुकोऽसि ( इत्यपांशु ) व्यावहारिकेण नाम्ना त्वं अमुकवर्मासि ( गुप्तोऽसि दासोऽसि वा ) इति वदेत् । ततः कृतांजलिस्तिष्ठन् कुलदेवतानाम्ना ‘ अमुकदेवताभक्तोऽयं भवतः सर्वान् ब्राह्मणान् अभिवादयते ’ इति वदेत् । ते च ‘ आयुष्मान् भवतु अमुकभक्तः ’ इति वदेयुः । एवं ‘ मासनाम्ना अमुकोऽयं भवतः सर्वान्ब्राह्मणानभिवादयते० इति पिता । आयुष्मान् भवतु अमुकः इति ब्राह्मणाः । नाक्षत्रेण नाम्ना अमुकोऽयं ( इत्युपांशु ) भवतः सर्वान् इति पिता । आयुष्मान् भवतु अमुकः इति ब्राह्मणाः । व्यावहारिकेण नाम्ना अमुकवर्मा ( गुप्तः, दासः ) अयं भवतः सर्वान् इति पिता । आयुष्मान् भवतु अमुकवर्मा । सुप्रतिष्ठितमस्तु इति शिशुमूर्ध्नि द्विजा अक्षतप्रक्षेपं कुर्युः । ततः कृतस्य कर्मणः सांगतासिद्ध्यर्थं शतं दश वा ब्राह्मणान् आमान्नादिना संतर्प्य भूयसीं दक्षिणां दत्त्वाऽऽशिषो गृहीत्वा कर्मेश्वरार्पणं कुर्यात् ॥ ॥ इति कृत्यदिवाकरे नामकरणम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP