संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
वस्त्रदानं

प्रथमांशुः - वस्त्रदानं

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तच्च प्रथमगर्भिण्यां एव पंचमे सप्तमे वा मासे कार्यं । पुंनक्षत्रादिशुभे दिने देशकालौ स्मृत्वा अस्याः मम भार्याया अविच्छिन्नसौभाग्यसत्पुत्रादिचिरायुः संतत्यभिवृद्धिस्थिरलक्ष्मीप्राप्त्यर्थं प्रथमगर्भधारणे शिष्टाचारसिद्धयर्थं च वस्त्रदानं माल्यादिधारणं च करिष्ये तत्रादौ गणेशपूजनं वस्त्रादिदानं च करिष्ये इति संकल्प्य गणेशं संपूज्य नमो देव्यै महादेव्यै इति मंत्रेण वासोधिष्ठात्रीं महालक्ष्मीं संपूज्य वस्त्रं दद्यात् । तन्मंत्रस्तु - बार्हस्पत्यमिदं नवं हि सदशं वासोयुगं शोभनं सर्वप्राज्यमनुत्तमं तनु तथा लोकत्रपारक्षणम् । देहालंकरणं शिवप्रियमथो लावण्यसौभाग्यसद्रूपारोग्यसुखप्रदं बहुगुणं दास्यामि ते गृह्यताम् ॥ ततः माल्यादि धारयेत् । ततो नीराज्य द्विजेभ्यो दक्षिणां दत्वा आशिषो गृहीत्वा गणेशं विसृज्य नानानामसुवासिनीभ्यो हरिद्रादिफलतांबूलानि दद्यात् ॥ इति कृत्यादिवाकरे प्रथमगर्भिण्या वस्त्रदानादिविधिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP