संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ८९ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ८९ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ८९ Translation - भाषांतर धरण्युवाच ।परमात्मा शिवः पुण्य इति केचिद् भवं विदुः ।अपरे हरिमीशानमिति केचिच्चतुर्मुखम् ॥१॥एतेषां कतमो देवः परः को वाऽथवाऽपरः ।एतद्देव ममाचक्ष्व परं कौतूहलं विभो ॥२॥श्रीवराह उवाच ।परो नारायणो देवस्तस्माज्जातश्चतुर्मुखः ।तस्माद् रुद्रोऽभवद् देवि स च सर्वज्ञतां गतः ॥३॥तस्याश्चर्याण्यनेकानि विविधानि वरानने ।श्रृणु सर्वाणि चार्वङ्गि कथ्यमानं मयाऽनघे ॥४॥कैलासशिखरे रम्ये नानाधातुविचित्रिते ।वसत्यनुदिनं देवः शूलपाणिस्त्रिलोचनः ॥५॥सैकस्मिन् दिवसे देवः सर्वभूतनमस्कृतः ।गणैः परिवृतो गौर्या महानासीत् पिनाकधृक् ॥६॥तत्र सिंहमुखाः केचिद् गणा नर्दन्ति सिंहवत् ।अपरे हस्तिवक्त्राश्च हयवक्त्रास्तथापरे ॥७॥अपरे शिंशुमारास्या अपरे सूकराननाः ।अपरेऽश्वामुखा रौद्रा खरास्याजाननास्तथा ।छागमत्स्याननाः क्रूरा ह्यनन्ताः शस्त्रपाणयः ॥८॥केचिद् गायन्ति नृत्यन्ति धावन्ति स्फोटयन्ति च ।हसन्ति किलकिलायन्ति गर्जन्ति च महाबलाः ॥९॥केचिल्लोष्टांस्तु संगृह्य युयुधुर्गणनायकाः ।अपरे मल्लयुद्धेन युयुधुर्बलदर्पिताः ।एवं गणसहस्त्रेण वृतो देवो महेश्वरः ॥१०॥यावदास्ते स्वयं देव्या क्रीडन् देववरः स्वयम् ।तावद् ब्रह्मा स्वयं देवैरुपायात् सह सत्वरः ॥११॥तमागतमथो दृष्ट्वा पूजयित्वा विधानतः ।उवाच परमो देवो रुद्रो ब्रह्माणमव्यम् ॥१२॥किमागमनकृत्यं ते ब्रह्मन् ब्रूहि ममाचिरम् ।किं च देवास्त्वरायुक्ता आगता मम सन्निधौ ॥१३॥ब्रह्मोवाच ।अस्त्यन्धको महादैत्यस्तेन सर्वे दिवौकसः ।अर्दिता मत्समीपं तु बुद्ध्वा मां शरणैषिणः ॥१४॥ततश्चैते मया सर्वे प्रोक्ता देवा भवं प्रति ।गच्छाम इति देवेश ततस्त्वेते समागताः ॥१५॥एवमुक्त्वा स्वयं ब्रह्मा वीक्षां चक्रे पिनाकिनम् ।नारायणं च मनसा सस्मार परमेश्वरम् ।ततो नारायणो देवो द्वाभ्यां मध्ये व्यवस्थितः ॥१६॥ततस्त्वेकीगतास्ते तु ब्रह्मविष्णुमहेश्वराः ।परस्परं सूक्ष्मदृष्ट्या वीक्षां चक्रुर्मुदायुताः ॥१७॥ततस्तेषां त्रिधा दृष्टिर्भूत्वैका समजायत ।तस्यां दृष्ट्यां समुत्पन्ना कुमारी दिव्यरूपिणी ॥१८॥नीलोत्पलदलश्यामा नीलकुञ्चितमूर्द्धजा ।सुनासा सुललाटान्ता सुवक्त्रा सुप्रतिष्ठिता ॥१९॥त्वष्ट्रा यदग्निजिह्वं तु लक्षणं परिभाषितम् ।तत्सर्वमेकतः संस्थं कन्यायां संप्रदृश्यते ॥२०॥अथ तां दृश्य कन्यां तु ब्रह्मविष्णुमहेश्वराः ।ऊचुः काऽसि शुभे ब्रूहि किं वा कार्यं विपश्चितम् ॥२१॥त्रिवर्णा च कुमारी सा कृष्णशुक्ला च पीतिका ।उवाच भवतां दृष्टेर्योगाज्जाताऽस्मि सत्तमाः ।किं मां न वेत्थ सुश्रोणीं स्वशक्तिं परमेश्वरीम् ॥२२॥ततो ब्रह्मादयस्ते च तस्यास्तुष्टा वरं ददुः ।नाम्नाऽसि त्रिकला देवी पाहि विश्वं च सर्वदा ॥२३॥अपराण्यपि नामानि भविष्यन्ति तवानघे ।गुणोत्थानि महाभागे सर्वसिद्धिकराणि च ॥२४॥अन्यच्च कारणं देवि त्रिवर्णाऽसि वरानने ।मूर्तित्रयं त्रिभिर्वर्णैः कुरु देवि स्वकं द्रुतम् ॥२५॥एवमुक्ता तदा देवैरकरोत् त्रिविधां तनुम् ।सितां रक्तां तथा कृष्णां त्रिमूर्तित्वं जगाम ह ॥२६॥या सा ब्राह्मी शुभा मूर्त्तिस्तया सृजति वै प्रजाः ।सौम्यरूपेण सुश्रोणी ब्रह्मसृष्ट्या विधानतः ॥२७॥या सा रक्तेन वर्णेन सुरूपा तनुमध्यमा ।शङ्खचक्रधरा देवी वैष्णवी सा कला स्मृता ।सा पाति सकलं विश्वं विष्णुमायेति कीर्त्त्यते ॥२८॥या सा कृष्णेन वर्णेन रौद्री मूर्त्तिस्त्रिशूलिनी ।दंष्ट्राकरालिनी देवी सा संहरति वै जगत् ॥२९॥या सृष्टिर्ब्रह्मणो देवी श्वेतवर्णा विभावरी ।सा कुमारी महाभागा विपुलाब्जदलेक्षणा ।सद्यो ब्रह्माणमामन्त्र्य तत्रैवान्तरधीयत ॥३०॥साऽन्तर्हिता ययौ देवी वरदा श्वेतपर्वतम् ।तपस्तप्तुं महत् तीव्रं सर्वगत्वमभीप्सती ॥३१॥या वैष्णवी कुमारी तु साप्यनुज्ञाय केशवम् ।मन्दराद्रिं ययौ तप्तुं तपः परमदुश्चरम् ॥३२॥या सा कृष्णा विशालाक्षी रौद्री दंष्ट्राकरालिनी ।सा नीलपर्वतवरं तपश्चर्तुं ययौ शुभा ॥३३॥अथ कालेन महता प्रजाः स्त्रष्टुं प्रजापतिः ।आरब्धवान् तदा तस्य ववृधे सृजतो बलम् ॥३४॥यदा न ववृधे तस्य ब्रह्मणो मानसी प्रजा ।तदा दध्यौ किमेतन्मे न तथा वर्द्धते प्रजा ॥३५॥ततो ब्रह्मा हृदा दध्यौ योगाभ्यासेन सुव्रते ।चिन्तयन् बुबुधे देवस्तां कन्यां श्वेतपर्वते ।तपश्चरन्तीं सुमहत् तपसा दग्धकिल्बिषाम् ॥३६॥ततो ब्रह्मा ययौ तत्र यत्र सा कमलेक्षणा ।तपश्चरति तां दृष्ट्वा वाक्यमेतदुवाच ह ॥३७॥ब्रह्मोवाच ।किं तपः क्रियते भद्रे कार्यमावेक्ष्य शोभते ।तुष्टोऽस्मि ते विशालाक्षि वरं किं ते ददाम्यहम् ॥३८॥सृष्टिरुवाच ।भगवन्नेकदेशस्था नोत्सहे स्थातुमञ्जसा ।अतोऽर्थं त्वां वरं याचे सर्वगत्वमभीप्सती ॥३९॥एवमुक्तस्तदा देव्या सृष्ट्या ब्रह्मा प्रजापतिः ।उवाच तां तदा देवीं सर्वगा त्वं भविष्यसि ॥४०॥एवमुक्ता तदा तेन सृष्टिः सा कमलेक्षणा ।तस्य ह्यङ्के लयं प्राप्ता सा देवी पद्मलोचना ।तस्मादारभ्य कालात् तु ब्राह्मी सृष्टिर्व्यवर्द्धत ॥४१॥ब्रह्मणो मानसाः सप्त तेषामन्ये तपोधनाः ।तेषामन्ये ततस्त्वन्ये चतुर्द्धा भूतसंग्रहः ।सस्थाणुजङ्गमानां च सृष्टिः सर्वत्र संस्थिता ॥४२॥यत्किंचिद् वाङ्मयं लोके जगत्स्थावरजङ्गमम् ।तत्सर्वं स्थापितं सृष्ट्या भूतं भव्यं च सर्वदा ॥४३॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकोननवतितमोऽध्यायः ॥८९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP