वराहपुराणम् - अध्यायः ४३
'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे.
दुर्वासा उवाच ।
एवमेव मुने मासि चैत्रे संकल्प्य द्वादशीम् ।
उपोष्याराधयेत् पश्चात् देवदेवं जनार्दनम् ॥१॥
वामनायेति पादौ तु विष्णवे कटिमर्चयेत् ।
वासुदेवेति जठरमुरः संपूर्णकाय च ॥२॥
कण्ठं विश्वकृते पूज्य शिरो वै व्योमरूपिणे ।
बाहू विश्वजिते पूज्य स्वनाम्ना शंखचक्रकौ ॥३॥
अनेन विधिनाभ्यर्च्य देवदेवं सनातनम् ।
प्राग्वदेवोत्तरं कुम्भं सयुग्मं पुरतो न्यसेत् ॥४॥
प्रागुक्तपात्रे संस्थाप्य वामनं काञ्चनं बुधः ।
यथाशक्त्या कृतं ह्रस्वं सितयज्ञोपवीतिनम् ॥५॥
कुण्डिकां स्थापयेत् पार्श्वे छत्रिकां पादुके तथा ।
अक्षमालां च संस्थाप्य वृसिकां च विशेषतः ॥६॥
एतैरुपस्करैर्युक्तं प्रभाते स द्विजातये ।
दापयेत् प्रीयतां विष्णुर्ह्रस्वरूपीत्युदीरयेत् ॥७॥
मासनाम्ना तु संयुक्तं प्रादुर्भावविधानकम् ।
प्रीयतामिति सर्वत्र विधिरेष प्रकीर्तितः ॥८॥
श्रूयते च पुरा राजा हर्यश्वः पृथिवीपतिः ।
अपुत्रः स तपस्तेपे पुत्रमिच्छंस्तपोधनम् ॥९॥
तस्यैव कुर्वतो व्युष्टिं पुत्रार्थे मुनिसत्तम ।
आजगाम हरिः पूर्वं द्विजरूपं समाश्रितः ॥१०॥
उवाच तपसा राजन् किं ते व्यवसितं प्रभो ।
पुत्रार्थमिति प्रोवाच तं विप्रः प्रत्युवाच ह ॥११॥
इदमेव विधानं तु कुरु राजन्नुवाच ह ।
एवमुक्त्वा तु राजानं क्षणादन्तर्हितः प्रभुः ॥१२॥
राजाऽपि तं चकाराशु मन्त्रवन्तं द्विजातये ।
दरिद्राय तथा प्रादात् ज्योतिर्गार्गाय धीमते ॥१३॥
यथादितेरपुत्रायाः स्वयं पुत्रत्वमागतः ।
भगवंस्तेन सत्येन ममाप्यस्तु सुतो वरः ॥१४॥
अनेन विधिना दत्ते तस्य पुत्रोऽभवन्मुने ।
कुवलाश्व इति ख्यातश्चक्रवर्ती महाबलः ॥१५॥
अपुत्रो लभते पुत्रमधनो लभते धनम् ।
भ्रष्टराज्यो लभेद् राज्यं मृतो विष्णुपुरं व्रजेत् ॥१६॥
कीर्त्तित्वा सुचिरं तत्र इह मर्त्यमुपागतः ।
चक्रवर्ती भवेद् धीमान् ययातिरिव नाहुषः ॥१७॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्रयश्चत्वारिंशोऽध्यायः ॥४३॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP