संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ७ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ७ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ७ Translation - भाषांतर धरण्युवाच ।रैभ्योऽसौ मुनिशार्दूलः श्रुत्वा सिद्धं वसुं तदा ।स्वयं किमकरोद् देव संशयो मे महानयम् ॥१॥श्रीवराह उवाच ।स रैभ्यो मुनिशार्दूलः श्रुत्वा सिद्धं वसुं तदा ।आजगाम गयां पुण्यां पितृतीर्थं तपोधनः ।तत्र गत्वा पितॄन् भक्त्या पिण्डदानेन तर्पयत् ॥२॥ततो वै सुहमत्तीव्रं तपः परमदुश्चरम् ।चरतस्तस्य तत्तीव्रं तपो रैभ्यस्य धीमतः ।आजगाम महायोगी विमानस्थोऽतिदीप्तिमान् ॥३॥त्रसरेणुसमे शुद्धे विमाने सूर्यसन्निभे ।परमाणुप्रमाणेन पुरुषस्तत्र दीप्तिमान् ॥४॥सोऽब्रवीद् रैभ्य किं कार्यं तपश्चरसि सुव्रत ।एवमुक्त्वा दिवो भूमिं मापयामास वै पुमान् ॥५॥तत्रापि रथपञ्चाभं विमानं सूर्यसन्निभम् ।युगपद् ब्रह्मभुवनं व्याप्नुवन्तं ददर्श सः ॥६॥ततः स विस्मयाविष्टो रैभ्यः प्रणतिपूर्वकम् ।पप्रच्छ तं महायोगिन् को भवान् प्रब्रवीतु मे ॥७॥पुरुष उवाच ।अहं रुद्रादवरजो ब्रह्मणो मानसः सुतः ।नाम्ना सनत्कुमारेति जनलोके वसाम्यहम् ॥८॥भवतः पार्श्वमायातः प्रणयेन तपोधन ।धन्योऽसि सर्वथा वत्स ब्रह्मणः कुलवर्धनः ॥९॥रैभ्य उवाच ।नमोऽस्तु ते योगिवर प्रसीददयां मह्यं कुरुषे विश्वरूप ।किमत्र कृत्यं वद योगिसिंहकथं हि धन्योऽहमुक्तस्त्वया च ॥१०॥सनत्कुमार उवाच ।धन्यस्त्वमेव द्विजवर्यमुख्ययद् वेदवादाभिरतः पितॄंश्च ।प्रीणासि मन्त्रव्रतजप्यहोमै-र्गयां समासाद्य तथाऽन्नपिण्डैः ॥११॥श्रृणुष्व चान्यं नृपतिर्बभूवविशालनामा स पुरीं विशालाम् ।उवास धन्यो धृतिमानपुत्रःस्वयं विशालाधिपतिर्द्विजाग्र्यान् ।पप्रच्छ पुत्रार्थममित्रसाह -स्ते ब्राह्मणाश्चोचुरदीनसत्त्वाः ॥१२॥र्गत्वा गयामन्नदानैरनेकैः ।ध्रुवं सुतस्ते भविता नृपेशसुसंप्रदाता सकलक्षितीशः ॥१३॥इतीरितो ब्राह्मणैः स प्रहृष्टोराजा विशालाधिपतिः प्रयत्नात् ।आगत्य तेन प्रवरेण तीर्थेमघासु भक्त्याऽथ कृतं पितॄणाम् ॥१४॥पिण्डप्रदानं विधिना प्रयत्ना-ददद्वियत्युत्तममूर्तयस्तान् ।पश्यन् स पुंसः सितपीतकृष्णा-नुवाच राजा किमिदं भवद्भिः ।उपेक्ष्यते शंसत सर्वमेवकौतूहलं मे मनसि प्रवृत्तम् ॥१५॥सित उवाच ।अहं सितस्ते जनकोऽस्मि तातनाम्ना च वृत्तेन च कर्मणा च ।अयं च मे जनको रक्तवर्णोनृशंसकृद् ब्रह्महा पापकारी ॥१६॥अधीश्वरो नाम परः पिताऽस्यकृष्णो वृत्त्या कर्मणा चापि कृष्णः ।एतेन कृष्णेन हताः पुरा वैजन्मन्यनेके ऋषयः पुराणाः ॥१७॥एतौ मृतौ द्वावपि पुत्र रौद्र-मवीचिसंज्ञं नरकं प्रपन्नौ ।अधीश्वरो मे जनकः परोऽस्यकृष्णः पिता द्वावपि दीर्घकालम् ।अहं च शुद्धेन निजेन कर्मणाशक्रासनं प्रापितो दुर्लभं ततः ॥१८॥त्वया पुनर्मन्त्रविदा गयायांपिण्डप्रदानेन बलादिमौ च ।मेलापितौ तीर्थपिण्डप्रदान -प्रभावतो मे नरकाश्रितावपि ॥१९॥पितॄन् पितामहांस्तत्र तथैव प्रपितामहान् ।प्रीणयामीति तत्तोयं त्वया दत्तमरिंदम ॥२०॥तेनास्मद्युगपद्योगो जातो वाक्येन सत्तम ।तीर्थप्रभावाद् गच्छामः पितृलोकं न संशयः ॥२१॥अत्र पिण्डप्रदानेन एतौ तव पितामहौ ।दुर्गतावपि संसिद्धौ पापकृद्विकृतिं गतौ ॥२२॥तीर्थप्रभाव एषोऽस्मिन् ब्रह्मघ्नस्यापि तत्सुतः ।पुतः पिण्डप्रदानेन कुर्यादुद्धरणं पुनः ॥२३॥एतस्मात् कारणात् पुत्र अहमेतौ विगृह्य वै ।आगतोऽस्मि भवन्तं वै द्रष्टुं यास्यामि साम्प्रतम् ।एतस्मात् कारणाद् रैभ्य भवान् धन्यो मयोच्यते ॥२४॥सकृद् गयाभिगमनं सकृत्पिण्डप्रदापनम् ।दुर्लभं त्वं पुनर्नित्यमस्मिन्नेव व्यवस्थितः ॥२५॥किमनु प्रोच्यते रैभ्य तव पुण्यमिदं प्रभो ।येन साक्षाद् गदापाणिर्दृष्टो नारायणः स्वयम् ॥२६॥ततो गदाधरः साक्षादस्मिंस्तीर्थे व्यवस्थितः ।अतोऽतिविख्याततमं तीर्थमेतद् द्विजोत्तम ॥२७॥श्रीवराह उवाच ।एवमुक्त्वा महायोगी तत्रैवान्तरधीयत ।रैभ्योऽपि च गदापाणेर्हरेः स्तोत्रमथाकरोत् ॥२८॥रैभ्य उवाच ।गदाधरं विबुधजनैरभिष्टुतंधृतक्षमं क्षुधितजनार्त्तिनाशनम् ।शिवं विशालासुरसैन्यमर्दनंनमाम्यहं हतसकलाशुभं स्मृतौ ॥२९॥पुराणपूर्वं पुरुषं पुरुष्टृतंपुरातनं विमलमलं नृणां गतिम् ।त्रिविक्रमं धृतधरणिं बलेर्हंगदाधरं रहसि नमामि केशवम् ॥३०॥सुशुद्धभावं विभवैरुपावृतंश्रियावृतं विगतमलं विचक्षणम् ।क्षितीश्वरैरपगतकिल्बिषैः स्तुतंगदाधरं प्रणमति यः सुखं वसेत् ॥३१॥सुरासुरैरर्च्चितपादपङ्कजंकेयूरहाराङ्गदमौलिधारिणम् ।अब्धौ शयानं च रथाङ्गपाणिनंगदाधरं प्रणमति यः सुखं वसेत् ॥३२॥सितं कृते त्रेतायुगेऽरुणं विभुंतथा तृतीये पीतवर्णमच्युतम् ।कलौ घनालिप्रतिमं महेश्वरंगदाधरं प्रणमति यः सुखं वसेत् ॥३३॥बीजोद्भवो यः सृजते चतुर्मुख-स्तथैव नारायणरूपतो जगत् ।प्रपालयेद् रुद्रवपुस्तथान्तकृद्गदाधरो जयतु षडर्द्धमूर्तिमान् ॥३४॥सत्त्वं रजश्चैव तमो गुणास्त्रय-स्त्वेतेषु नान्यस्य समुद्भवः किल ।स चैक एव त्रिविधो गदाधरोदधातु धैर्यं मम धर्ममोक्षयोः ॥३५॥संसारतोयार्णवदुःखतन्तुभि-र्वियोगनक्रक्रमणैः सुभीषणैः ।मज्जन्तमुच्चैः सुतरां महाप्लवेगदाधरो मामु दधातु पोतवत् ॥३६॥स्वयं त्रिमूर्तिः स्वमिवात्मनात्मनिस्वशक्तितश्चाण्डमिदं ससर्ज्ज ह ।तस्मिञ्जलोत्थासनमार्यतेजसंससर्ज्ज यस्तं प्रणतोऽस्मि भूधरम् ॥३७॥मत्स्यादिनामानि जगत्सु केवलंसुरादिसंरक्षणतो वृषाकपिः ।मुख्यस्वरूपेण समन्ततो विभु-र्गदाधरो मे विदधातु सद्गतिम् ॥३८॥श्रीवराह उवाच ।एवं स्तुतस्तदा विष्णुर्भक्त्या रैभ्येण धीमता ।प्रादुर्बभूव सहसा पीतवासा जनार्दनः ॥३९॥शङ्खचक्रगदापाणिर्गरुडस्थो वियद्गतः ।उवाच मेघगम्भीरधीरवाक् पुरुषोत्तमः ॥४०॥तुष्टोऽस्मि रैभ्य भक्त्या ते स्तुत्या च द्विजसत्तम ।तीर्थस्नानेन च विभो ब्रूहि यत्तेऽभिवाञ्छितम् ॥४१॥रैभ्य उवाच ।गतिं मे देहि देवेश यत्र ते सनकादयः ।वसेयं तत्र येनाहं त्वत्प्रसादाद् गदाधर ॥४२॥देव उवाच ।एवमस्त्विति ते ब्रह्मन्नित्युक्त्वाऽन्तरधीयत ।भगवानपि रैभ्यस्तु दिव्यज्ञानसमन्वितः ॥४३॥क्षणाद् बभूव देवेन परितुष्टेन चक्रिणा ।जगाम यत्र ते सिद्धाः सनकाद्या महर्षयः ॥४४॥एतच्च रैभ्यनिर्द्दिष्टं स्तोत्रं विष्णोर्गदाभृतः ।यः पठेत् स गयां गत्वा पिण्डदानाद् विशिष्यते ॥४५॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे सप्तमोऽध्यायः ॥७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP