संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|वराहपुराणम्| अध्यायः ५ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ५ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ५ Translation - भाषांतर अश्वशिरा उवाच ।भवन्तौ मम संदेहमेकं छेत्तुमिहार्हतः ।येन छिन्नेन जायेत मम संसारविच्युतिः ॥१॥एवमुक्ते नृपतिना तदा योगिवरो मुनिः ।कपिलः प्राह धर्मात्मा राजानं यजतां वरम् ॥२॥कपिल उवाच ।कस्ते मनसि संदेहो राजन् परमधार्मिक ।छिन्दामि येन तच्छ्रुत्वा ब्रूहि यत्तेऽभिवाञ्छितम् ॥३॥राजोवाच ।कर्मणा प्राप्यते मोक्ष उताहो ज्ञानिना मुने ।एतन्मे संशयं छिन्धि यदि मेऽनुग्रहः कृतः ॥४॥कपिल उवाच ।इमं प्रश्नं महाराज पुरा पृष्टो बृहस्पतिः ।रैभ्येण ब्रह्मपुत्रेण राज्ञा च वसुना पुरा ।वसुरासीन्नृपश्रेष्ठो विद्वान् दानपतिः पुरा ॥५॥चाक्षुषस्य मनोः काले ब्रह्मणोऽन्वयवर्द्धनः ।वसुश्च ब्रह्मणः सद्म गतवांस्तद्दिदृक्षया ॥६॥पथि चैत्ररथं दृष्ट्वा विद्याधरवरं नृप ।अपृच्छच्च वसुः प्रीत्या ब्रह्मणोऽवसरं प्रभो ॥७॥सोऽब्रवीद् देवसमितिर्वर्तते ब्रह्मणो गृहे ।एवं श्रुत्वा वसुस्तस्थौ द्वारि ब्रह्मौकसस्तदा ।तावत् तत्रैव रैभ्यस्तु आजगाम महातपाः ॥८॥स राजा प्रीतमनसा वसुः संपूर्णमानसः ।उवाच पूजयित्वाग्रे क्व प्रयातोऽसि वै मुने ॥९॥रैभ्य उवाच ।अहं बृहस्पतेः पार्श्वे आगतोऽस्मि महानृप ।किञ्चित्कार्यान्तरं प्रष्टुमहं देवपुरोहितम् ॥१०॥एवं वदति रैभ्ये तु ब्रह्मणस्तन्महत्सदः ।उत्तस्थौ स्वानि धिष्ण्यानि गता देवगणाः प्रभो ॥११॥तावद् बृहस्पतिस्तत्र रैभ्येण सह संविदम् ।कृत्वा स्वधिष्ण्यमगमद् वसुना च सुपूजितः ॥१२॥रैभ्य आङ्गिरसो राजा वसुश्चोपविवेश ह ।उपविष्टेषु राजेन्द्र तेषु तेष्वपि सोऽब्रवीत् ॥१३॥बृहस्पतिर्देवगुरू रैभ्यं वचनमन्तिके ।किं करोमि महाभाग वेदवेदाङ्गपारग ॥१४॥रैभ्य उवाच ।बृहस्पते कर्मणा किं प्राप्यते ज्ञानिनाऽथवा ।मोक्ष एतन्ममाचक्ष्व पृच्छतः संशयं प्रभो ॥१५॥बृहस्पतिरुवाच ।यत्किंचित् कुरुते कर्म पुरुषः साध्वसाधु वा ।सर्वं नारायणे न्यस्य कुर्वन् नैव च लिप्यते ॥१६॥श्रूयते च द्विजश्रेष्ठ संवादो विप्रलुब्धयोः ।आत्रेयो ब्राह्मणः कश्चिद् वेदाभ्यासरतो मुनिः ॥१७॥वसत्यविरतं प्रातःस्नायी त्रिषवणे रतः ।नाम्ना संयमनः पूर्वमेकस्मिन् दिवसे नदीम् ।धर्मारण्ये गतः स्नातुं धन्यां भागीरथीं शुभाम् ॥१८॥तत्रासीनं महायूथं हरिणानां विचक्षणः ।लुब्धो निष्ठुरको नाम धनुःपाणिः कृतान्तवत् ।आययौ तं जिघांसुः स धनुष्यायोज्य सायकम् ॥१९॥ततः संयमनो विप्रो दृष्ट्वा तं मृगयारतम् ।वारयामास मा भद्र जीवघातमिमं कुरु ॥२०॥एतच्छ्रुत्वा वचो व्याधः स्मितपूर्वमिदं वचः ।उवाच नाहं हिंसामि पृथग्जीवं द्विजोत्तम ॥२१॥परमात्मा त्वयं भूतैः क्रीडते भगवान् स्वयम् ।कृता मृदा बलीवर्द्दास्तद्वदेतन्न संशयः ॥२२॥अहे भावः सदा ब्रह्मन्नविद्येयं मुमुक्षुणाम् ।यात्राप्राणरतं सर्वं जगदेतद् विचेष्टितम् ।तत्राहमिति यः शब्दः स साधुत्वं न गच्छति ॥२३॥इत्याकर्ण्य स विप्रेन्द्रो द्विजः संयमनस्तदा ।विस्मयेनाब्रवीद् वाक्यं लुब्धं निष्ठुरकं द्विजः ॥२४॥किमेतदुच्यते भद्र प्रत्यक्षं हेतुमद्वचः ।ततः श्रुत्वा मुनेर्विप्रं लुब्धकः प्राह धर्मवित् ।कुत्वा लोहमयं जालं तस्याधो ज्वलनं ददौ ॥२५॥दत्त्वा वह्निं द्विजं प्राह ज्वाल्यतां काष्ठसचयः ।ततो विप्रो मुखेनाग्निं प्रज्वाल्य विरराम ह ॥२६॥ज्वलिते तु पुनर्वह्नौ तं जालं लोहसंभवम् ।पृथक्पृथक् सहस्त्राणि निन्येऽन्तर्जालकैर्द्विज ।एकस्थानगतस्यापि वह्नेरायसजालकैः ॥२७॥ततो लुब्धोऽब्रवीद्विप्रमेकां ज्वालां महामुने ।गृहाण येन शेषाणां करिष्यामीह नाशनम् ॥२८॥एवमुक्त्वा हुताशे तु तोयपूर्णं घटं द्रुतम् ।चिक्षेप सहसा वह्निः प्रशशामाशु पूर्ववत् ॥२९॥ततोऽब्रवील्लुब्धकस्तु ब्राह्मणं तं तपोधनम् ।भगवन् या त्वया ज्वाला गृहोतासीद्धुताशनात् ।प्रयच्छ येन मार्गाणि मांसान्यानाय्य भक्षये ॥३०॥एवमुक्तस्तदा विप्रो यावदायसजालकम् ।पश्यत्येव न तत्राग्निर्मूलनाशे गतः क्षयम् ॥३१॥ततो विलक्षभावेन ब्राह्मणः शंसितव्रतः ।तूष्णींभूतस्थितस्तावल्लुब्धको वाक्यमब्रवीत् ॥३२॥एतस्मिञ्ज्वलितो वह्निर्बहुशाखश्च सत्तम ।मूलनाशे भवेन्नाशस्तद्वदेतदपि द्विज ॥३३॥आत्मा स प्रकृतिस्थश्च भूतानां संश्रयो भवेत् ।भूय एषा जगत्सृष्टिस्तत्रैव जगतो भवेत् ॥३४॥पिण्डग्रहणधर्मेण यदस्य विहितं व्रतम् ।तत्तदात्मनि संयोज्य कुर्वाणो नावसीदति ॥३५॥एवमुक्ते तु व्याधेन ब्राह्मणे राजसत्तम ।पुष्पवृष्टिरथाकाशात् तस्योपरि पपात ह ॥३६॥विमानानि च दिव्यानि कामगानि महान्ति च ।बहुरत्नानि मुख्यानि ददृशे ब्राह्मणोत्तमः ॥३७॥तेषु निष्ठुरकं लुब्धं सर्वेषु समवस्थितम् ।ददृशे ब्राह्मणस्तत्र कामरूपिणमुत्तमम् ॥३८॥अद्वैतवासनासिद्धं योगाद् बहुशरीरकम् ।दृष्ट्वा विप्रो मुदा युक्तः प्रययौ निजमाश्रमम् ॥३९॥एवं ज्ञानवतः कर्म्म कुर्वतोऽपि स्वजातिकम् ।भवेन्मुक्तिर्द्विजश्रेष्ठ रैभ्य राजन् वसो ध्रुवम् ॥४०॥एवं तौ संशयच्छेदं प्राप्तौ रैभ्यवसू नृप ।बृहस्पतेस्ततो धिष्ण्याज्जग्मतुर्निजमाश्रमम् ॥४१॥तस्मात् त्वमपि राजेन्द्र देवं नारायणं प्रभुम् ।अभेदेन स्वदेहस्थं पश्यन्नाराधय प्रभुम् ॥४२॥कपिलस्य वचः श्रुत्वा स राजाऽश्वशिरा विभुः ।ज्येष्ठं पुत्रं समाहूय धन्यं स्थूलशिराह्वयम् ।अभिषिच्य निजे राज्ये स राजा प्रययौ वनम् ॥४३॥नैमिषाख्यं वरारोहे तत्र यज्ञतनुं गुरुम् ।तपसाराधयामास यज्ञमूर्तिं स्तवेन च ॥४४॥धरण्युवाच ।कथं यज्ञतनोः स्तोत्रं राज्ञा नारायणस्य ह ।स्तुतिः कृता महाभाग पुनरेतच्च शंस मे ॥४५॥श्रीवराह उवाच ।नमामि याज्यं त्रिदशाधिपस्यभवस्य सूर्यस्य हुताशनस्य ।सोमस्य राज्ञो मरुतामनेक-रूपं हरिं यज्ञनरं नमस्ये ॥४६॥सुभीमदंष्ट्रं शशिसूर्यनेत्रंसंवत्सरे चायनयुग्मकुक्षम् ।दर्भाङ्गरोमाणमथेध्मशक्तिंसनातनं यज्ञनरं नमामि ॥४७॥द्यावापृथिव्योरिदमन्तरं हिव्याप्तं शरीरेण दिशश्च सर्वाः ।तमीड्यमीशं जगतां प्रसूतिंजनार्दनं तं प्रणतोऽस्मि नित्यम् ॥४८॥सुरासुराणां च जयाजयाययुगे युगे यः स्वशरीरमाद्यम् ।सृजत्यनादिः परमेश्वरो य-स्तं यज्ञमूर्तिं प्रणतोऽस्मि नाथम् ॥४९॥दधार मायामयमुग्रतेजाजयाय चक्रं त्वमलांशुशुभ्रम् ।गदासिशार्ङ्गादिचतुर्भुजोऽयंतं यज्ञमूर्तिं प्रणतोऽस्मि नित्यम् ॥५०॥क्वचित् सहस्त्रं शिरसां दधारक्वचिन्महापर्वततुल्यकायम् ।क्वचित् स एव त्रसरेणुतुल्योयस्तं सदा यज्ञनरं नमामि ॥५१॥चतुर्मुखो यः सृजते समग्रंरथाङ्गपाणिः प्रतिपालनाय ।क्षयाय कालानलसन्निभो य-स्तं यज्ञमूर्तिं प्रणतोऽस्मि नित्यम् ॥५२॥संसारचक्रक्रमणक्रियायैय इज्यते सर्वगतः पुराणः ।यो योगिभिर्ध्यायते चाप्रमेयस्तं यज्ञमूर्तिं प्रणतोऽस्मि नित्यम् ॥५३॥सम्यङ्मनस्यर्पितवानहं तेयदा सुदृश्यं स्वतनौ नु तत्त्वम् ।न चान्यदस्तोति मतिः स्थिरा मेयतस्ततो मावतु शुद्धभावम् ॥५४॥इतीरितस्तस्य हुताशनार्चिः -प्रख्यं तु तेजः पुरतो बभूव ।तस्मिन् स राजा प्रविवेश बुद्धिंकृत्वा लयं प्राप्तवान् यज्ञमूर्तौ ॥५५॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चमोऽध्यायः ॥५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP