संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः २१ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः २१ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः २१ Translation - भाषांतर महातपा उवाच ।पूर्वं प्रजापतिर्देवः सिसृक्षुर्विविधाः प्रजाः ।चिन्तयामास धर्मात्मा यदा ता नाध्यगच्छत ॥२॥तदाऽस्य कोपात् संजज्ञे स च रुद्रः प्रतापवान् ।रोदनात् तस्य रुद्रत्वं संजातं परमेष्ठिनः ॥३॥तस्य ब्रह्मा शुभां कन्यां भार्यार्थं मूर्त्तिसंभवाम् ।गौरी नाम्ना स्वयं देवी भारती तां ददौ पिता ॥४॥रुद्रायामितदेहाय स्वयं ब्रह्मा प्रजापतिः ।स तां लब्ध्वा वरारोहां मुदा परमया युतः ॥५॥सर्गकालेषु तं ब्रह्मा तपसा प्रत्युवाच ह ।रुद्र प्रजाः सृजस्वेति पौनःपुन्येन चोदितः ।असमर्थोऽहमिति जले निमज्जत महाबलः ॥६॥तपोर्थित्वं तपोहीनः स्त्रष्टुं शक्नोति न प्रजाः ।एवं चिन्त्य जले मग्नस्ततो रुद्रः प्रतापवान् ॥७॥तस्मिन् निमग्ने देवेशे तां ब्रह्मा कन्यकां पुनः ।अन्तःशरीरगां कृत्वा गौरीं परमशोभनाम् ॥८॥पुनः सिसृक्षुर्भगवानसृजत् सप्त मानसान् ।दक्षं च तेषामारभ्य प्रजाः सम्यग् व्यवर्द्धिताः ॥९॥तत्र दाक्षायणीपुत्राः सर्वे देवाः सवासवाः ।वसवोऽष्टौ च रुद्राश्च आदित्या मरुतस्तथा ॥१०॥साऽपि दक्षाय सुश्रोणी गौरी दत्ताथ ब्रह्मणा ।दुहितृत्वे पुरा या हि रुद्रेणोढा महात्मना ॥११॥सा च दाक्षायणी देवी पुनर्भूता नृपोत्तम ।ततो दक्षः प्रहृष्टात्मा दौहित्रान् स्वान् स वृद्धिकृत् ।दृष्ट्वा यज्ञमथारेभे प्रीणनाय प्रजापतिः ॥१२॥तत्र ब्रह्मसुताः सर्वे मरीच्यादय एव च ।चक्रुरार्त्त्विज्यकं कर्म्म स्वे स्वे मार्गे व्यवस्थिताः ॥१३॥ब्रह्मा स्वयं मरीच्यस्तु बभूवाऽन्ये तथापरे ।अत्रिस्तु यज्ञकर्मस्थ आग्नीध्रस्त्वङ्गिरा भवत् ॥१४॥होता पुलस्त्यस्त्वभवदुद्गाता पुलहोऽभवत् ।क्रतौ क्रतुस्तु प्रस्तोता तदा यज्ञे महातपाः ॥१५॥प्रतिहर्ता प्रचेतास्तु तस्मिन् क्रतुवरे बभौ ।सुब्रह्मण्यो वसिष्ठस्तु सनकाद्याः सभासदः ।तत्र याज्यः स्वयं ब्रह्मा स च इज्यस्तु पूज्यते ॥१६॥पूज्या दक्षस्य दौहित्रा रुद्रादित्याङ्गिरादयः ।प्रत्यक्षपितरस्ते हि तैः प्रीतैः प्रीयते जगत् ॥१७॥तत्र भागार्थिनो देवा आदित्या वसवस्तथा ।विश्वेदेवाः सपितरो गन्धर्वाद्या मरुद्गणाः ॥१८॥जगृहुर्यज्ञभागान् स्वान् यावत् ते हविषोर्पितान् ।तावत्कालं जलात् सद्य उत्तस्थौ ब्रह्मणः पुनः ॥१९॥रुद्रः कोपोद्भवो यस्तु पूर्वं मग्नो महाजले ।स सहस्त्रार्कसंकाशो निश्चक्राम जलात् ततः ॥२०॥सर्वज्ञानमयो देवः सर्वदेवमयोऽमलः ।प्रत्यक्षदर्शी सर्वस्य जगतस्तपसा बभौ ॥२१॥तस्मिंस्तु काले पञ्चानां जातः सर्गो नरोत्तम ।दिव्यानां पृथिवीस्थानां चतुर्णामरजातिनाम् ॥२२॥रौद्रसर्गस्य संभूतिस्तदा सद्योऽपि जायते ।इदानीं रुद्रसर्गं त्वं श्रृणु पार्थिवसत्तम ॥२३॥दशवर्षसहस्त्राणि तपश्चीर्त्वा महज्जले ।प्रतिबुद्धो यदा रुद्रस्तदा चोर्वों सकाननाम् ।दृष्ट्वा सस्यवतीं रम्यां मनुष्यपशुसंकुलाम् ॥२४॥शुश्राव च तदा शब्दानृत्विजां दक्षसद्मनि ।आश्रमे यज्ञिनां चोच्चैर्योगस्थैरिति कीर्त्तितम् ॥२५॥ततः श्रुत्वा महातेजाः सर्वज्ञः परमेश्वरः ।चुकोप सुभृशं देवो वाक्यं चेदमुवाच ह ॥२६॥अहं पूर्वं तु कविना सृष्टः सर्वात्मना विभुः ।प्रजाः सृजस्वेति तदा वाक्यमेतत् तथोक्तवान् ॥२७॥इदानीं केन तत्कर्म कृतं सृष्ट्यादिवर्णनम् ।एवमुक्त्वा भृशं कोपान्ननाद परमेश्वरः ॥२८॥तस्य नानदतो ज्वालाः श्रोत्रेभ्यो निर्ययुस्तदा ।तत्र भूतानि वेताला उच्छ्रुष्माः प्रेतपूतनाः ॥२९॥कूष्माण्डा यातुधानाश्च सर्वे प्रज्वलिताननाः ।उत्तस्थुः कोटिशस्तत्र नानाप्रहरणावृताः ॥३०॥ते दृष्ट्वा भूतसंघाता विविधायुधपाणयः ।ससर्ज वेदविद्याङ्गं रथं परमशोभनम् ॥३१॥तस्मिन्नृगादयस्त्वश्वास्त्रितत्त्वं च त्रिवेणुकम् ।त्रिपूजकं त्रिषवणं धर्माक्षं मारुतध्वनिम् ॥३२॥अहोरात्रे पताके द्वे धर्माधर्मे तु दण्डके ।शकटं सर्वविद्याश्च स्वयं ब्रह्मादिसारथिः ॥३३॥गायत्री च धनुस्तस्य ओङ्कारो गुण एव च ।स्वराः सप्त शरास्तस्य देवदेवस्य सुव्रत ॥३४॥एवं कृत्वा स सामग्रीं देवदेवः प्रतापवान् ।जगाम दक्षयज्ञाय कोपाद् रुद्रः प्रतापवान् ॥३५॥गच्छतस्तस्य देवस्य अम्बराङ्गिरसं नयत् ।ऋत्विजां मन्त्रनिचयो नष्टो रुद्रागमे तदा ॥३६॥विपरीतमिदं दृष्ट्वा तदा सर्वे च ऋत्विजः ।ऊचुः संनह्यतां देवा महद् वो भयमागतम् ॥३७॥कश्चिदायाति बलवानसुरो ब्रह्मनिर्मितः ।यज्ञभागार्थमेतस्मिन् क्रतौ परमदुर्लभम् ॥३८॥एवमुक्तास्ततो देवा ऊचुर्मातामहं तदा ।दक्ष तात किमत्रास्मत्कार्यं ब्रूहि विवक्षितम् ॥३९॥दक्ष उवाच ।गृह्यन्तां द्रुतमस्त्राणि संग्रामोऽत्र विधीयताम् ।एवमुक्ते तदा देवैर्विविधायुधधारिभिः ।रुद्रस्यानुचरैः सार्धं महद्युद्धं प्रवर्तितम् ॥४०॥तत्र वेतालभूतानि कूष्माण्डा ग्रहपूतनाः ।युयुधुर्लोकपालैश्च नानाशस्त्रधराणि च ॥४१॥देवा रौद्राणि भूतानि निरसन्तो यमालयम् ।चिक्षिपुः सायकान् घोरानसींश्च सपरश्वधान् ॥४२॥भूतान्यपि मृधे धोराण्युल्मुकैरस्थिभिः शरैः ।जग्मुर्देवान् मृधे रोषाद् रुद्रस्य पुरतो बलात् ॥४३॥ततस्तस्मिन् महारौद्रे संग्रामे भीमरूपिणि ।रुद्रो भगस्य नेत्रे तु बिभेदैकेषुणा मृधे ॥४४॥रुद्रस्य शरपातेन नष्टनेत्रं भगं तदा ।दृष्ट्वाऽस्य क्रोधात् तेजस्वी पूषा रुद्रमयोधयत् ॥४५॥सृजन्तमिषुजालानि पूषणं तु महामृधे ।दृष्ट्वा रुद्रोऽस्य दन्तांस्तु चकर्षं परवीरहा ॥४६॥तस्य दन्तांस्तदा दृष्ट्वा पूष्णो रुद्रेण पातितान् ।दुद्रुवुः वसवो दिक्षु रुद्रास्त्वेकादश द्रुतम् ॥४७॥तान् भग्नान् सहसा दिक्षु दृष्ट्वा विष्णुः प्रतापवान् ।आदित्यावरजो वाक्यमुवाच स्वबलं तदा ॥४८॥क्व यात पौरुषं त्यक्त्वा दर्पं माहात्म्यमेव च ।व्यवसायं कुलं भूतिं कथं न स्मर्यते द्रुतम् ॥४९॥परमेष्ठिगुणैर्युक्तो लघुवद्भीतितः पुरा ।नमस्कं कुरुते मोघं पृथिव्यां पद्मजः स्वयम् ॥५०॥एवमुक्त्वा गरुत्मन्तमारुरोह हरिस्तदा ।शङ्खचक्रगदापाणिः पीतवासा जनार्दनः ॥५१॥ततो हरिहरं युद्धमभवल्लोमहर्षणम् ।रुद्रः पाशुपतास्त्रेण विव्याध हरिमोजसा ।हरिर्नारायणास्त्रेण रुद्रं विव्याध कोपवान् ॥५२॥नारायणं पाशुपतमुभेऽस्त्रे व्योम्नि रोषिते ।युयुधाते भृशं दिव्यं परस्परजिघांसया ।दिव्यं वर्षसहस्त्रं तु तयोर्युद्धमभूत् तदा ॥५३॥तत्रैकं मुकुटोद्बद्धं मूर्द्धन्यं जटजालकम् ।एकं प्रध्मापयच्छङ्खमन्यडुमरुकं शुभम् ॥५४॥एकं खङ्गकरं तत्र तथाऽन्यं दण्डधारिणम् ।एकं कौस्तुभदीप्ताङ्गमन्यं भूतिविभूषितम् ॥५५॥एकं गदां भ्रामयति द्वितीयं दण्डमेव च ।एकं शोभति कण्ठस्थैर्मणिभिस्त्वस्थिभिः परम् ।एकं पीताम्बरं तत्र द्वितीयं सर्पमेखलम् ॥५६॥एवं तौ स्पर्द्धिनावस्त्रौ रौद्रनारायणात्मकौ ।अन्योऽन्यातिशयोपेतौ तदालोक्य पितामहः ॥५७॥उवाच शाम्यतामस्त्रौ स्वस्वभावेन सुव्रतौ ।एवं ते ब्रह्मणा चोक्तौ शान्तभावं प्रजग्मतुः ॥५८॥तथा विष्णुहरौ ब्रह्मा वाक्यमेतदुवाच ह ।उभौ हरिहरौ देवौ लोके ख्यातिं गमिष्यथः ॥५९॥अयं च यज्ञो विध्वस्तः संपूर्णत्वं गमिष्यति ।दक्षस्य ख्यातिमाँल्लोकः संतत्याऽयं भविष्यति ॥६०॥एवमुक्त्वा हरिहरौ तदा लोकपितामहः ।ब्रह्मा लोकानुवाचेदं रुद्रभागोऽस्य दीयताम् ॥६१॥रुद्रभागो ज्येष्ठभाग इतीयं वैदिकी श्रुतिः ।स्तुतिं च देवाः कुरुत रुद्रस्य परमेष्ठि नः ॥६२॥भगनेत्रहरं देवं पूष्णो दन्तविनाशनम् ।स्तुतिं कुरुतमा शीघ्रं गीतैरेतैस्तु नामभिः ।येनायं वः प्रसन्नात्मा वरदत्वं भजेत ह ॥६३॥एवमुक्तास्तु ते देवाः स्तोत्रं शंभोर्महात्मनः ।चक्रुः परमया भक्त्या नमस्कृत्य स्वयंभुवे ॥६४॥देवा ऊचुः ।नमो विषमनेत्राय नमस्ते त्र्यम्बकाय च ।नमः सहस्त्रनेत्राय नमस्ते शूलपाणये ॥६५॥नमः खट्वाङ्गहस्ताय नमो दण्डभृते करे ।त्वं देव हुतभुग्ज्वालाकोटिभानुसमप्रभः ॥६६॥अदर्शनेऽनयद् देव मूढविज्ञानतोऽधुना ।कृतमस्माभिरेवेश तदत्र क्षम्यतां प्रभो ॥६७॥नमस्त्रिनेत्रार्त्तिहराय शंभोत्रिशूलपाणे विकृतास्यरूप ।समस्तदेवेश्वर शुद्धभावप्रसीद रुद्राच्युत सर्वभाव ॥६८॥पूष्णोऽस्य दन्तान्तक भीमरूपप्रलम्बभोगीन्द्रलुलन्तकण्ठ ।विशालदेहाच्युत नीलकण्ठप्रसीद विश्वेश्वर विश्वमूर्त्ते ॥६९॥भगाक्षिसंस्फोटनदक्षकर्मागृहाण भागं मखतः प्रधानम् ।प्रसीद देवेश्वर नीलकण्ठप्रपाहि नः सर्वगुणोपपन्न ॥७०॥सिताङ्गरागाप्रतिपन्नमूर्त्तेकपालधारिंस्त्रिपुरघ्न देव ।प्रपाहि नः सर्वभयेषु चैवउमापते पुष्करनालजन्म ॥७१॥पश्याम ते देहगतान् सुरेशसर्गादयो वेदवराननन्त ।साङ्गान् सविद्यान् सपदक्रमांश्चसर्वान् निलीनांस्त्वयि देवदेव ॥७२॥भव शर्व महादेव पिनाकिन् रुद्र ते हर ।नताः स्म सर्वे विश्वेश त्राहि नः परमेश्वर ॥७३॥इत्थं स्तुतस्तदा देवैर्देवदेवो महेश्वरः ।तुतोष सर्वदेवानां वाक्यं चेदमुवाच ह ॥७४॥रुद्र उवाच ।भगस्य नेत्रं भवतु पूष्णो दन्तास्तथा मखः ।दक्षस्याच्छिद्रतां यातु यज्ञश्चाप्यदितेः सुताः ।पशुभावं तथा चापि अपनेष्यामि वो सुराः ॥७५॥मद्दर्शनेन यो जातः पशुभावो दिवौकसाम् ।स मयाऽपहृतः सद्यः पतित्वं वो भविष्यति ॥७६॥अहं च सर्वविद्यानां पतिराद्यः सनातनः ।अहं वै पतिभावेन पशुमध्ये व्यवस्थितः ॥७७॥अतः पशुपतिर्नाम मम लोके भविष्यति ।ये मां यजन्ति तेषां स्याद् दीक्षा पाशुपती भवेत् ॥७८॥एवमुक्तेऽथ रुद्रेण ब्रह्मा लोकपितामहः ।उवाच रुद्रं सस्नेहं स्मितपूर्वमिदं वचः ॥७९॥ध्रुवं पाशुपतिर्देव त्वं लोके ख्यातिमेस्यति ।अयं च देवस्त्वन्नाम्ना लोके ख्यातिं गमिष्यति ।आराध्यश्च समस्तानां देवादीनां गमिष्यसि ॥८०॥एवमुक्त्वा तदा ब्रह्मा दक्षं प्रोवाच बुद्धिमान् ।गौरीं प्रयच्छ रुद्राय पूर्वमेवोपपादिताम् ॥८१॥एवमुक्त्वा तदा दक्षस्तां कन्यां ब्रह्मसन्निधौ ।ददौ रुद्राय महते गौरीं परमशोभनाम् ॥८२॥स तां जग्राह विधिवद् रुद्रः परमशोभनाम् ।दक्षस्य च प्रियं कुर्वन् बहुमानपुरःसरम् ॥८३॥गृहीतायां तु कन्यायां दाक्षायण्यां पितामहः ।ददौ रुद्रस्य निलयं कैलासं सुरसन्निधौ ॥८४॥रुद्रोऽपि प्रययौ भूतैः समं कैलासपर्वतम् ।देवाश्चापि यथास्थानं स्वं स्वं जग्मुर्मुदान्विताः ।ब्रह्माऽपि दक्षसहितः प्राजापत्यं पुरं ययौ ॥८५॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकविंशोऽध्यायः ॥२१॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP