संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ३८ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ३८ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ३८ Translation - भाषांतर श्रीवराह उवाच ।स शुभं शोभनं मार्गमास्थाय व्याधसत्तमः ।तपस्तेपे निराहारस्तं गुरुं मनसा स्मरन् ॥१॥भिक्षाकाले तु संप्राप्ते शीर्णपर्णान्यभक्षयत् ।स कदाचित् क्षुधाविष्टो वृक्षमूलं समाश्रितः ॥२॥बुभुक्षितस्तरोः पर्णमैच्छद् भक्षितुमन्तिकात् ।इत्येवं कुर्वतो व्योम्नि वागुवाचाशरीरिणी ॥३॥मा भक्षयस्व सकटमुच्चैरेवं प्रभाषिते ।ततोऽसौ तं विहायान्यद् वार्क्षं पतितमग्रहीत् ॥४॥तमप्येवं निषिद्धं स्यादन्यं तथैवमेव च ।एवं स सकटं मत्वा व्याधः किञ्चिन्न भक्षयत् ॥५॥निराहारस्तपस्तेपे स्मरन् गुरुमतन्द्रितः ।तस्याथ बहुना काले गते ऋषिवरोऽभ्यगात् ॥६॥दुर्वासाः शंसितात्मा वै किञ्चित्प्राणमपश्यत ।व्याधं तपोत्थतेजोभिर्ज्वलमानं हविर्यथा ॥७॥सोऽपि व्याधस्तु तं नत्वा शिरसाऽथ महामुनिम् ।उवाच स कृतार्थोऽस्मि भगवन् दर्शनात् तव ॥८॥इदानीं श्राद्धकालं मे प्राप्तं त्वमवधारय ।शीर्णपर्णानि भक्षयन् वै तैरेवाहं महामुने ।भवन्तं प्रीणयामीति व्याधस्तं वाक्यमब्रवीत् ॥९॥दुर्वासा अपि तं शुद्धं शुद्धभावं जितेन्द्रियम् ।जिज्ञासुस्तत्तपो वाक्यमिदमुच्चैरुवाच ह ॥१०॥यवगोधूमशालीनामन्नं चैव सुसंस्कृतम् ।दीयतां मे क्षुधार्ताय त्वामुद्दिश्यागताय च ॥११॥इत्युक्तेन त्वसौ व्याधश्चिन्तां परमिकां गतः ।क्व संभविष्यते मह्यमिति चिन्तापरोऽभवत् ॥१२॥तस्य चिन्तयतः पात्रमाकाशात् पतितं शुभम् ।सौवर्णं सिद्धिसंयुक्तं तज्जग्राह करेण सः ॥१३॥तद् गृहीत्वा मुनिं प्राह दुर्वासाख्यं ससाध्वसः ।अत्रैव स्थीयतां ब्रह्मन् यावद् भिक्षाटनं त्वहम् ।करोमि तत्प्रसादोऽयं क्रियतां ब्रह्मवित्तम ॥१४॥एवमुक्त्वा ततो भिक्षामटनं व्याधसत्तमः ।नातिदूरेण नगरं धनयोषसमन्वितम् ॥१५॥तस्य तत्र प्रयातस्य अग्रतः सर्वशोभनाः ।वृक्षेभ्यो निर्ययुश्चान्या हेमपात्राग्रपाणयः ।विविधान्नानि तस्याशु दत्त्वा पात्रं प्रपूरितम् ॥१६॥स च भूतार्थमात्मानं मत्वा पुनरथाश्रमम् ।आजगाम ततोऽपश्यत् तमृषिं जपतां वरम् ॥१७॥तं दृष्ट्वा स्थाप्य तां भिक्षां शुचौ देशे प्रसन्नधीः ।प्रणम्य तमृषिं वाक्यमुवाच व्याधसत्तमः ॥१८॥भगवन् क्षालनं पद्भ्यां क्रियतामृषिपुंगव ।यदि त्वहमनुग्राह्यस्तदेवं कर्त्तुमर्हसि ॥१९॥एवमुक्तः स जिज्ञासुस्तपोवीर्यं शुभं मुनिः ।नदीं गन्तुं न शक्नोमि जलपात्रं न चास्ति मे ॥२०॥कथं प्रक्षालयाम्याशु व्याध पादौ महामते ।इत्येतन्मुनिना व्याधः श्रुत्वा चिन्तापरोऽभवत् ।किं करोमि कथं चास्य भोजनं वै भविष्यति ॥२१॥एवं संचिन्त्य मनसा गुरुं स्मृत्वा विचक्षणः ।जगाम शरणं तां तु सरितं देविकां सुधीः ॥२२॥व्याध उवाच ।व्याधोऽस्मि पापकर्माऽस्मि ब्रह्महाऽस्मि सरिद्वरे ।तथापि संस्मृता देवि पाहि मां शरणं गतम् ॥२३॥देवतां नैव जानामि न मन्त्रं न तथार्चनम् ।गुरुपादौ परं ध्यात्वा पश्यामि सततं शुभे ॥२४॥एवं विधस्य मे देवि दयां कुरु सरिद्वरे ।ऋषेः क्षालार्थसलिलं समीपं कुरु माचिरम् ॥२५॥एवमुक्त्वाऽथ व्याधेन देविका पापनाशिनी ।आजगाम यतस्तस्थौ दुर्वासाः संशितव्रतः ॥२६॥तस्य पादौ स्वयं देवी क्षालयन्ती सरिद्वरा ।जगाम ह्रादिनी भूत्वा व्याधाश्रमसमीपतः ॥२७॥तं दृष्ट्वा महदाश्चर्यं दुर्वसा विस्मयं ययौ ।प्रक्षाल्य हस्तौ पादौ च तदन्तं श्रद्धयान्वितम् ।बुभुजे परमप्रीतस्तथाचम्य विचक्षणः ॥२८॥तमस्थिशेषं व्याधं तु क्षुधादुर्बलतां गतम् ।उवाच वेदाध्ययनं सर्वे वेदाः ससंग्रहाः ।ब्रह्मविद्या पुराणानि प्रत्यक्षाणि भवन्तु ते ॥२९॥एवं प्रादाद् वरं तस्य दुर्वासा नाम चाकरोत् ।भवान् सत्यतपा नाम ऋषिराद्यो भविष्यति ॥३०॥एवं दत्तवरो व्याधस्तमाह मुनिसत्तमम् ।व्याधो भूत्वा कथं ब्रह्मन् वेदानध्यापयाम्यहम् ॥३१॥ऋषिरुवाच ।प्राक्शरीरं गतं तेऽद्य निराहारस्य सत्तम ।तपोमयं शरीरं ते पृथग्भूतं न संशयः ॥३२॥प्राग्विज्ञानं गतं नाशमिदानीं शुद्धमक्षरम् ।विद्धि तं शुद्धकायोऽसि तथाऽन्यत् ते शरीरकम् ।तेन वेदाः समं शास्त्रैः प्रतिभास्यन्ति ते मुने ॥३३॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे अष्टत्रिंशोऽध्यायः ॥३८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP