संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्|
अध्यायः ३९

वराहपुराणम् - अध्यायः ३९

'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे.


सत्यतपा उवाच ।
भगवन् द्वे शरीरे तु इति यत्परिकीर्त्तितम् ।
तन्मे कथय भेदं वै के ते ब्रह्मविदां वर ॥१॥
दुर्वासा उवाच ।
न द्वे त्रीणि शरीराणि वाच्यं तद्विपरीतकम् ।
विभोगायतनं चैव त्रिशरीराणि प्राणिनाम् ॥२॥
प्रागवस्थमधर्माख्यं परिज्ञानविवर्जितम् ।
अपरं सव्रतं तद्धि ज्ञेयमत्यन्तधार्मिकम् ॥३॥
धर्माधर्मोपभोगाय यत् तृतीयमतीन्द्रियम् ।
तत्त्रिभेदं विनिर्दिष्टं ब्रह्मविद्भिर्विचक्षणैः ।
यातना धर्मभोगश्च भुक्तिश्चेति त्रिभेदकम् ॥४॥
यस्तु भावः पुरा ह्यासीत् प्राणिनो निघ्नतः स वै ।
तत्पापाख्यं शरीरं ते पापसंज्ञं तदुच्यते ॥५॥
इदानीं शुभवृत्तिं तु कुर्वतस्तप आर्जवम् ।
अपरं धर्मरूपं तु शरीरं ते व्यवस्थितम् ।
तेन वेदपुराणानि ज्ञातुमर्हस्यसंशयम् ॥६॥
यदाष्टाकं संपरिवर्त्तते पुमां-
स्तदा त्र्यवस्थः परिकीर्त्यते तु वै ।
गताष्टवर्गस्त्रिगतः सदा शुभः
स्थिरो भवेदात्मनि निश्चयात्मवान् ॥७॥
यदा पञ्च पुनः पञ्च पञ्च पञ्चापि संत्यजेत् ।
एकमार्गस्तदा ब्रह्म शाश्वतं लभते नरः ॥८॥
सत्यतपा उवाच ।
भगवन् यदि विज्ञानं शरीरं नोपजायते ।
तदा केन प्रकारेण परं ब्रह्मोपलभ्यते ॥९॥
दुर्वासा उवाच ।
कर्मकाण्डं ज्ञानमूलं ज्ञानं कर्मादिकं तथा ।
एतयोरन्तरं नास्ति यथाऽश्ममृदयोर्मुने ॥१०॥
कर्मकाण्डं चतुर्भेदं ब्राह्मणादिषु कीर्तितम् ।
तत्र वेदोक्तकर्माणि त्रयः कुर्वन्ति नित्यशः ।
त्रिशुश्रूषामथैकस्तु एषा वेदोदिता क्रिया ॥११॥
एतान् धर्मानवस्थाय ब्रह्मणोपास्तिं रोचते ।
तस्य मुक्तिर्भवेन्नूनं वेदवादरतस्य च ॥१२॥
सत्यतपा उवाच ।
यदेतत् परमं ब्रह्म त्वया प्रोक्तं महामुने ।
तस्य रूपं न जानन्ति योगिनोऽपि महात्मनः ॥१३॥
अनाममसगोत्रं च अमूर्त्तं मूर्त्तिवर्जितम् ।
कथं स ज्ञायते ब्रह्म संज्ञानामविवर्जितम् ।
तस्य संज्ञां कथय मे वेदमार्गव्यवस्थिताम् ॥१४॥
दुर्वासा उवाच ।
यदेतत् परमं ब्रह्म वेदव्यासेषु पठ्यते ।
स देवः पुण्डरीकाक्षः स्वयं नारायणः परः ॥१५॥
स यज्ञैर्विविधैरिष्टैर्दानैर्दत्तैश्च सत्तम ।
प्राप्यते परमो देवः स्वयं नारायणो हरिः ॥१६॥
सत्यतपा उवाच ।
भगवन् बहुवित्तेन ऋत्विग्भिर्वेदपारगैः ।
प्राप्यते पुण्यकृद्भिर्हि क्वचिद् यज्ञः कथंचन ।
तेन प्राप्तेन भगवान् लभ्यते दुःखतो हरिः ॥१७॥
वित्तेन च विना दानं दातुं विप्र न शक्यते ।
विद्यमानेऽपि न मतिः कुटुम्बासक्तचेतसः ।
तस्य मोक्षः कथं ब्रह्मन् सर्वथा दुर्लभो हरिः ॥१८॥
अल्पायासेन लभ्येत येन देवः सनातनः ।
तन्मे सामान्यतो ब्रूहि सर्ववर्णेषु यद् भवेत् ॥१९॥
दुर्वासा उवाच ।
कथयामि परं गुह्यं रहस्यं देवनिर्मितम् ।
धरण्या यत्कृतं पूर्वं मज्जन्त्या तु रसातले ॥२०॥
पृथिव्याः पार्थिवो भावः सलिले नातिरेचितः ।
तस्मिन् सलिलमग्ने तु पृथ्वी प्रायाद् रसातलम् ॥२१॥
सा भूतधारिणी देवी रसातलगता शुभा ।
आराधयामास विभुं देवं नारायणं परम् ।
उपवासव्रतैर्देवी नियमैश्च पृथग्विधैः ॥२२॥
कालेन महता तस्याः प्रसन्नो गरुडध्वजः ।
उज्जहार स्थितौ चेमां स्थापयामास सोऽव्ययः ॥२३॥
सत्यतपा उवाच ।
कोऽसौ धरण्या संचीर्ण उपवासो महामुने ।
कानि व्रतानि च तथा एतन्मे वक्तुमर्हसि ॥२४॥
दुर्वासा उवाच ।
यदा मार्गशिरे मासि दशम्यां नियतात्मवान् ।
कृत्वा देवार्चनं धीमानग्निकार्यं यथाविधि ॥२५॥
शुचिवासाः प्रसन्नात्मा हव्यमन्नं सुसंस्कृतम् ।
भुक्त्वा पञ्चपदं गत्वा पुनः शौचं तु पादयोः ॥२६॥
कृत्वाऽष्टाङ्गुलमात्रं तु क्षीरवृक्षसमुद्भवम् ।
भक्षयेद् दन्तकाष्ठं तु तत आचम्य यत्नतः ॥२७॥
स्पृष्ट्वा द्वाराणि सर्वाणि चिरं ध्यात्वा जनार्दनम् ।
शङ्खचक्रगदापाणिं किरीटिं पीतवाससम् ॥२८॥
प्रसन्नवदनं देवं सर्वलक्षणलक्षितम् ।
ध्यात्वा पुनर्जलं हस्ते गृह्य भानुं जनार्दनम् ॥२९॥
ध्यात्वाऽर्ध्यं दापयेत् तस्य करतोयेन मानवः ।
एवमुच्चारयेद् वाचं तस्मिन् काले महामुने ॥३०॥
एकादश्यां निराहारः स्थित्वाऽहमपरेऽहनि ।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत ॥३१॥
एवमुक्त्वा ततो रात्रौ देवदेवस्य सन्निधौ ।
जपन्नारायणायेति स्वपेत् तत्र विधानतः ॥३२॥
ततः प्रभाते विमले नदीं गत्वा समुद्रगाम् ।
इतरां वा तडागं वा गृहे वा नियतात्मवान् ॥३३॥
आनीय मृत्तिकां शुद्धां मन्त्रेणानेन मानवः ।
धारणं पोषणं त्वत्तो भूतानां देवि सर्वदा ।
तेन सत्येन मे पापं यावन्मोचय सुव्रते ॥३४॥
ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि देव ते ।
तेनेमां मृत्तिकां स्पृष्ट्वा मा लभामि त्वयोदिताम् ॥३५॥
त्वयि सर्वे रसा नित्याः स्थिता वरुण सर्वदा ।
तेनेमां मृत्तिकां प्लाव्य पूतां कुरु ममाचिरम् ॥३६॥
एवं मृदं तथा तोयं प्रसाद्यात्मानमालभेत् ।
त्रिः कृत्वा शेषमृदया कुण्डमालिख्य वै जले ॥३७॥
ततस्तत्र नरः सम्यक् चक्रवर्त्युपचारतः ।
स्नात्वा चावश्यकं कृत्वा पुनर्देवगृहं व्रजेत् ॥३८॥
तत्राराध्य महायोगिं देवं नारायणं प्रभुम् ।
केशवाय नमः पादौ कटिं दामोदराय च ॥३९॥
ऊरुयुग्मं नृसिंहाय उरः श्रीवत्सधारिणे ।
कण्ठं कौस्तुभनाथाय वक्षः श्रीपतये तथा ॥४०॥
त्रैलोक्यविजयायेति बाहू सर्वात्मने शिरः ।
रथाङ्गधारिणे चक्रं शंकरायेति वारिजम् ॥४१॥
गम्भीरायेति च गदामम्भोजं शान्तिमूर्त्तये ।
एवमभ्यर्च्य देवेशं देवं नारायणं प्रभुम् ॥४२॥
पुनस्तस्याग्रतः कुम्भान् चतुरः स्थापयेद् बुधः ।
जलपूर्णान् समाल्यांश्च सितचन्दनलेपितान् ॥४३॥
चूतपल्लवसग्रीवान् सितवस्त्रावगुण्ठितान् ।
स्थगितान् ताम्रपात्रैश्च तिलपूर्णैः सकाञ्चनैः ॥४४॥
चत्वारस्ते समुद्रास्तु कलशाः परिकीर्तिताः ।
तेषां मध्ये शुभं पीठं स्थापयेद् वस्त्रगर्भितम् ॥४५॥
तस्मिन् सौवर्णरौप्यं वा ताम्रं वा दारवं तथा ।
अलाभे सर्वपात्राणां पालाशं पात्रमिष्यते ॥४६॥
तोयपूर्णं तु तत्कृत्वा तस्मिन् पात्रे ततो न्यसेत् ।
सौवर्णं मत्स्य्रूपेण कृत्वा देवं जनार्दम् ।
वेदवेदाङ्गसंयुक्तं श्रुतिस्मृतिविभूषितम् ॥४७॥
तत्रानेकविधैर्भक्षैः फलैः पुष्पैश्च शोभितम् ।
गन्धधूपैश्च वस्त्रैश्च अर्चयित्वा यथाविधि ॥४८॥
रसातलगता वेदा यथा देव त्वयाहृताः ।
मत्स्यरूपेण तद्वन्मां भवानुद्धर केशव ।
एवमुच्चार्य तस्याग्रे जागरं तत्र कारयेत् ॥४९॥
यथाविभवसारेण प्रभाते विमले तथा ।
चतुर्णां ब्राह्मणानां च चतुरो दापयेद् घटान् ॥५०॥
पूर्वं तु बह्वृचे दद्याच्छन्दोगे दक्षिणं तथा ।
यजुःशाखान्विते दद्यात् पश्चिमं घटमुत्तमम् ।
उत्तरं कामतो तद्यादेष एव विधिः स्मृतः ॥५१॥
ऋग्वेदः प्रीयतां पूर्वे सामवेदस्तु दक्षिणे ।
यजुर्वेदः पश्चिमतो अथर्वश्चोत्तरेण तु ॥५२॥
अनेन क्रमयोगेन प्रीयतामिति वाचयेत् ।
मत्स्यरूपं च सौवर्णमाचार्याय निवेदयेत् ॥५३॥
गन्धधूपादिवस्त्रैश्च संपूज्य विधिवत् क्रमात् ।
यस्त्विमं सरहस्यं च मन्त्रं चैवोपपादयेत् ।
विधानं तस्य वै दत्त्वा फलं कोटिगुणोत्तरम् ॥५४॥
प्रतिपद्य गुरुं यस्तु मोहाद् विप्रतिपद्यते ।
स जन्मकोटि नरके पच्यते पुरुषाधमः ।
विधानस्य प्रदाता यो गुरुरित्युच्यते बुधैः ॥५५॥
एवं दत्त्वा विधानेन द्वादश्यां विष्णुमर्च्य च ।
विप्राणां भोजनं कुर्याद् यथाशक्त्या सदक्षिणम् ॥५६॥
ताम्रपात्रैश्च सतिलैः स्थगितान् कारयेद् घटान् ।
तत्र सज्जलपात्रस्थं ब्राह्मणाय कुटुम्बिने ॥५७॥
देवं दद्यान्महाभागस्ततो विप्रांश्च भोजयेत् ।
भूरिणा परमान्नेन ततः पश्चात् स्वयं नरः ।
भुञ्जीत सहितो बालैर्वाग्यतः संयतेन्द्रियः ॥५८॥
अनेन विधिना यस्तु धरणीव्रतकृन्नरः ।
तस्य पुण्यफलं चाग्र्यं श्रृणु बुद्धिमतां वर ॥५९॥
यदि वक्त्रसहस्त्राणि भवन्ति मम सुव्रत ।
आयुश्च ब्रह्मणस्तुल्यं भवेद् यदि महाव्रत ॥६०॥
तदानीमस्य धर्मस्य फलं कथयितुं भवेत् ।
तथाप्युद्देशतो ब्रह्मन् कथयामि श्रृणुष्व तत् ॥६१॥
दश सप्त दश द्वे च अष्टौ चत्वार एव च ।
लक्षायुतानि चत्वारि एकस्थं स्याच्चतुर्युगम् ॥६२॥
तैरेकसप्ततियुगं भवेन्मन्वन्तरं मुने ।
चतुर्दशाहो ब्राह्मस्तु तावती रात्रिरिष्यते ॥६३॥
एवं त्रिंशद्दिनो मासस्ते द्वादश समा स्मृता ।
तेषां शतं ब्रह्मणस्तु आयुर्नास्त्यत्र संशयः ॥६४॥
यः सकृद् द्वादशीमेतामनेन विधिना क्षिपेत् ।
स ब्रह्मलोकमाप्नोति तत्कालं चैव तिष्ठति ॥६५॥
ततो ब्रह्मोपसंहारे तल्लयं तिष्ठते चिरम् ।
पुनः सृष्टौ भवेद् देवो वैराजानां महातपाः ॥६६॥
ब्रह्महत्यादिपापानि इह लोककृतान्यपि ।
अकामे कामतो वापि तानि नश्यन्ति तत्क्षणात् ॥६७॥
इह लोके दरिद्रो यो भ्रष्टराज्योऽथ वा नृपः ।
उपोष्य तां विधानेन स राजा जायते ध्रुवम् ॥६८॥
वन्ध्या नारी भवेद् या तु अनेन विधिना शुभा ।
उपोष्यति भवेत् तस्याः पुत्रः परमधार्मिकः ॥६९॥
अगम्यागमनं येन कृतं जानाति मानवः ।
स इमं विधिमासाद्य तस्मात् पापाद् विमुच्यते ॥७०॥
ब्रह्मक्रियाया लोपेन बहुवर्षकृतेन च ।
उपोष्येमां सकृद् भक्त्या वेदसंस्कारमाप्नुयात् ॥७१॥
किमत्र बहुनोक्तेन न तदस्ति महामुने ।
अप्राप्यं प्राप्यते नैव पापं वा यन्न नश्यति ॥७२॥
अनेन विधिना ब्रह्मन् स्वयमेव ह्युपोषिता ।
धरण्या मग्नया तात नात्र कार्या विचारणा ॥७३॥
अदीक्षिताय नो देयं विधानं नास्तिकाय च ।
देवब्रह्मद्विषे वाऽपि न श्राव्यं तु कदाचन ।
गुरुभक्ताय दातव्यं सद्यः पापप्रणाशनम् ॥७४॥
इह जन्मनि सौभाग्यं धनं धान्यं वरस्त्रियः ।
भवन्ति विविधा यस्तु उपोष्य विधिना ततः ॥७५॥
य इमं श्रावयेद् भक्त्या द्वादशीकल्पमुत्तमम् ।
श्रृणोति वा स पापैस्तु सर्वैरेव प्रमुच्यते ॥७६॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे ऊनचत्वारिंशोऽध्यायः ॥३९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP