संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ९ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ९ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ९ Translation - भाषांतर धरण्युवाच ।आदौ कृतयुगे नाथ किं कृतं विश्वमूर्त्तिना ।नारायणेन तत्सर्वं श्रोतुमिच्छामि तत्त्वतः ॥१॥श्रीवराह उवाच ।पूर्वं नारायणस्त्वेको नासीत् किञ्चिद्धरेः परम् ।सैक एव रतिं लेभे नैव स्वच्छन्दकर्मकृत् ॥२॥तस्य द्वितीयमिच्छन्तश्चिन्ता बुद्ध्यात्मिका बभौ ।असावित्येव संज्ञाया क्षणं भास्करसन्निभा ॥३॥तस्या अपि द्विधा भूता चिन्ताऽभूद ब्रह्मवादिनी ।उमेति संज्ञया यत्तत्सदा मर्त्ये व्यवस्थिता ॥४॥ओमित्येकाक्षरीभूता ससर्जेमां महीं तदा ।भूः ससर्ज भुवं सोऽपि स्वः ससर्ज ततो महः ॥५॥ततश्च जन इत्येव तपश्चात्मा प्रलीयते ।एतदोतं तथा प्रोतं सूत्रे मणिगणा इव ॥६॥जगत् प्रणवतो भूतं शून्यमेतत् स्थितं तदा ।येयं मूर्तिर्भगवतः शंकरः स स्वयं हरिः ॥७॥शून्याँल्लोकानिमान् दृष्ट्वा सिसृक्षुर्मूर्त्तिमुत्तमाम् ।क्षोभयित्वा मनोधाम तत्राकारः स्वमात्रतः ॥८॥स्थितस्तस्मिन् यदा क्षुब्धे ब्रह्माण्डमभवत्तदा ।तस्मिंस्तु शकलीभूते भूर्लोकं च व्यवस्थितम् ॥९॥अपरं भुवनं प्रायान्मध्ये भास्करसन्निभम् ।पुराणपुरुषो व्याप्य पद्मकोशे व्यवस्थितः ॥१०॥स हि नारायणो देवः प्राजापत्येन तेजसा ।अकाराद्यं स्वरं नाभ्यां हलं च विससर्ज ह ॥११॥अमूर्त्तसृष्टौ शास्त्राणि उदगायत् तदा दिशः ।सुष्ट्वा पुनरमेयात्मा चिन्तयामास धारणम् ॥१२॥तस्य चिन्तयतो नेत्रात् तेजः समभवन्महत् ।दक्षिणं वह्निसङ्काशं वामं तुहिनसन्निभम् ॥१३॥तं दृष्ट्वा चन्द्रसूर्यौ तु कल्पितौ परमेष्ठिना ।ततः प्राणः समुत्तस्थौ वायुश्च परमेष्ठिनः ॥१४॥स एव वायुर्भगवान् योऽद्यापि हृदिगो विभुः ।तस्माद् वह्निः समुत्तस्थौ तस्मादग्नेर्जलं महत् ॥१५॥य एवाग्निः स वै तेजो ब्राह्मं परमकारणम् ।बाहुभ्यामप्यसौ तेजः क्षात्रं तेजः ससर्ज ह ॥१६॥ऊरुभ्यामपि वैश्यांश्च पद्भ्यां शूद्रांस्तथा विभुः ।ततस्तु ससृजे यक्षान् राक्षसांश्च तथा विभुः ॥१७॥चतुर्विधैस्तु भूर्लोकं भुवर्लोकं वियच्चरैः ।भूतैः स्वर्मार्गगैरन्यैः स्वर्लोकं समपूरयत् ॥१८॥महर्लोकं तथा तैस्तैर्भूतैश्च सनकादिभिः ।जनोलोकं ततश्चैव वैराजैः समपूरयत् ॥१९॥तपोलोकं ततो देवस्तपोनिष्ठैरपूरयत् ।अपुनर्मारकैर्देवैः सत्यलोकमपूरयत् ॥२०॥सृष्टिं सृष्ट्वा तथा देवो भगवान् भूतभावनः ।कल्पसंज्ञं स्वकं घस्त्रं जागर्ति परमेश्वरः ॥२१॥तस्मिन् जगति भूर्लोको भुवर्लोकश्च जायते ।स्वर्लोकश्च त्रयोऽप्येते जायन्ते नात्र संशयः ॥२२॥सुप्ते तु देवे कल्पान्ते तावती रात्रिरिष्यते ।त्रै लोक्यमेतत् सुप्तं स्यात् तथोपप्लवतां गतम् ॥२३॥ततो रात्र्यां व्यतीतायामुत्थितः कमलेक्षणः ।चिन्तयामास तान् वेदान् मातरं च चतुर्ष्वपि ।चिन्तयानः स देवेशस्तान् वेदान् नाध्यगच्छत ॥२४॥लोकमार्गस्थितिं कर्त्तुं निद्राज्ञानेन मोहितः ।चिन्तयामास देवेशो नात्र वेदा व्यवस्थिताः ॥२५॥ततः स्वमूर्तौ तोयाख्ये लीनान् दृष्ट्वा सुरेश्वरः ।जिघृक्षुश्चिन्तयामास मत्स्यो भूत्वाविशज्जलम् ॥२६॥एवं ध्यात्वा महामत्स्यस्तत्क्षणात् समजायत ।विवेश च जलं देवः समन्तात् क्षोभयन्निव ॥२७॥तस्मिन् प्रविष्टे सहसा जलं तुमहामहीधृग्वपुषि प्रकाशम् ।मात्स्यं गते देववरे महोदधिंहरिं स्तवैस्तुष्टुवुरुद्धृतक्षितिम् ॥२८॥नमोऽस्तु वेदान्तरगाप्रतर्क्यनमोऽस्तु नारायण मत्स्यरूप ।नमोऽस्तु ते सुस्वर विश्वमूर्त्तेनमोऽस्तु विद्याद्वयरूपधारिन् ॥२९॥नमोऽस्तु चन्द्रार्कमरुत्स्वरूपजलान्तविश्वस्थित चारुनेत्र ।नमोऽस्तु विष्णोः शरणं व्रजामःप्रपाहि नो मत्स्यतनुं विहाय ॥३०॥त्वया ततं विश्वमनन्तमूर्त्तेपृथग्गते किञ्चिदिहास्ति देव ।भवान् न चास्य व्यतिरिक्तमूर्त्ति-स्त्वत्तो वयं ते शरणं प्रपन्नाः ॥३१॥खात्मेन्दुवह्निश्च मनश्च रूपंपुराणमूर्त्तेस्तव चाब्जनेत्र ।क्षमस्व शंभो यदि भक्तिहीनंत्वया जगद्भासति देवदेव ॥३२॥विरुद्धमेतत् तव देवरूपंसुभीषणं सुस्वनमद्रितुल्यम् ।पुराण देवेश जगन्निवासशमं प्रयाह्यच्युत तीव्रभानो ॥३३॥वयं हि सर्वे शरणं प्रपन्नाभयाच्च ते रूपमिदं प्रपश्य ।लोके समस्तं भवता विना तुन विद्यते देहगतं पुराणम् ॥३४॥एवं स्तुतस्तदा देवो जलस्थान् जगृहे च सः ।वेदान् सोपनिषच्छास्त्रानन्तःस्थं रूपमास्थितः ॥३५॥यावत्स्वमूर्तिर्भगवांस्तावदेव जगत् त्विदम् ।कूटस्थे तल्लयं याति विकृतिस्थे विवर्द्धते ॥३६॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे नवमोऽध्यायः ॥९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP