संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः २६ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः २६ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः २६ Translation - भाषांतर प्रजापाल उवाच ।शरीरस्य कथं मूर्तिग्रहणं ज्योतिषो द्विज ।एतन्मे संशयं छिन्धि प्रणतस्य द्विजोत्तम ॥१॥महातपा उवाच ।योऽसावात्मा ज्ञानशक्तिरेक एव सनातनः ।स द्वितीयं यदा चैच्छत् तदा स्वात्मस्थितो ज्वलत् ॥२॥यः सूर्य इति भास्वांस्तु अन्योन्येन महात्मनः ।लोलीभूतानि तेजांसि भासयन्ति जगत्त्रयम् ॥३॥तस्मिन् सर्वे सुराः सिद्धा गणाः सर्वे महर्षिभिः ।समं सूता इति विभो तस्मात् सूर्यो भवन् स्तुतः ॥४॥लोलीभूतस्य तस्याशु तेजसोऽभूच्छरीरकम् ।पृथक्त्वेन रविः सोऽथ कीर्त्त्यते वेदवादिभिः ॥५॥भासयन् सर्वलोकांस्तु यतोऽसावुत्थितो दिवि ।अतोऽसौ भास्करः प्रोक्तः प्रकर्षाच्च प्रभाकरः ॥६॥दिवा दिवस इत्युक्तस्तत्कारित्वाद् दिवाकरः ।सर्वस्य जगतस्त्वादिरादित्यस्तेन उच्यते ॥७॥एतस्य द्वादशादित्याः संभूतास्तेजसा पृथक् ।प्रधान एव सर्वेषां सर्वदा स विबुध्यते ॥८॥तं दृष्ट्वा जगतो व्याप्तिं कुर्वाणं परमेश्वरम् ।तस्यैवान्तः स्थिता देवा विनिष्क्रम्य स्तुतिं जगुः ॥९॥देवा ऊचुः ।भवान् प्रसूतिर्जगतः पुराणःक्षयामलैव प्रदहन् जगन्ति ।समुत्थितो नाथ शमं प्रयाहिमा देवलोकान् प्लुष कर्मसाक्षिन् ॥१०॥त्वया ततं सर्वत एव तेजःप्रतापिना सूर्य यजुःप्रवृत्ते ।तिग्मं रथाङ्गं तव देवकल्पंकालाख्यमध्वान्तकरं वदन्ति ॥११॥प्रभाकरसक्त्वं रविरादिदेवआत्मा समस्तस्य चराचरस्य ।पितामहसक्त्वं वरुणो यमश्चभूतं भविष्यच्च वदन्ति सिद्धाः ॥१२॥ध्वान्तं प्रणु त्वं सुरलोकपूज्यप्रयाहि शान्तिं पितरो वदन्ति ।वेदान्तवेद्योऽसि मखेषु देवत्वं हूयसे विष्णुरसि प्रसह्य ।इति स्तुतस्तैः सुरनाथ भक्त्याप्रपाहि शंभो न इति प्रसह्य ॥१३॥एवमुक्तस्तदा देवैः सौम्यां मूर्त्तिमथाकरोत् ।प्रकाशत्वं जगामाशु देवतानां महाप्रभः ॥१४॥एतत्सर्वं सुराणां तु दहनं शामितं पुरा ।सप्तम्यां खलु सूर्येण मूर्त्तित्वं कृतवान् भुवि ॥१५॥एतां यः पुरुषो भक्त्या उपास्ते सूर्यमर्चयेत् ।भास्करेण च तस्यासौ फलमिष्टं प्रयच्छति ॥१६॥एतत् ते कथितं राजन् सूर्याख्यानं पुरातनम् ।आदिमन्वन्तरे वृत्तं मातरः श्रृणु सांप्रतम् ॥१७॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षड्विंशोऽध्यायः ॥२६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP