संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|वराहपुराणम्| अध्यायः ७३ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ७३ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ७३ Translation - भाषांतर रुद्र उवाच ।श्रृणु चान्यद् द्विजश्रेष्ठ कौतूहलसमन्वितम् ।अपूर्वभूतं सलिले मग्नेन मुनिपुंगव ॥१॥ब्रह्माणाऽहं पुरा सृष्टः प्रोक्तश्च सृज वै प्रजाः ।अविज्ञानसमर्थोऽहं निमग्नः सलिले द्विज ॥२॥तत्र यावत् क्षणं चैकं तिष्ठामि परमेश्वरम् ।अङ्गुष्ठमात्रं पुरुषं ध्यायन् प्रयतमानसः ॥३॥तावज्जलात् समुत्तस्थुः प्रलयाग्निसमप्रभाः ।पुरुषा दश चैकश्च तापयन्तोंशुभिर्जलम् ॥४॥मया पृष्टाः के भवन्तो जलादुत्तीर्य तेजसा ।तापयन्तो जलं चेदं क्व वा यास्यथ संशत ॥५॥एवमुक्ता मया ते तु नोचुः किंचन सत्तमाः ।एवमेव गतास्तूष्णीं ते नरा द्विजपुंगव ॥६॥ततस्तेषामनु महापुरुषोऽतीवशोभनः ।स तस्मिन् मेघसंकाशः पुण्डरीकनिभेक्षणः ॥७॥तमहं पृष्टवान् कस्त्वं के चेमे पुरुषा गाताः ।किं वा प्रयोजनमिह कथ्यतां पुरुषर्षभ ॥८॥पुरुष उवाच ।य एते वै गताः पूर्वं पुरुषा दीप्ततेजसः ।आदित्यास्ते त्वरं यान्ति ध्याता वै ब्रह्मणा भव ॥९॥सृष्टिं सृजति वै ब्रह्मा तदर्थं यान्त्यमी नराः ।प्रतिपालनाय तस्यास्तु सृष्टेर्देव न संशयः ॥१०॥शम्भुरुवाच ।भगवन् कथं जानीषे महापुरुषसत्तम ।भवेति नाम्ना तत्सर्वं कथयस्व परो ह्यहम् ॥११॥एवमुक्तस्तु रुद्रेण स पुमान् प्रत्यभाषत ।अहं नारायणो देवो जलशायी सनातनः ॥१२॥दिव्यं चक्षुर्भवतु वै तव मां पश्य यत्नतः ।एवमुक्तस्तदा तेन यावद् पश्याम्यहं तु तम् ॥१३॥तावदङ्गुष्ठमात्रं तु ज्वलद्भास्करतेजसम् ।तमेवाहं प्रपश्यामि तस्य नाभौ तु पङ्कजम् ॥१४॥ब्रह्माणं तत्र पश्यामि आत्मानं च तदङ्कतः ।एवं दृष्ट्वा महात्मानं ततो हर्षमुपागतः ।तं स्तोतुं द्विजशार्दूल मतिर्मे समजायत ॥१५॥तस्य मूर्तौ तु जातायां सक्तोत्रेणानेन सुव्रत ।स्तुतो मया स विश्वात्मा तपसा स्मृतकर्मणा ॥१६॥रुद्र उवाच ।नमोऽस्त्वनन्ताय विशुद्धचेतसेसरूपरूपाय सहस्त्रबाहवे ।सहस्त्ररश्मिप्रवराय वेधसेविशालदेहाय विशुद्धकर्मिणे ॥१७॥समस्तविश्वार्तिहराय शम्भवेसहस्त्रसूर्यानिलतिग्मतेजसे ।समस्तविद्याविधृताय चक्रिणेसमस्तगीर्वाणनुते सदाऽनघ ॥१८॥अनादिदेवोऽच्युत शेषशेखरप्रभो विभो भूतपते महेश्वर ।मरुत्पते सर्वपते जगत्पतेभुवः पते भुवनपते सदा नमः ॥१९॥जलेश नारायण विश्वशंकरक्षितीश विश्वेश्वर विश्वलोचन ।शशाङ्कसूर्याच्युत वीर विश्वगा -प्रतर्क्यमूर्त्तेऽमृतमूर्तिरव्ययः ॥२०॥ज्वलद्हुताशार्चिविरुद्धमण्डलप्रपाहि नारायण विश्वतोमुख ।नमोऽस्तु देवार्त्तिहरामृताव्ययप्रपाहि मां शरणगतं सदाच्युत ॥२१॥वक्त्राण्यनेकानि विभो तवाहंपश्यामि मध्यस्थगतं पुराणम् ।ब्रह्माणमीशं जगतां प्रसूतिंनमोऽस्तु तुभ्यं तु पितामहाय ॥२२॥संसारचक्रभ्रमणैरनेकैःक्वचिद् भवान् देववरादिदेव ।सन्मार्गिभिर्ज्ञानविशुद्धसत्त्वै -रुपास्यसे किं प्रलपाम्यहं त्वाम् ॥२३॥एकं भवन्तं प्रकृतेः परस्ताद्यो वेत्त्यसौ सर्वविदादिबोद्धा ।गुणा न तेषु प्रसभं विभेद्याविशालमूर्तिर्हि सुसूक्ष्मरूपः ॥२४॥निर्वाक्यो निर्मनो विगतेन्द्रियोऽसिकर्माभवान्नो विगतैककर्मा ।संसारवांस्त्वं हि न तादृशोऽसिपुनः कथं देववरासि वेद्यः ॥२५॥मूर्तामूर्तं त्वतुलं लभ्यते तेपरं वपुर्देव विशुद्धभावैः ।संसारविच्छित्तिकरैर्यजद्भि -रतोऽवसीयेत चतुर्भुजस्त्वम् ॥२६॥परं न जानन्ति यतो वपुस्तेदेवादयोऽप्यद्भुतकारणं तत् ।अतोऽवतारोक्ततनुं पुराण -माराधयेयुः कमलासनाद्याः ॥२७॥न ते वपुर्विश्वसृगब्जयोनि-रेकान्ततो वेद महानुभावः ।परं त्वहं वेद्मि कविं पुराणंभवन्तमाद्यं तपसा विशुद्धः ॥२८॥पद्मासनो मे जनकः प्रसिद्ध -श्चैतत् प्रसूतावसकृत्पुराणैः ।संबोध्यते नाथ न मद्विधोऽपिविदुर्भवन्तं तपसा विहीनाः ॥२९॥ब्रह्मादिभिस्तत्प्रवरैरबोध्यंत्वां देव मूर्खाः स्वमनन्तनत्या ।प्रबोधमिच्छन्ति न तेषु बुद्धि -रुदारकीर्त्तिष्वपि वेदहीनाः ॥३०॥जन्मान्तरैर्वेदविदां विवेक -बुद्धिर्भवेन्नाथ तव प्रसादात् ।त्वल्लब्धलाभस्य न मानुषत्वंन देवगन्धर्वगतिः शिवं स्यात् ॥३१॥त्वं विष्णुरूपोऽसि भवान् सुसूक्ष्मःस्थूलोऽसि चेदं कृतकृत्यतायाः ।स्थूलः सुसूक्ष्मः सुलभोऽसि देवत्वद्वाह्यवृत्त्या नरके पतन्ति ॥३२॥किमुच्यते वा भवति स्थितेऽस्मिन्खात्म्येन्दुवह्न्यर्कमहीमरुद्भिः ।तत्त्वैः सतोयैः समरूपधारि -ण्यात्मस्वरूपे विततस्वभावे ॥३३॥इति स्तुतिं मे भगवन्ननन्तजुषस्व भक्तस्य विशेषतश्च ।सृष्टिं सृजस्वेति तवोदितस्यसर्वज्ञतां देहि नमोऽस्तु विष्णो ॥३४॥चतुर्मुखो यो यदि कोटिवक्त्रोभवेन्नरः क्वापि विशुद्धचेताः ।स ते गुणानामयुतैरनेकै -र्वदेत् तदा देववर प्रसीद ॥३५॥समाधियुक्तस्य विशुद्धबुद्धे -स्त्वद्भावभावैकमनोऽनुगस्य ।सदा हृदिस्थोऽसि भवान्नमस्तेन सर्वगस्यास्ति पृथग्व्यवस्था ॥३६॥इति प्रकाशं कृतमेतदीशस्तवं मया सर्वगतं विबुद्ध्वा ।संसारचक्रक्रममाणयुक्त्याभीतं पुनीह्यच्युत केवलत्वम् ॥३७॥श्रीवराह उवाच ।इति स्तुतस्तदा देवो रुद्रेणामिततेजसा ।उवाच वाक्यं संतुष्टो मेघगम्भीरनिःस्वनः ॥३८॥विष्णुरुवाच ।वरं वरय भद्रं ते देव देव उमापते ।न भेदश्चावयोर्देव एकावावामुभावपि ॥३९॥रुद्र उवाच ।ब्रह्मणाऽहं नियुक्तस्तु प्रजाः सृज इति प्रभो ।तत्र ज्ञानं प्रयच्छस्व त्रिविधं भूतभावनम् ॥४०॥विष्णुरुवाच ।सर्वज्ञस्त्वं न संदेहो ज्ञानराशिः सनातनः ।देवानां च परं पूज्यः सर्वदा त्वं भविष्यसि ॥४१॥एवमुक्तः पुनर्वाक्यमुवाचोमापतिर्मुदा ।अन्यं देहि वरं देव प्रसिद्धं सर्वजन्तुषु ॥४२॥मूर्तो भूत्वा भवानेव मामाराधय केशव ।मां वहस्व च देवेश वरं मत्तो गृहाण च ।येनाहं सर्वदेवानां पूज्यात् पूज्यतरो भवे ॥४३॥विष्णुरुवाच ।देवकार्यावतारेषु मानुषत्वमुपागतः ।त्वामेवाराधयिष्यामि त्वं च मे वरदो भव ॥४४॥यत् त्वयोक्तं वहस्वेति देवदेव उमापते ।सोऽहं वहामि त्वां देवं मेघो भूत्वा शतं समाः ॥४५॥एवमुक्त्वा हरिर्मेघः स्वयं भूत्वा महेश्वरम् ।उज्जहार जलात् तस्माद् वाक्यं चेदमुवाच ह ॥४६॥य एते दश चैकश्च पुरुषाः प्राकृताः प्रभो ।ते वैराजा महीं याता आदित्या इति संज्ञिताः ॥४७॥मदंशो द्वादशो यस्तु विष्णुनामा महीतले ।अवतीर्णो भवन्तं तु आराधयति शंकर ॥४८॥एवमुक्त्वा स्वकादंशात् सृष्ट्वादित्यं घनं तथा ।नारायणः शब्दवच्च न विद्मः क्व लयं गतः ॥४९॥रुद्र उवाच ।एवमेष हरिर्देवः सर्वगः सर्वभावनः ।वरदोऽभूत् पुरा मह्यं तेनाहं दैवतैर्वरः ॥५०॥नारायणात् परो देवो न भूतो न भविष्यति ।एतद् रहस्यं वेदानां पुराणानां च सत्तम ।मया वः कीर्तितं सर्वं यथा विष्णुरिहेज्यते ॥५१॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिसप्ततितमोऽध्यायः ॥७३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP