संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ८ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ८ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ८ Translation - भाषांतर श्रीवराह उवाच ।योऽसौ वसोः शरीरे तुव्याधो भूत्वा नृपस्य ह ।स स्ववृत्त्यां स्थितः कालं चतुर्वर्षसहस्त्रिकम् ॥१॥एकैकं स्वकुटुम्बार्थे हत्वा वनचरं मृगम् ।भृत्यातिथिहुताशानां प्रीणनं कुरुते सदा ॥२॥मिथिलायां वरारोहे सदा पर्वणि पर्वणि ।पितॄणां कुरुते श्राद्धं स्वाचारेण विचक्षणः ॥३॥अग्निं परिचरन् नित्यं वदन् सत्यं सुभाषितम् ।प्राणयात्रानुसक्तस्तु योऽसौ जीवं न पातयेत् ॥४॥एवं तु वसतस्तस्य धर्मबुद्धिर्महातपाः ।पुत्रस्त्वर्जुनको नाम बभूव मुनिवद्वशी ॥५॥तस्य कालेन महता चारित्रेण च धीमतः ।बभूवार्ज्जुनकी नाम कन्या च वरवर्णिनी ॥६॥तस्या यौवनकाले तु चिन्तयामास धर्मवित् ।कस्येयं दीयते कन्या को वा योग्यश्च वै पुमान् ॥७॥इति चिन्तयतस्तस्य मतङ्गस्य सुतं प्रति ।धर्मव्याधस्य सुव्यक्तं प्रसन्नाख्यं प्रति ब्रुवन् ॥८॥एवं संचिन्त्य मातङ्गः प्रसन्नं प्रति सोद्यतः ।उवाच तस्य पितरं प्रसन्नायार्ज्जुनीं भवान् ।गृहाण तपतां श्रेष्ठ स्वयं दत्तां महात्मने ॥९॥मतङ्ग उवाच ।प्रसन्नोऽयं मम सुतः सर्वशास्त्रविशारदः ।गृह्णाम्यर्जुनकीं कन्यां त्वत्सुतां व्याधसत्तम ॥१०॥एवमुक्ते तदा कन्यां धर्मव्याधो महातपाः ।मतङ्गपुत्राय ददौ प्रसन्नाय च धीमते ॥११॥धर्मव्याधस्तदा कन्यां दत्वा स्वगृहमीयिवान् ।साऽपि श्वशुरयोर्भर्तुः शुश्रीषणपराऽभवत् ॥१२॥अथ कालेन महता सा कन्याऽर्जुनकी शुभा ।उक्ता श्वश्रुवा सुता पुत्रि जीवहन्तुस्त्वमीदृशी ।न जानासि तपश्चर्तुं भर्त्तुराराधनं तथा ॥१३॥साऽपि स्वल्पापराधेन भर्त्सिता तनुमध्यमा ।पितुर्वेश्मगता बाला रोदमाना मुहुर्मुहुः ॥१४॥पित्रा पृष्टा किमेतत् ते पुत्रि रोदनकारणम् ।एवमुक्ता तदा सा तु कथयामास भामिनी ॥१५॥श्वश्व्राऽहमुक्ता तीव्रेण कोपेन महता पितः ।जीवहन्तुः सुतेत्युच्चैरसकृद् व्याधजेति च ॥१६॥एतच्छ्रुत्वा स धर्मात्मा धर्मव्याधो रुषान्वितः ।मतङ्गस्य गृहं सोऽथ गत्वा जनपदैर्वृतम् ॥१७॥तस्यागतस्य संबन्धी मतङ्गो जयतां वरः ।आसनाद्यर्ध्यपाद्येन पूजयित्वेदमब्रवीत् ।किमागमनकृत्यं ते किं करोम्यागतक्रियाम् ॥१८॥व्याध उवाच ।भोजनं किंचिदिच्छामि भोक्तुं चैतन्यवर्जितम् ।कौतूहलेन येनाहमागतो भवतो गृहम् ॥१९॥मतङ्ग उवाच ।गोधूमा व्रीमयश्चैव संस्कृता मम वेश्मनि ।भुज्यतां धर्मविच्छ्रेष्ठ यथाकामं तपोधन ॥२०॥व्याध उवाच ।पश्यामि कीदृशास्ते हि गोधूमा व्रीहयो यवाः ।स्वरूपेण च सन्त्येते येन वो वेद्मि सत्तम ॥२१॥श्रीवराह उवाच ।एवमुक्ते मतङ्गेन शूर्पं गोधूमपूरितम् ।अपरं तत्र व्रीहीणां धर्मव्याधाय दर्शितम् ॥२२॥दृष्ट्वा व्रीहीन् सगोधूमान् धर्मव्याधो वरासनात् ।उत्थाय गन्तुमारेभे मतङ्गेन निवारितः ॥२३॥किमर्थं गन्तुमारब्धं त्वया वद महामते ।अभुक्तेनैव संसिद्धं मद्गृहे चान्नमुत्तमम् ।पाचयित्वा स्वयं चैव कस्मात् त्वं नाद्य भुञ्जसे ॥२४॥व्याध उवाच ।सहस्त्रशः कोटिशश्च जीवान् हंसि दिने दिने ।अथेदृशस्य पापस्य कोऽन्नं भुञ्जति सत्पुमान् ॥२५॥अचैतन्यं यदि गृहे विद्यतेऽन्नं सुसंस्कृतम् ।इदानीमत्र संदृष्टा एते तु जलजन्तवः ॥२६॥(उप्ताः सहस्त्रतां यान्ति प्रतिसंवत्सरं मुने । ॥२६॥अहमेकं कुटुम्बार्थे हन्म्यरण्ये पशुं दिने ।तं चेत् पितृभ्यः संस्कृत्य दत्त्वा भुञ्जामि सानुगः ॥२७॥त्वं तु जीवान् बहून् हत्वा स्वकुटुम्बेन सानुगः ।भुञ्जन्नेतेन सततमभोज्यं तन्मतं मम ॥२८॥ब्रह्मणा तु पुरा सृष्टा ओषध्यः सर्ववीरुधः ।यज्ञार्थं तत्तु भूतानां भक्ष्यमित्येव वै श्रुतिः ॥२९॥दिव्यो भौतस्तथा पैत्रो मानुषो ब्राह्म एव च ।एते पञ्च महायज्ञा ब्रह्मणा निर्मिताः पुरा ॥३०॥ब्राह्मणानां हितार्थाय इतरेषां च तन्मुखम् ।इतरेषां तु वर्णानां ब्राह्मणैः कारिताः शुभाः ॥३१॥एवं यदि विभागः स्याद् वरान्नं तद् विशुध्यति ।अन्यथा व्रीहयोऽप्येते एकैके मृगपक्षिणः ।मन्तव्या दातृभोक्तृणां महामांसं तु तत् स्मृतम् ॥३२॥मया ते दुहिता दत्ता पुत्रार्थे देवरूपिणी ।सा च त्वद्भार्यया प्रोक्ता दुहिता जन्तुघातिनः ॥३३॥अतोऽर्थमागतोऽहं ते गृहं प्रति समीक्षितुम् ।आचारं देवपूजां च अतिथीनां च तर्पणम् ॥३४॥एतेषामेकमप्यत्र कुर्वन्नपि न दृश्यते ।तद् गृहं गन्तुमिच्छामि पितॄणां श्राद्धकाम्यया ॥३५॥स्वगृहे नैव भुञ्जामि पितॄणां कार्यमित्युत ।अहं व्याधो जीवघाती न तु त्वं लोकहिंसकः ॥३६॥मत्सुता जीवघातस्य यदोढा त्वत्सुतेन च ।तन्महत्त्वं च संजातं प्रायश्चितं तपोधन ॥३७॥एवमुक्त्वा स चोत्थाय शप्त्वा नारीं तदा धरे ।मा स्नुषाभिः समं श्वश्र्वा विश्वासो भवतु क्वचित् ॥३८॥मा च स्नुषा कदाचित् स्याद् या श्वश्रूं जीवतीमिषेत् ।एवमुक्त्वा गतो व्याधः स्वगृहं प्रति भामिनि ॥३९॥ततो देवान् पितॄन् भक्तया पूजयित्वा विचक्षणः ।पुत्रं चार्जुनकं स्थाप्य स्वसन्ताने महातपाः ॥४०॥धर्मव्याधो जगामाशु तीर्थं त्रैलोक्यविश्रुतम् ।पुरुषोत्तमाख्यं च परं तत्र गत्वा समाहितः ।तपश्चचार नियतः पठन् स्तोत्रमिदं धरे ॥४१॥नमामि विष्णुं त्रिदशारिनाशनंविशालवक्षस्थलसंश्रितश्रियम् ।सुशासनं नीतिमतां परां गतिंत्रिविक्रमं मन्दरधारिणं सदा ॥४२॥दामोदरं रञ्जितभूतलं धियायशोंशुशुभ्रं भ्रमराङ्गसप्रभम् ।धराधरं नरकरिपुं पुरुष्टुतंनमामि विष्णुं शरणं जनार्दनम् ॥४३॥(नरं नृसिंहं हरिमीश्वरं प्रभुंत्रिधामनामानमनन्तवर्चसम् ।सुसंस्कृतास्यं शरणं नरोत्तमंव्रजामि देवं सततं तमच्युतम् ॥४३ (१))त्रिधा स्थितं तिग्मरथाङ्गपाणिनंनयस्थितं तृप्तमनुत्तमैर्गुणैः ।निःश्रेयसाख्यं क्षपितेतरं गुरुंनमामि विष्णुं पुरुषोत्तमं त्वहम् ॥४४॥(हतौ पुराणौ मधुकैटभावुभौबिभर्त्ति च क्ष्मां शिरसा सदा हि सः ।यथा स्तुतो मे प्रसभं सनातनोदधातु विष्णुः सुखमूर्जितं मम ॥४४ (१))महावराहो हविषाम्बुभोजनोजनार्दनो मे हितकृच्चितीमुखः ।क्षितीधरो मामुदधिक्षयो महान्स पातु विष्णुः शरणार्थिनं तु माम् ॥४५॥मायाततं येन जगत्त्रयं कृतंयथाग्निनैकेन ततं चराचरम् ।चराचरस्य स्वयमेव सर्वतःस मेऽस्तु विष्णुः शरणं जगत्पतिः ॥४६॥भवे भवे यश्च ससर्ज्ज कं ततोजगत् प्रसूतं सचराचरं त्विदम् ।ततश्च रुद्रात्मवति प्रलीयते-ऽन्वतो हरिर्विष्णुहरस्तथोच्यते ॥४७॥खात्मेन्दुपृथ्वीपवनाग्निभास्कराजलं च यस्य प्रभवन्ति मूर्त्तयः ।स सर्वदा मे भगवान् सनातनोददातु शं विष्णुरचिन्त्यरूपधृक् ॥४८॥इतीरिते तस्य सनातनः स्वयंपुरो बभूवाद्भुतरूपदर्शनः ।॥ इति श्रीवराहपुराणे भगवच्छास्त्रे अष्टमोऽध्यायः ॥८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP