संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ११ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ११ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ११ Translation - भाषांतर श्रीवराह उवाच ।ततस्तमीदृशं दृष्ट्वा तदा गौरमुखाश्रमम् ।दुर्ज्जयश्चिन्तयामास रम्यमाश्रममण्डलम् ॥१॥प्रविशाम्यत्र पश्यामि ऋषीन् परमधार्मिकान् ।चिन्तयित्वा तदा राजा प्रविवेश तमाश्रमम् ॥२॥तस्य प्रविष्टस्य ततो राज्ञः परमहर्षितः ।चकार पूजां धर्मात्मा तदा गौरमुखो मुनिः ॥३॥स्वागतादिक्रियाः कृत्वा कथान्ते तं महामुनिः ।स्वशक्त्याऽहं नृपश्रेष्ठ सानुगस्य च भोजनम् ॥४॥करिष्यामि प्रमुच्यन्तां साधु वाहा इति द्विजः ।एवमुक्त्वा स्थितस्तूष्णीं स मुनिः संशितव्रतः ॥५॥राजाऽपि तस्थौ तद्भक्त्या स्वसहायैः समन्वितः ।अक्षौहिण्यो बलस्यास्य पञ्चमात्रास्तदा स्थिताः ।अयं च तापसः किं मे दास्यते भोजनं त्विह ॥६॥निमन्त्र्य दुर्जयं विप्रस्तदा गौरमुखो नृपम् ।चिन्तयामास किं चास्य मया देयं तु भोजनम् ॥७॥एवं चिन्तयतस्तस्य महर्षेर्भावितात्मनः ।स्थितो मनसि देवेशो हरिर्नारायणः प्रभुः ॥८॥ततः संस्मृत्य मनसा देवं नारायणं तदा ।तोषयामास गङ्गायां प्रविश्य मुनिसत्तमः ॥९॥धरण्युवाच ।कथं गौरमुखो विष्णुं तोषयामास भूधर ।एतन्मे कौतुकं श्रोतुं सम्यगिच्छा प्रवर्त्तते ॥१०॥नमोऽस्तु विष्णवे नित्यं नमस्ते पीतवाससे ।नमस्ते चाद्यरूपाय नमस्ते जलरूपिणे ॥११॥नमस्ते सर्वसंस्थाय नमस्ते जलशायिने ।नमस्ते क्षितिरूपाय नमस्ते तेजसात्मने ॥१२॥नमस्ते वायुरूपाय नमस्ते व्योमरूपिणे ।त्वं देवः सर्वभूतानां प्रभुस्त्वमसि हृच्छयः ॥१३॥त्वमोङ्कारो वषट्कारः सर्वत्रैव च संस्थितः ।त्वमादिः सर्वदेवानां तव चादिर्न विद्यते ॥१४॥त्वं भूस्त्वं च भुवो देव त्वं जनस्त्वं महः स्मृतः ।त्वं तपस्त्वं च सत्यं च त्वयि देव चराचरम् ॥१५॥त्वत्तो भूतमिदं विश्वं त्वदुद्भूता ऋगादयः ।त्वत्तः शास्त्राणि जातानि त्वत्तो यज्ञाः प्रतिष्ठिताः ॥१६॥त्वत्तो वृक्षा वीरुधश्च त्वत्तः सर्वा वनौषधीः ।पशवः पक्षिणः सर्पास्त्वत्त एव जनार्दन ॥१७॥ममापि देवदेवेश राजा दुर्जयसंज्ञितः ।आगतोऽभ्यागतस्तस्य आतिथ्यं कर्त्तुमुत्सहे ॥१८॥तस्य मे निर्धनस्याद्य देवदेव जगत्पते ।भक्तिनम्रस्य देवेश कुरुष्वान्नाद्यसंचयम् ॥१९॥यं यं स्पृशामि हस्तेन यं यं पश्यामि चक्षुषा ।वृक्षं वा तृणकन्दं वा तत्तदन्नं चतुर्विधम् ॥२०॥तथा त्वन्यतमं वाऽपि यद् ध्यातं मनसा मया ।तत् सर्वं सिद्ध्यतां मह्यं नमस्ते परमेश्वर ॥२१॥इति स्तुत्या तु देवेशस्तुतोष जगतां पतिः ।मुनेस्तस्य स्वकं रूपं दर्शयामास केशवः ॥२२॥उवाच सुप्रसन्नात्मा ब्रूहि विप्र वरं परम् ।एवं श्रुत्वाऽक्षिणी यावदुन्मीलयति वै मुनिः ॥२३॥तदा शङ्खगदापाणिः पीतवासा जनार्दनः ।गरुडस्थोऽपि तेजस्वी द्वादशादित्यसप्रभः ॥२४॥दिवि सूर्यसहस्त्रस्य भवेद्युगपदुत्थिता ।यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥२५॥तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तमनेकधा ।ददर्श स मुनिर्देवि विस्मयोत्फुल्ललोचनः ॥२६॥जगाम शिरसा देवं कृताञ्जलिरथाब्रवीत् ।यदि मे वरदो देवो भूयाद् भक्तस्य केशव ॥२७॥इदानीमेष नृपतिर्यथा सबलवाहनः ।ममाश्रमे कृताहारः श्वः प्रयाता स्वकं गृहम् ॥२८॥इत्युक्तस्तस्य देवेशो वरदः संबभूव ह ।चित्तसिद्धिं ददौ तस्मै मणिं च सुमहाप्रभम् ॥२९॥तं दत्त्वाऽन्तर्दधे देवः स च गौरमुखो मुनिः ।जगाम चाश्रमं पुण्यं नाना ऋषिनिषेवितम् ॥३०॥तत्र गत्वा स विप्रेन्द्रश्चिन्तयमास वै मुनिः ।हिमवच्छिखराकारं महाभ्रमिव चोन्नतम् ।शशाङ्करश्मिसङ्काशं गृहं वै शतभूमिकम् ॥३१॥तादृशानां सहस्त्राणि लक्षकोट्यश्च सर्वशः ।गृहाणि निर्ममे विप्रो विष्णोर्लब्धवरस्तदा ॥३२॥प्राकाराणि ततोपान्ते तल्लग्नोद्यानकानि च ।कोकिलाकुलघुष्टानि नानाद्विजवराणि च ।चम्पकाशोकपुन्नागनागकेशरवन्ति च ॥३३॥नानाजात्यस्तथा वृक्षा गृहोद्यानेषु सर्वशः ।हस्तिनां हस्तिशालाश्च तुरगाणां च मन्दुराः ॥३४॥चकार संचयान् विप्रो नानाभक्ष्याणि सर्वशः ।भक्ष्यं भोज्यं तथा लेह्यं चोष्यं बहुविधं तथा ।चकारान्नाद्यनिचयं हेमपात्र्यश्च सर्वतः ॥३५॥एवं कृत्वा स विप्रस्तु राजानं भूरितेजसम् ।उवाच सर्वसैन्यानि प्रविशन्तु गृहानिति ॥३६॥एवमुक्तस्ततो राजा तद्गृहं पर्वतोपमम् ।प्रविवेशान्तरेष्वन्ये भृत्या विविशुराशु वै ॥३७॥ततस्तेषु प्रविष्टेषु तदा गौरमुखो मुनिः ।प्रगृह्य तं मणिं दिव्यं राजानं चेदमब्रवीत् ॥३८॥मज्जनाभ्यवहारार्थं पथि श्रमकृते तथा ।विलासिनीस्तथा दासान् प्रेषयिष्यामि ते नृप ॥३९॥एवमुक्त्वा स विप्रेन्द्रस्तं मणिं वैष्णवं शुभम् ।एकान्ते स्थापयामास राज्ञस्तस्य प्रपश्चतः ॥४०॥तस्मिन् स्थापितमात्रे तु मणौ शुद्धसमप्रभे ।निश्चेरुर्योषितस्तत्र दिव्यरूपाः सहस्त्रशः ॥४१॥सुकुमाराङ्गरागाद्याः सुकुमारवराङगनाः ।सुकपोलाः सुचार्व्यङ्ग्यः सुकेशान्ताः सुलोचनाः ।काश्चित्सौवर्णपात्रीश्च गृहीत्वा संप्रतस्थिरे ॥४२॥एवं योषिद्गणास्तत्र नराः कर्मकरास्तथा ।निर्जग्मुस्तस्य नृपतेः सर्वे भृत्या नृपस्य ह ।केवलं भोजनं पूर्वं परिधानं च सर्वशः ॥४३॥ताः स्त्रियः सर्वभृत्यानां राजमार्गेण मज्जनम् ।ददुस्ते च नराश्वानां हस्तिनां च त्वरान्विताः ॥४४॥नानाविधानि तूर्याणि तत्रावाद्यन्त सर्वशः ।मज्जने नृपतेस्तत्र ननृतुश्चान्ययोषितः ।अपराश्च जगुस्तत्र शक्रस्येव प्रमज्जतः ॥४५॥एवं दिव्योपचारेण स्नात्वा राजा महामनाः ।चिन्तयामास राजेन्द्रो विस्मयाविष्टचेतनः ।किमिदं मुनिसामर्थ्यं तपसो वाऽथ वा मणेः ॥४६॥एवं स्नात्वा शुभे वस्त्रे परिधायोत्तमे तथा ।विविधान्नं तु विधिना बुभुजे स नृपोत्तमः ॥४७॥यथा च नृपतेः पूजा कृता तेन महर्षिणा ।तद्वद् भृत्यजनस्यापि चकार मुनिसत्तमः ॥४८॥यावत् स राजा बुभुजे सभृत्यबलवाहनः ।तावदस्तगिरिं भानुर्जगामारुणसप्रभः ॥४९॥ततस्तु रात्रिः समपद्यताऽधुनाशरच्छशाङ्कोज्ज्वलऋक्षमण्डिता ।करोति रागं स च रोहिणीधवःसुसङ्गतं सौम्यगुणेषु तापि च ॥५०॥भृगूद्वहः कृष्णतरांशुभानुनासहोद्यतो दैत्यगुरुः सुराधिपः ।अथान्तरात्पक्षगतो न राजतेस्वभावयोगेन मतिस्तु देहिनाम् ॥५१॥सुरक्ततां भूमिसुतश्च मुञ्चतेराहुः सिती चन्द्रमसोंशुभिः सितैः ।मुक्तः स्वभावो जगतः सुरासुरै-रनुस्वभावो बलवान् सुकृन्नृपः ॥५२॥सितेश्वराख्यापितरश्मिमण्डलेसूर्यत्वसिद्धान्तकषेव निर्मले ।करोति केतुर्न परे महत्तम-स्तदा कुशीलेषु गतिश्च निर्मला ॥५३॥बुधोच्चबुद्धिर्जगतो विभावयन्रराज राज्ञो तनयः स्वकर्मभिः ।भृतेच्छकः कक्षविवाहितश्चिरंभवेदियं साधुषु सम्मितिर्ध्रुवम् ॥५४॥करोति केतुः कपिलं वियच्चिरंराज्ञः सुराणां पथि संस्थितं भृशम् ।न दुर्जनः सज्जनसंसदि क्वचित्करोति शुद्धं निजकर्मकौशलम् ॥५५॥शशाङ्करश्मिप्रविभासिता अपिप्रकाशमीयुर्निरताः पदे पदे ।कुलंभवाः संभवधर्मपत्तयोमहांशुयोगान्महतां समुन्नतिम् ॥५६॥त्रिदोषसक्तान्निकृतोऽस्य सर्वशःसुतेन राज्ञो वरुणस्य सूर्यजः ।विराजते कौशिकसन्निवेशितान वेदकर्म क्वचिदन्यथा भवेत् ॥५७॥द्वन्द्वः समेतान् मम यः शिशुः पुराहरिर्य आराधितवान् नृपासनम् ।लक्ष्म्यापि बुद्ध्या सुचिरं प्रकाशतेध्रुवेण विष्णुस्मरणेन दुर्लभम् ॥५८॥इतीदृशी रात्रिरभूदृषेः शुभेवराश्रमे दुर्जयभूपतेः शुभा ।सभृत्यसामन्तवराश्वदन्तिनःसुभक्तवस्त्राभरणादिपूजया ॥५९॥इतीदृशायां वररत्नचित्रिताःसुपट्टसंवीतवरास्तृतास्तदा ।गृहेषु पर्यङ्कवराः समाश्रिताःसुरूपयोषित्कृतभङ्गभासुराः ॥६०॥स तत्र राजा विससर्ज भूभृतःस्वयं सभृत्यानपि सर्वतो गृहान् ।गतेषु सुष्वाप वरस्त्रिया वृतःसुरेशवत्स्वर्गगतः प्रतापवान् ॥६१॥एवं सुमनसस्तस्य सभृत्यस्य महात्मनः ।ऋषेस्तस्य प्रभावेन हृष्टास्तु सुषुपुस्तदा ॥६२॥ततो रात्र्यां व्यतीतायां स राजा ताः स्त्रियः पुनः ।अन्तर्द्धानं गतास्तत्र दृष्ट्वा तानि गृहाणि च ॥६३॥अदृश्यानि महार्हाणि वरासनजलानि च ।राजा स विस्मयाविष्टश्चिन्तयामास दुःखितः ॥६४॥कथमेवं मणिर्मह्यं भवतीति पुनः पुनः ।चिन्तयन्नधिगम्याथ स राजा दुर्जयस्तदा ॥६५॥चिन्तामणिमिमं चास्य हरामीति विचिन्त्य सः ।प्रयाणं नोदयामास स राजाश्रमबाह्यतः ।आश्रमस्य बहिर्गत्वा नातिदूरे सवाहनः ॥६६॥ततो विरोचनाख्यं वै प्रेषयामास मन्त्रिणम् ।ऋषेर्गौरमुखस्यापि मणेर्याचनकर्मणि ॥६७॥ऋषिं तं च समागत्य मणिं याचितुमुद्यतः ।रत्नानां भाजनं राजा मणिं तस्मै प्रदीयताम् ॥६८॥अमात्येनैवमुक्तस्तु क्रुद्धो गौरमुखोऽब्रवीत् ।प्रतिगृह्णाति विप्रस्तु राजा चैव ददाति च ।त्वं च राजा पुनर्भूत्वा याचसे दीनवत् कथम् ॥६९॥एवं ब्रूहि दुराचारं राजानं दुर्जयं स्वयम् ।गच्छ द्रुतं दुराचार मा त्वां लोकोऽत्यगादिति ॥७०॥(एवमुक्त्वा मुनिः प्रागात् कुशेध्माहरणाय वै ।चिन्तयन् मनसा तं च मणिं शत्रुविनाशनम् ) ॥७१॥एवमुक्तस्तदा दूतो जगाम च नृपान्तिकम् ।कथयामास तत्सर्वं यदुक्तं ब्राह्मणेन च ॥७२॥ततः क्रोधपरीतात्मा श्रुत्वा ब्राह्मणभाषितम् ।दुर्जयः प्राह नीलाख्यं सामन्तं गच्छ माचिरम् ।ब्राह्मणस्य मणिं गृह्य तूर्णमेहि यदृच्छया ॥७३॥एवमुक्तस्तदा नीलो बहुसेनापरिच्छदः ।जगाम स च विप्रस्य वन्यमाश्रममण्डलम् ॥७४॥तत्राग्निहोत्रशालायां दृष्ट्वा तं मणिमाहितम् ।उत्तीर्य स्यन्दनान्नीलः सोऽवरोहत भूतले ॥७५॥अवतीर्णे ततस्तस्मिन् नीले परमदारुणे ।क्रूरबुद्ध्या मणेस्तस्मान्निर्जग्मुः शस्त्रपाणयः ॥७६॥सरथाः सध्वजाः साश्वाः सबाणाः सासिचर्मिणः ।सधनुष्काः सतूणीरा योधाः परमदुर्जयाः ।निश्चेरुस्तं मणिं भित्वा असंख्येया महाबलाः ॥७७॥तत्र सज्जा महाशूरा दश पञ्च च संख्यया ।नामभिस्तान् महाभागे कथयामि श्रृणुष्व तान् ॥७८॥सुप्रभो दीप्ततेजाश्च सुरश्मिः शुभदर्शनः ।सुकान्तिः सुन्दरः सुन्दः प्रद्युम्नः सुमनाः शुभः ॥७९॥सुशीलः सुखदः शम्भुः सुदान्तः सोम एव च ।एते पञ्चदश प्रोक्ता नायका मणितोत्थिताः ॥८०॥ततो विरोचनं दृष्ट्वा बहुसैन्यपरिष्कृतम् ।योधयामासुरव्यग्रा विविधायुधपाणयः ॥८१॥धनूंषि तेषां कनकप्रभाणिशरान् सुजाम्बूनदपुङ्खनद्धान् ।पतन्ति खङ्गानि विभीषणानिभुशुण्डिशूलाः परमप्रधानाः ॥८२॥रथो रथं संपरिवार्य तस्थौगजो गजस्यापि हयो हरस्य ।पदातिरत्युग्रपराक्रमश्चपदातिमेव प्रससार चाग्र्यम् ॥८३॥द्वन्द्वन्यनेकानि तथैव युद्धेद्रवन्ति शूराः परिभर्त्सयन्तः ।विभीषणं निर्गतचापमार्गंबभूव बाहुप्रभवं सुघोरम् ॥८४॥तथा प्रवृत्ते तुमुलेऽथ युद्धेहतः स राज्ञः सचिवो विसंज्ञः ।सहानुगः सर्वबलैरुपेतोजगाम वैवस्वतमन्दिराय ॥८५॥तस्मिन् हते दुर्जयराजमन्त्रिणिउपाययौ स्वेन बलेन राजा ।स दुर्जयः साश्वरथोऽतितीव्रःप्रतापवांस्तैर्मणिजैर्युयोध ॥८६॥ततस्तस्मिंस्तदा राज्ञो महत्कदनमाबभौ ।ततो हेतुप्रहेतृभ्यां श्रुत्वा जामातरं रणे ॥८७॥युध्यमानं महाबाहुं ततस्त्वाययतुश्चमूः ।तस्मिन् बले तु दैत्या ये तान् श्रृणुष्व धरेरितान् ॥८८॥प्रघसो विघसश्चैव सङ्घसोऽशनिसप्रभः ।विद्युत्प्रभः सुघोषश्च उन्मत्ताक्षो भयंकरः ॥८९॥अग्निदन्तोऽग्नितेजाश्च बाहुशक्रः प्रतर्दनः ।विराधो भीमकर्मा च विप्रचित्तिस्तथैव च ॥९०॥एते पञ्चदश श्रेष्ठा असुराः परमायुधाः ।अक्षौहिणीपरीवार एकैकोऽत्र पृथक्पृथक् ॥९१॥महामायास्तु समरे दुर्ज्जयस्य महात्मनः ।युयुधुर्मणिजैः सार्द्धं महासैन्यपरिच्छदाः ॥९२॥(सुप्रभः प्रघसं त्वाजौ ताडयामास पञ्चभिः ।शरैराशीविषाकारैः प्रतप्तैः पतगैरिव ॥) ॥९३॥तप्ततेजास्त्रिभिर्बाणैर्विघसं संप्रविध्यत ।संघसं दशभिर्बाणैः सुरश्मिः प्रत्यविध्यत ॥९४॥अशनिप्रभं रणेऽविध्यत् पञ्चभिः शुभदर्शनः ।विद्युत्प्रभं सुकान्तिस्तु सुघोषं सुन्दरस्तथा ॥९५॥उन्मत्ताक्षं तथाविध्यत् सुन्दः पञ्चभिराशुगैः ।चकर्त्त च धनुस्तस्य शितेन नतपर्वणा ॥९६॥सुमना अग्निदंष्ट्रं तु सुशुभश्चाग्नितेजसम् ।सुशीलो वायुशक्रं तु सुमुखश्च प्रतर्दनम् ॥९७॥(विराधेन तथा शम्भुः सुकीर्तिर्भीमकर्म्मणा ।विप्रचित्तिस्तथा सोमं एतद् युद्धं महानभूत्॥) ॥९८॥परस्परं सुयुद्धेन योधयित्वाऽस्त्रलाघवात् ।यथासंख्येन ते दैत्याः पुनर्मणिभवैर्हताः ॥९९॥यावत् संग्रामघोरो वै महांस्तेषां व्यवर्द्धत ।तावत् समित्कुशादीनि कृत्वा गौरमुखो मुनिः ॥१००॥आगतो महदाश्चर्यं संग्रामं भीमदर्शनम् ।बहुसैन्यपरीवारं स्थितं तं चापि दुर्ज्जयम् ॥१०१॥तं दृष्ट्वा स मुनिर्द्वारि चिन्तापरम एव हि ।उपविश्याधिगम्याथ मणेः कारणमेव ह ॥१०२॥एवं कृत्वा मणिकृतं रौद्रं गाढं च संयुगम् ।चिन्तयामास देवेशं हरिं गौरमुखो मुनिः ॥१०३॥स देवः पुरतस्तस्य पीतवासाः खगासनः ।किमत्र ते मया कार्यमिति वाणीमुदीरयत् ॥१०४॥स ऋषिः प्राञ्जलिर्भूत्वा उवाच पुरुषोत्तमम् ।जहीमं दुर्ज्जयं पापं ससैन्यं परिवारिणम् ॥१०५॥एवमुक्तस्तदा तेन चक्रं ज्वलनसन्निभम् ।(मुमोच दुर्जयबले कालचक्रं सुदर्शनम्) ॥१०६॥तेन चक्रेण तत्सैन्यमासुरं दौर्जयं क्षणात् ।निमेषान्तरमात्रेण भस्मवद् बहुधा कृतम् ॥१०७॥एवं कृत्वा ततो देवो मुनिं गौरमुखं तदा ।उवाच निमिषेणेदं निहतं दानवं बलम् ॥१०८॥अरण्येऽस्मिंस्ततस्त्वेवं नैमिषारण्यसंज्ञितम् ।भविष्यति यथार्थं वै ब्राह्मणानां विशेषतः ॥१०९॥अहं च यज्ञपुरुष एतस्मिन् वनगोचरे ।नाम्ना याज्या सदा चेमे दश पञ्च च नायकाः ।कृते युगे भविष्यन्ति राजानो मणिजा मुने ॥११०॥एवमुक्त्वा ततो देवो गतोऽन्तर्धानमीश्वरः ।द्विजोऽपि स्वाश्रमे तस्थौ मुदा परमया युतः ॥१११॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकादशोऽध्यायः ॥११॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP