संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ४२ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ४२ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ४२ Translation - भाषांतर दुर्वासा उवाच ।तद्वत् फाल्गुनमासे तु शुक्लपक्षे तु द्वादशीम् ।उपोष्य प्रोक्तविधिना हरिमाराधयेत् सुधीः ॥१॥नरसिंहाय पादौ तु गोविन्दायेत्युरू तथा ।कटिं विश्वभुजे पूज्य अनिरुद्धेत्युरस्तथा ॥२॥कण्ठं तु शितिकण्ठाय पिङ्गकेशाय वै शिरः ।असुरध्वंसनायेति चक्रं तोयात्मने तथा ।शङ्खमित्येव संपूज्य गन्धपुष्पफलैस्तथा ॥३॥तदग्रे घटमादाय सितवस्त्रयुगान्वितम् ।तस्योपरि नृसिहं तु सौवर्णं ताम्रभाजने ।सौवर्ण शक्तितः कृत्वा दारुवंशमयेऽपि वा ॥४॥रत्नगर्भघटे स्थाप्य तं संपूज्य च मानवः ।द्वादश्यां वेदविदुषे ब्राह्मणाय निवेदयेत् ॥५॥एवं कृते फलं प्राप्तं यत् पुरा पार्थिवेन तु ।तस्याहं संप्रवक्ष्यामि वत्सनाम्ना महामुने ॥६॥आसीत् किंपुरुषे वर्षे राजा परमधार्मिकः ।भारतेति च विख्यातस्तस्य वत्सः सुतोऽभवत् ॥७॥स शत्रुभिर्जितः संख्ये हृतकोशो द्विपादवान् ।वनं प्रायात् सपत्नीको वसिष्ठस्याश्रमेऽवसत् ॥८॥कालेन गच्छता सोऽथ वसिष्ठेन महर्षिणा ।किं कार्यमिति स प्रोक्तो वसस्यस्मिन् महाश्रमे ॥९॥राजोवाच ।भगवन् हृतकोशोऽहं हृतराज्यो विशेषतः ।शत्रुभिर्हतसंकल्पो भवन्तं शरणं गतः ।उपदेशप्रदानेन प्रसादं कर्तुमर्हसि ॥१०॥एवमुक्तो वसिष्ठस्तु तस्येमां द्वादशीं मुने ।विधिना प्रत्युवाचाथ सोऽपि सर्वं तथाऽकरोत् ॥११॥तस्य व्रतान्ते भगवान् नारसिंहस्तुतोष ह ।चक्रं प्रादाच्च शत्रूणां विध्वंसनकरं परम् ॥१२॥तेनास्त्रेण स्वकं राज्यं जितवान् स नृपोत्तमः ।राज्ये स्थित्वाऽश्वमेधानां सहस्त्रमकरोद् विभुः ।अन्ते च विष्णुलोकाख्यं पदमाप च सत्तम ॥१३॥एषा धन्या पापहरा द्वादशी भवतो मुने ।कथिता या प्रयत्नेन श्रुत्वा कुरु यथेप्सितम् ॥१४॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे द्विचत्वारिंशोऽध्यायः ॥४२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP