संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः १७ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः १७ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः १७ Translation - भाषांतर धरण्युवाच ।ये ते मणौ तदा देव उत्पन्ना नरपुंगवाः ।तेषां वरो भगवता दत्तस्त्रेतायुगे किल ॥१॥राजानो भवितारो वै कथं तेषां समुद्भवः ।किं च चक्रुर्हि ते कर्म पृथङ् नामानि शंस मे ॥२॥श्रीवराह उवाच ।सुप्रभो मणिजो यस्तु राजा नाम्ना महामनाः ।तस्योत्पत्तिं वरारोहे श्रृणु त्वं भूतधारिणि ॥३॥आसीद् राजा महाबाहुरादौ कृतयुगे पुरा ।श्रुतकीर्तिरिति ख्यातस्त्रैलोक्ये बलवत्तरः ॥४॥तस्य पुत्रत्वमापेदे सुप्रभो मणिजो धरे ।प्रजापालेति वै नाम्ना श्रुतकीर्तिर्महाबलः ॥५॥सैकस्मिंश्चिद् दिने प्रायाद् विपिनं श्वापदाकुम् ।तत्रापश्यदृषेर्धन्यं महदाश्रममण्डलम् ॥६॥तस्मिन् महातपा नाम ऋषिः परधार्मिकः ।तपस्तेपे निराहारो जपन् ब्रह्म सनातनम् ॥७॥तत्रासौ पार्थिवः श्रीमान् प्रवेशाय मतिं तदा ।चकार चाविशद् राजा प्रजापालो महातपाः ॥८॥तस्मिन् वराश्रमपदे वनवृक्षजात्याधराप्रसूतोर्जितमार्गजुष्टाः ।लतागृहा इन्दुरविप्रकाशिनोनायासितज्ञाः कुलभृङ्गराजाः ॥९॥सुरक्तपद्मोदरकोमलाग्र-नखाङ्गुलीभिः प्रसृतैः सुराणाम् ।वराङ्गनाभिः पदपङ्क्तिमुच्चै-विंहाय भूमिं त्वपि वृत्रशत्रोः ॥१०॥क्वचित् समीपे तमतीव हृष्टै-र्नानाद्विजैः षट्चृरणैश्च मत्तैः ।वासद्भिरुच्चैर्विविधप्रमाणाःशाखाः सुपुष्पाः समयोगयुक्ताः ॥११॥कदम्बनीपार्ज्जुनशीलशाल-लतागृहस्थैर्मधुरस्वरेण ।जुष्टं विहङ्गैः सुजनप्रयोगानिराकुला कार्यधृतिर्यथास्थैः ॥१२॥मखाग्निधूमैरुदिताग्निहोमै-स्ततः समन्तात् गृहमेधिभिर्द्विजैः ।सिंहैरिवाधर्म्मकरी विदारितःस तीक्ष्णदंष्ट्रैर्वरमत्तकेसरैः ॥१३॥एवं स राजा विविधानुपायान्वराश्रमे प्रेक्षमाणो विवेश ।तस्मिद् प्रविष्टे तु स तीव्रतेजामहातपाः पुण्यकृतां प्रधानः ।दृष्टो यथा भानुरनन्तभानुःकौश्यासने ब्रह्मविदां प्रधानः ॥१४॥दृष्ट्वा स राजा विजयी मृगाणांमतिं विसस्मार मुनेः प्रसङ्गात् ।चकार धर्मं प्रति मानसं सोअनुत्तमं प्राप्य नृपो मुनिं सः ॥१५॥स मुनिस्तं नृपं दृष्ट्वा प्रजापालमकल्मषम् ।अभ्यागतक्रियां चक्रे आसनस्वागतादिभिः ॥१६॥ततः कृतासनो राजा प्रणम्य ऋषिपुङ्गवम् ।पप्रच्छ वसुधे प्रश्नमिमं परमदुर्लभम् ॥१७॥भगवन् दुःखसंसारमग्नैः पुम्भिस्तितीर्षुभिः ।यत्कार्यं तन्ममाचक्ष्व प्रणते शंसितव्रत ॥१८॥महातपा उवाच ।संसारार्णवमज्जमानमनुजैः पोतः स्थिरोऽतिध्रुवःकार्यः पूजनदानहोमविविधैर्यज्ञैः समं ध्यायनैः ।कीलैः कीलितमोक्षभिः सुरभटैरूर्ध्वं महारज्जुभिःप्राणाद्यैरधुना कुरुष्व नृपते पोतं त्रिलोकेश्वरम् ॥१९॥नारायणं नरकहरं सुरेशंभक्त्या नमस्कुर्वति यो नृपेश ।स वीतशोकः परमं विशोकंप्राप्नोति विष्णोः पदमव्ययं तत् ॥२०॥नृप उवाच ।भगवन् सर्वधर्मज्ञ कथं विष्णुः सनातनः ।पूज्यते मोक्षमिच्छद्भिः पुरुषैर्वद तत्त्वतः ॥२१॥महातपा उवाच ।श्रृणु राजन् महाप्राज्ञ यथा विष्णुः प्रसीदति ।पुरुषाणां तथा स्त्रीणां सर्वयोगीश्वरो हरिः ॥२२॥सर्वे देवाः सपितरो ब्रह्माद्याश्चाण्डमध्यगाः ।विष्णोः सकाशादुत्पन्ना इतीयं वैदिकी श्रुतिः ॥२३॥अग्निस्तथाश्विनौ गौरी गजवक्त्रभुजंगमाः ।कार्तिकेयस्तथादित्यो मातरो दुर्गया सह ॥२४॥दिशो धनपतिर्विष्णुर्यमो रुद्रः शशी तथा ।पितरश्चेति संभूताः प्राधान्येन जगत्पतेः ॥२५॥हिरण्यगर्भस्य तनौ सर्वं एव समुद्भवाः ।पृथक्पृथक् ततो गर्वं वहमानाः समन्ततः ॥२६॥अहं योग्यस्त्वहं याज्य इति तेषां स्वनो महान् ।श्रूयते देवसमितौ सागरक्षुब्धसन्निभः ॥२७॥तेषां विवदमानानां वह्निरुत्थाय पार्थिव ।उवाच मां यजस्वेति ध्यायध्वं मामिति ब्रुवन् ॥२८॥प्राजापत्यमिदं नूनं शरीरं मद्विनाकृतम् ।विनाशमुपपद्येत यतो नाहं महानहम् ॥२९॥एवमुक्त्वा शरीरं तु त्यक्त्वा वह्निर्विनिर्ययौ ।निर्गतेऽपि ततस्तस्मिंस्तच्छरीरं न शीर्यते ॥३०॥ततोऽश्विनौ मूर्तिमन्तौ प्राणापानौ शरीरगौ ।आवां प्रधानावित्येवमूचतुर्याज्यसत्तमौ ॥३१॥एवमुक्त्वा शरीरं तु विहाय क्वचिदास्थितौ ।तयोरपि क्षयं कृत्वा क्षेत्री तत्पुरमास्थितः ॥३२॥ततो वागब्रबीद् गौरी प्राधान्यं मयि संस्थितम् ।साऽप्येवमुक्त्वा क्षेत्रात् तु निश्चक्राम बहिः शुभा ॥३३॥तया विनापि तत्क्षेत्रं वागूनं व्यवतिष्ठत ।ततो गणपतिर्वाक्यमाकाशाख्योऽब्रवीत् तदा ॥३४॥न मया रहितं किञ्चिच्छरीरं स्थायि दूरतः ।कालान्तरेत्येवमुक्त्वा सोऽपि निष्क्रम्य देहतः ॥३५॥पृथग्भूतस्तथाप्येतच्छरीरं नाप्यनीनशत् ।विनाकाशाख्यतत्त्वेन तथापि न विशीर्यते ॥३६॥सुषिरैस्तु विहीनं तु दृष्ट्वा क्षेत्रं व्यवस्थितम् ।शरीरधातवः सर्वे ते ब्रूयुर्वाक्यमेव हि ॥३७॥अस्माभिर्व्यतिरिक्तस्य न शरीरस्य धारणम् ।भवतीत्येवमुक्त्वा ते जहुः सर्वे शरीरिणः ॥३८॥तैर्व्यपेतमपि क्षेत्रं पुरुषेण प्रपाल्यते ।तं दृष्ट्वा त्वब्रवीत् स्कन्दः सोऽहंकारः प्रकीर्तितः ॥३९॥मया विना शरीरस्य संभूतिरपि नेष्यते ।एवमुक्त्वा शरीरात् तु सोऽभ्यपेतः पृथक् स्थितः ॥४०॥तेनाक्षतेन तत्क्षेत्रं विना मुक्तवदास्थितम् ।तं दृष्ट्वा कुपितो भानुः स आदित्यः प्रकीर्तितः ॥४१॥मया विना कथं क्षेत्रमिमं क्षणमपीष्यते ।एवमुक्त्वा प्रयातः स तच्छरीरं न शीर्यते ॥४२॥ततः कामादिरुत्थाय गणो मातृविसंज्ञितः ।न मया व्यतिरिक्तस्य शरीरस्य व्यवस्थितिः ।एवमुक्त्वा स यातस्तु शरीरं तन्न शीर्यते ॥४३॥ततो मायाऽब्रवीत्कोपात् सा च दुर्गा प्रकीर्तिता ।न मयाऽस्य विना भूतिरित्युक्त्वाऽन्तर्दधे पुनः ॥४४॥ततो दिशः समुत्तस्थुरूचुश्चेदं वचो महत् ।नास्माभी रहितं कार्यं भवतीति न संशयः ।चतस्त्र आगताः काष्ठा अपयाताः क्षणात् तदा ॥४५॥ततो धनपतिर्वायुर्मय्यपेते क्व संभवः ।शरीरस्येति सोप्येवमुक्त्वा मूर्धानगोऽभवत् ॥४६॥ततो विष्णुर्मनो ब्रूयान्नायं देहो मया विना ।क्षणमप्युत्सहेत् स्थातुमित्युक्त्वाऽन्तर्दधे पुनः ॥४७॥ततो धर्मोऽब्रवीत् सर्वमिदं पालितवानहम् ।इदानीमप्युपगते कथमेतद्भविष्यति ॥४८॥एवमुक्त्वा गतो धर्मस्तच्छरीरं न शीर्यते ।ततोब्रवीन्महादेवः अव्यक्तो भूतनायकः ॥४९॥महत्संज्ञो मया हीनं शरीरं नो भवेद् यथा ।एवमुक्त्वा गतः शम्भुस्तच्छरीरं न शीर्यते ॥५०॥तं दृष्ट्वा पितरश्चोचुस्तन्मात्रा यावदस्मभिः ।प्रगतैरेभिरेतच्च शरीरं शीर्यते ध्रुवम् ।एवमुक्त्वा तु ते देहं त्यक्त्वाऽन्तर्द्धानमागताः ॥५१॥अग्निः प्राणो अपानश्च आकाशं सर्वधातवः ।क्षेत्रं तद्वदहंकारो भानुः कामादयो मया ।काष्ठा वायुर्विष्णुर्धर्म शम्भुस्तथेन्द्रियार्थकाः ॥५२॥एतैर्मुक्तं तु तत्क्षेत्रं तत् तथैव व्यवस्थितम् ।सोमेन पाल्यमानं तु पुरुषेणेन्दुरूपिणा ॥५३॥एवं व्यवस्थिते सोमे षोडशात्मन्यथाक्षरे ।प्राग्वत् तत्र गुणोपेतं क्षेत्रमुत्थाय बभ्रम ॥५४॥प्रागवस्थं शरीरं तु दृष्ट्वा सर्वज्ञपालितम् ।ताः क्षेत्रदेवताः सर्वा वैलक्षं भावमाश्रिताः ॥५५॥तमेवं तुष्टुवुः सर्वास्तं देवं परमेश्वरम् ।स्वस्थानमीयिषुः सर्वास्तदा नृपतिसत्तम ॥५६॥त्वमग्निस्त्वं तथा प्राणस्त्वमपानः सरस्वती ।त्वमाकाशं धनाध्यक्षस्त्वं शरीरस्य धातवः ॥५७॥अहंकारो भवान् देव त्वमादित्योऽष्टको गणः ।त्वं माया पृथिवी दुर्गा त्वं दिशस्त्वं मरुत्पतिः ॥५८॥त्वं विष्णुस्त्वं तथा धर्मस्त्वं जिष्णुस्त्वं पराजितः ।अक्षरार्थस्वरूपेण परमेश्वरसंज्ञितः ॥५९॥अस्माभिरपयातैस्तु कथमेतद्भविष्यति ।एवमत्र शरीरं तु त्यक्तमस्माभिरेव च ॥६०॥तत् परं भवता देव तदवस्थं प्रपाल्यते ।स्थानभङ्गो न नः कार्यः स्वयं सृष्ट्वा प्रजापते ॥६१॥एवं स्तुतस्ततो देवस्तेषां तोषं परं ययौ ।उवाच चैतान् क्रीडार्थं भवन्तोत्पादिता मया ॥६२॥कृतकृत्यस्य मे किं नु भवद्भिर्विप्रयोजनम् ।तथापि दद्मि वो रूपे द्वे द्वे प्रत्येकशोऽधुना ॥६३॥भूतकार्येष्वमूर्तेन देवलोके तु मूर्तिना ।तिष्ठध्वमपि कालान्ते लयं त्वाविशत द्रुतम् ॥६४॥शरीराणि पुनर्नैवं कर्त्तव्योऽहमिति क्वचित् ।मूर्त्तीनां च तथा तुभ्यं दद्मि नामानि वोऽधुना ॥६५॥अग्नेर्वैश्वानरो नाम प्राणापानौ तथाश्विनौ ।भविष्यति तथा गौरी हिमशैलसुता तथा ॥६६॥पृथिव्यादिगणस्त्वेष गजवक्त्रो भविष्यति ।शरीरधातवश्चेमे नानाभूतानि एव तु ।अहंकारस्तथा स्कन्दः कार्त्तिकेयो भविष्यति ॥६७॥भानुश्चादित्यरूपोऽसौ मूर्त्तामूर्त्त च चक्षुषी ।कामाद्योऽयं गणो भूयो मातृरूपो भविष्यति ॥६८॥शरीरमाया दुर्गैषा कारणान्ते भविष्यति ।दश कन्या भविष्यन्ति काष्ठास्त्वेतास्तु वारुणाः ॥६९॥अयं वायुर्धनेशस्तु कारणान्ते भविष्यति ।अयं मनो विष्णुनामा भविष्यति न संशयः ॥७०॥धर्मोऽपि यमनामा च भविष्यति न संशयः ।महत्तत्त्वं च भगवान् महादेवो भविष्यति ॥७१॥इन्द्रियार्थाश्च पितरो भविष्यन्ति न संशयः ।अयं सोमः स्वयं भूत्वा यामित्रं सर्वदामराः ॥७२॥एवं वेदान्तपुरुषः प्रोक्तो नारायणात्मकः ।स्वस्थाने देवताः सर्वा देवस्तु विरराम ह ॥७३॥एवं प्रभावो देवोऽसौ वेदवेद्यो जनार्दनः ।कथितो नृपते तुभ्यं किमन्यच्छ्रोतुमिच्छसि ॥७४॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे सप्तदशोऽध्यायः ॥१७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP