संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|वराहपुराणम्| अध्यायः ६ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ६ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ६ Translation - भाषांतर धरण्युवाच ।स वसुः संशयच्छेदं प्राप्य रैभ्यश्च सत्तमः ।उभौ किं चक्रतुर्देव श्रुत्वा चाङ्गिरसं वचः ॥१॥श्रीवराह उवाच ।स वसुः सर्वधर्मज्ञः स्वराज्यं प्रतिपालयन् ।अयजद् बहुभिर्यज्ञैर्महद्भिर्भूरिदक्षिणैः ॥२॥कर्मकाण्डेन देवेशं हरिं नारायणं प्रभुम् ।तोषयामास राजेन्द्रस्तमभेदेन चिन्तयन् ॥३॥ततः कालेन महता तस्य राज्ञो मतिः किल ।निवृत्तराज्यभोगस्य द्न्द्वस्यान्तमुपेयुषी ॥४॥ततः पुत्रं विवस्वन्तं श्रेष्ठं भ्रातृशतस्य ह ।अभिषिच्य स्वके राज्ये तपोवनमुपागमत् ॥५॥पुष्करं नाम तीर्थानां प्रवरं यत्र केशवः ।पुण्डरीकाक्षनामा तु पूज्यते तत्परायणैः ॥६॥तत्र गत्वा स राजर्षिः काश्मीराधिपतिर्वसुः ।अतितीव्रेण तपसा स्वशरीरमशोषयत् ॥७॥पुण्डरीकाक्षपारं तु स्तवं भक्त्या जपन् बुधः ।आरिराधयिषुर्देवं नारायणमकल्मषम् ।स्तोत्रान्ते तल्लयं प्राप्तः स राजा राजसत्तमः ॥८॥धरण्युवाच ।पुण्डरीकाक्षपारं तु स्तोत्रं देव कथं स्मृतम् ।कीदृशं तन्ममाचक्ष्व परमेश्वर तत्त्वतः ॥९॥श्रीवराह उवाच ।नमस्ते पुण्डरीकाक्ष नमस्ते मधुसूदन ।नमस्ते सर्वलोकेश नमस्ते तिग्मचक्रिणे ॥१०॥विश्वमूर्तिं महाबाहुं वरदं सर्वतेजसम् ।नमामि पुण्डरीकाक्षं विद्याऽविद्यात्मकं विभुम् ॥११॥आदिदेवं महादेवं वेदवेदाङ्गपारगम् ।गम्भीरं सर्वदेवानां नमामि मधुसूदनम् ॥१२॥विश्वमूर्तिं महामूर्तिं विद्यामूर्तिं त्रिमूर्तिकम् ।कवचं सर्वदेवानां नमस्ये वारिजेक्षणम् ॥१३॥सहस्त्रशीर्षिणं देवं सहस्त्राक्षं महाभुजम् ।जगत्संव्याप्य तिष्ठन्तं नमस्ये परमेश्वरम् ॥१४॥शरण्यं शरणं देवं विष्णुं जिष्णुं सनातनम् ।नीलमेघप्रतीकाशं नमस्ये चक्रपाणिनम् ॥१५॥शुद्धं सर्वगतं नित्यं व्योमरूपं सनातनम् ।भावाभावविनिर्मुक्तं मस्ये सर्वगं हरिम् ॥१६॥नान्यत् किंचित् प्रपश्यामि व्यतिरिक्तं त्वयाऽच्युत ।त्वन्मयं च प्रपश्यामि सर्वमेतच्चराचरम् ॥१७॥एवं तु वदतस्तस्य मूर्त्तिमान् पुरुषः किल ।निर्गत्य देहान्नीलाभो घनचण्डो भयंकरः ॥१८॥रक्ताक्षो ह्रस्वकायस्तु दग्धस्थूणासमप्रभः ।उवाच प्राञ्जलिर्भूत्वा किं करोमि नराधिप ॥१९॥राजोवाच ।कोऽसि किं कार्यमिह ते कस्मादागतवानसि ।एतन्मे कथय व्याध एतदिच्छामि वेदितुम् ॥२०॥व्याध उवाच ।पूर्वं कलियुगे राजन् राजा त्वं दक्षिणापथे ।पूर्णधर्मोद्भवः श्रीमाञ्जनस्थाने विचक्षणः ॥२१॥स कदाचिद् भवान् वीर तुरगैः परिवारितः ।अरण्यमागतो हन्तुं श्वापदानि विशेषतः ॥२२॥तत्र त्वयाऽन्यकामेन मृगवेषधरो मुनिः ।दण्डयुग्मेन दूरे तु पातितो धरणीतले ॥२३॥सद्यो मृतश्च विप्रेन्द्रस्त्वं च राजन् मुदा युतः ।हरिणोऽयं हत इति यावत् पश्यसि पार्थिव ।तावन्मृगवपुर्विप्रो मृतः प्रस्त्रवणे गिरौ ॥२४॥तं दृष्ट्वा त्वं महाराज क्षुभितेन्द्रियमानसः ।गृहं गतस्ततोऽन्यस्य कस्यचित् कथितं त्वया ॥२५॥ततः कतिपयाहस्य त्वया रात्रौ नरेश्वर ।ब्रह्महत्याभयाद्भीतचितेनैतद् विचिन्तितम् ।कृत्यं करोमि शान्त्यर्थं मुच्यते येन पातकात् ॥२६॥ततस्त्वया महाराज सकृन्नारायणं प्रभुम् ।संचिन्त्य द्वादशी शुद्धा त्वया राजन्नुपोषिता ॥२७॥नारायणो मे सुप्रीत इति प्रोक्त्वा शुभेऽहनि ।गौर्दत्ता विधिना सद्यो मृतोऽस्युदरशूलतः ॥२८॥अभुक्तो द्वादशीधर्मे यत् तत्रापि च कारणम् ।कथयामि भवत्पत्नी नाम्ना नारायणी शुभा ॥२९॥सा कण्ठगेन प्राणेन व्याहृता तेन ते गतिः ।कल्पमेकं महाराज जाता विष्णुपुरे तव ॥३०॥अहं च तव देहस्थः सर्वं जानामि चाक्षयम् ।ब्रह्मग्रहो महाघोरः पीडयामीति मे मतिः ॥३१॥तावद्विष्णोस्तु पुरुषैः किङ्करैर्मुसलैरहम् ।प्रहतः संक्षयं यातस्ततस्ते रोमकूपतः ।स्वर्गस्थस्यापि राजेन्द्र स्थितोऽहं स्वेन तेजसा ॥३२॥ततोऽहःकल्पनिर्वृत्ते रात्रिकल्पे च सत्तम ।इदानीमादिसृष्टौ तु कृते नृपतिसत्तम ॥३३॥संभूतस्त्वं महाराज राज्ञः सुमनसो गृहे ।काश्मीरदेशाधिपतेरहं चाङ्गरुहैस्तव ॥३४॥यज्ञैरिष्टं त्वयानेकैर्बहुभिश्चाप्तदक्षिणैः ।न चाहं तैरपहतो विष्णुस्मरणवर्जितैः ॥३५॥इदानीं यत् त्वया स्तोत्रं पुण्डरीकाक्षपारकम् ।पठितं तत्प्रभावेन विहायाङ्गरुहाण्यहम् ।एकीभूतः पुनर्जातो व्याधरूपो नृपोत्तम ॥३६॥अहं भगवतः स्तोत्रं श्रुत्वा प्राक्पापमूर्त्तिना ।मुक्तोऽस्मि धर्मबुद्धिर्मे वर्त्तते साम्प्रतं विभो ॥३७॥एतच्छ्रुत्वा वचो राजा परं विस्मयमागतः ।वरेण छन्दयामास तं व्याधं राजसत्तमः ॥३८॥राजोवाच ।स्मारितोऽस्मि यथा व्याध त्वया जन्मान्तरं गतम् ।तथा त्वं मत्प्रसादेन धर्मव्याधो भविष्यसि ॥३९॥यश्चैतत् पुण्डरीकाक्षपारगं श्रृणुयात् परम् ।तस्य पुष्करयात्रायां विधिस्नानफलं भवेत् ॥४०॥श्रीवराह उवाच ।एवमुक्त्वा ततो राजा विमानवरमास्थितः ।परेण तेजसा योगमवापाशेषधारिणि ॥४१॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षष्ठोऽध्यायः ॥६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP