संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्|
अध्यायः १८

वराहपुराणम् - अध्यायः १८

'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे.


प्रजापाल उवाच ।
कथमग्नेः समुत्पत्तिरश्विनोर्वा महामुने ।
गौर्या गणपतेर्वाऽपि नागानां वा गुहस्य च ॥१॥
आदित्यचन्द्रमातॄणां दुर्गाया वा दिशां तथा ।
धनदस्य च विष्णोर्वा धर्मस्य परमेष्ठिनः ॥२॥
शम्भोर्वापि पितॄणां च तथा चन्द्रमसो मुने ।
शरीरदेवता ह्येताः कथं मूर्त्तित्वमागताः ॥३॥
किं च तासां मुने भोज्यं का वा संज्ञा तिथिश्च का ।
यस्यां यष्टास्त्वमी पुंसां फलं यच्छन्त्यनामयम् ।
एतन्मे सरहस्यं तु मुने त्वं वक्तुमर्हसि ॥४॥
महातपा उवाच ।
योगसाध्यः स्वरूपेण आत्मा नारायणात्मकः ।
सर्वज्ञः क्रीडतस्तस्य भोगेच्छा चात्मनात्मनि ।
क्षोभितेऽभून्महाभूते एतच्छब्दं तदद्भुतम् ॥५॥
तमप्यप्रीतिमत्तोयं विकारं समरोचयत् ।
विकुर्वतस्तस्य तदा महानग्निः समुत्थितः ।
कोटिज्वालापरीवारः शब्दवान् दहनात्मकः ॥६॥
असावप्यतितेजस्वी विकारं समरोचयत् ।
विकुर्वतो बभौ वह्नेर्वायुः परमदारुणः ।
तस्मादपि विकारस्थादाकाशं समपद्यत ॥७॥
तच्छब्दलक्षणं व्योम स च वायुः प्रतापवान् ।
तच्च तेजोऽम्भसा युक्तं श्लिष्टमन्योन्यतस्तदा ॥८॥
तेजसा शोषितं तोयं वायुना उग्रगामिना ।
बाधितेन तथा व्योम्ना मार्गे दत्ते तु तत्क्षणात् ॥९॥
पिण्डीभूतं तथा सर्वं काठिन्यं समपद्यत ।
सेयं पृथ्वी महाभाग तेषां वृद्धतराऽभवत् ॥१०॥
चतुर्णां योगकाठिन्यादेकैकगुणवृद्धितः ।
पृथ्वी पञ्चगुणा ज्ञेया तेऽप्येतस्यां व्यवस्थिताः ॥११॥
स च काठिन्यकं कुर्वन् ब्रह्माण्डं समपद्यत ।
तस्मिन् नारायणो देवश्चतुर्मूर्तिश्चतुर्भुजः ॥१२॥
प्राजापत्येन रूपेण सिसृक्षुर्विविधाः प्रजाः ।
चिन्तयन् नाधिगच्छेत सृष्टिं लोकपितामहः ॥१३॥
ततोऽस्य सुमहान् कोपो जज्ञे परमदारुणः ।
तस्मात् कोपात् सहस्त्रार्चिरुत्तस्थौ दहनात्मकः ॥१४॥
स तं दिधक्षुर्ब्रह्माणं ब्रह्मणोक्तस्तदा नृप ।
हव्यं कव्यं वहस्वेति ततोऽसौ हव्यवाहनः ॥१५॥
ब्रह्माणं क्षुधितः प्रायात् किं करोमि प्रसाधि माम् ।
स ब्रह्मा प्रत्युवाचाथ त्रिधा तृप्तिमवाप्स्यसि ॥१६॥
दत्तासु दक्षिणास्वादौ तृप्तिर्भूत्वा यतोऽमरान् ।
नयसे दक्षिणाभागं दक्षिणाग्निस्ततोऽभवत् ॥१७॥
आ समन्ताद्धुतं किंचिद् यत् त्रिलोके विभावसो ।
तद् वहस्व सुरार्थाय ततस्त्वं हव्यवाहनः ॥१८॥
गृहं शरीरमित्युक्तं तत्पतिस्त्वं यतोऽधुना ।
अतो वै गार्हपत्यस्त्वं भव सर्वगतो विभो ॥१९॥
विश्वान् नरान् हुतो येन नयसे सद्गतिं प्रभो ।
अतो वैश्वानरो नाम तव वाक्यं भविष्यति ॥२०॥
द्रविणं बलमित्युक्तं धनं च द्रविणं यतः ।
ददाति तद् भवानेव द्रविणोदास्ततोऽभवत् ॥२१॥
तनुं पास्यतनुं पासि येन त्वं सर्वदा विभो ।
ततस्तनूनपान्नाम तव वत्स भविष्यति ॥२२॥
भवान् जातानि वै वेद अजातानि च येन वै ।
अतस्ते नाम भवतु जातवेदा इति प्रभो ॥२३॥
नाराः सामान्यतः पुंसो विशेषेण द्विजातयः ।
ते शंसन्ति यतस्त्वां तु नाराशंसस्ततो भव ॥२४॥
अगस् तिरोभवेन्नित्यं निःशब्दो निश्चयात्मकः ।
अगस्त्वं सर्वगत्वाच्च तेनाग्निस्त्वं भविष्यसि ॥२५॥
ध्मा प्रपूरणशब्दो य इध्मा नाम प्रकीर्त्यते ।
पूरितस्यागतिर्येन तेनेध्मस्त्वं भविष्यसि ॥२६॥
याज्यान्येतानि नामानि तव पुत्र महामखे ।
यजन्तस्त्वां नराः कामैस्तर्पयिष्यन्त्यसंशयम् ॥२७॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे अष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP