संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथ वामनजयन्ती

धर्मसिंधु - अथ वामनजयन्ती

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथ वामनजयन्ती भाद्रशुक्लाद्वादश्यांश्रवणयुतायांमध्याह्नेवामनोत्पत्तिः

अतोमध्याह्नव्यापिनीद्वादशीमध्याह्नेततोन्यत्रकालेवाश्रवणयुताग्राह्या उभयदिने श्रवणयोगेपूर्वैव

सर्वथाद्वादश्याःश्रवणयोगाभावेएकादश्यामेवश्रवणसत्त्वेमध्याह्नव्यापिनीमपिद्वादशींविहायैकादश्यामेवव्रतंकार्यम्

शुद्धैकादश्यांश्रवणाभावेदशमीविद्धैकादश्यामपिश्रवणयुतायांव्रतम्

पूर्वदिनएवमध्याह्नव्यापिनीद्वादशीपरदिनेमध्याह्नादन्यत्रकालेश्रवणयुतातदापूर्वैव तिथिद्वयेपि

श्रवणयोगाभावेद्वादश्यामेवमध्याह्नव्यापिन्यांव्रतम् दिनद्वयेमध्याह्नव्याप्तौतदव्याप्तौचैकादशीयुक्तैवग्राह्या

पारणातुपूर्वोक्तरीत्योभयान्तेऽन्यतरान्तेवाकार्यां अत्रमध्याह्नेनदीसंगमेस्नात्वासौवर्णवामनंसंपूज्यार्घ्यंसौवर्णपात्रेणदद्यात्

तत्र पूजामन्त्रः देवेश्वरायदेवायदेवसंभूतिकारिणे । प्रभवेसर्वदेवानांवामनायनमो नमः१ अथार्घ्यमन्त्रः

नमस्तेपद्मनाभाभनमस्तेजलशायिने । तुभ्यमर्घ्यं प्रयच्छामिबालवामनरूपिणे १ नमःशार्ङ्गधनुर्बाणपाणयेवामनायच ।

यज्ञभुकफलदात्रे चवामनायनमोनमः २ ततः परदिनेसपरिवारंवामनंद्विजायदद्यात् वामनः प्रतिगृह्णातिवामनोहंददामिते ।

वामनंसर्वतोभद्रंद्विजायप्रतिपादये १ इतिदानमन्त्रः अस्यामेवद्वादश्यांरात्रौदेवपूजां कृत्वा

तत्रासंभवेदिवैववादधिव्रतंनिवेद्यदधिदानंकृत्वादुग्धव्रतसंकल्पंकुर्यात् अत्रपयोव्रतेपयोविकारस्यपायसादेदुग्धपाचितान्नस्यचवर्जनम्

दध्यादेःपयोविकारस्यापिनिवर्जनम् एवंदधिव्रते तक्रादेर्नवर्जनम्

यत्रप्रसूतायागोर्दशदिनेषुसंधिन्यादेश्चक्षीरनिषेधस्तत्रखीरविकारस्यदधितक्रादेः सर्वस्यैववर्जनम् ।

N/A

References : N/A
Last Updated : April 30, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP