संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
रोहिणीयोगः

धर्मसिंधु - रोहिणीयोगः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

अथरोहिणीयोगेयदिशुद्धसमायांशुद्धन्यूनायांवाईषदपिरोहिणीयोगस्तदानसंदेहः शुधाधिकायांपूर्वदिनेदिनद्वयेपिवारोहिणीयोगेपूर्वैव

शुद्धाधिकायामुत्तरदिनेएवरोहिणीयोगेमुहूर्तमात्राप्युत्तरैव विद्धाधिकार्यांपूर्वदिनएवनिशीथात्पूर्वनिशीथेवारोहिणीयोगेपूर्वा

दिनद्वयेपिपरत्रैववानिशीथेनिशीथंविहाय वारोहिणीयोगेपरैवेतिसंक्षेपेणनिर्णयसंग्रहः

एवंकौस्तुभादिनवीनग्रन्थानुसृतमाधवमतानुसारेणजन्माष्टमीनिर्णीता

अत्रकेचित्केवलाष्टमीजन्माष्टमीसैवरोहिणीयुताजयन्तीसंज्ञकेतिजयन्त्यष्टम्योर्व्रतैक्यमाहुः

अन्येतुजन्माष्टमीव्रतंजयन्तीव्रतंचभिन्नंरोहिणीयोगाभावेजयन्तीव्रतलोपाज्जन्माष्टमीव्रतमेवकार्यम्

यस्मिन्वर्षेजयन्त्याख्ययोगोजन्माष्टमीतदा अन्तर्भूताजयन्त्यांस्यादिति जयन्ती

दिनेनिशीथाक्यकर्मकालेऽष्टम्याद्यभावेपिसाकल्यवचनापादितकर्मकालव्याप्तिमादायव्रतद्वयमपिजयन्तीदिनएवतन्त्रेणानुष्ठेयम्

व्रतद्वयस्याप्यकरणेमहादोषश्रवणेनफलश्रवणेनचनित्यकाम्योभयरूपत्वात्

नतुनिशीथव्याप्तांयापूर्वाष्टम्यांजन्माष्टमीव्रतंकृत्वाजयन्तीदिनेपारणमनुष्ठेयम्

नित्यव्रतलोपेप्रत्यवायापातादित्याहुःनिर्णयसिन्धौतुउक्तरीत्यामाधवमतमुपपाद्यहेमाद्रिमतेनजन्माष्टमी व्रतमेवनित्यं जयन्तीव्रतंतु

नित्यमपिकलियुगेलुप्तमिति केचिन्नानुतिश्ठन्तिइत्युक्त्वास्वमतेनयस्मिन्वर्षेपूर्वदिनेएवनिशीथेऽष्टमीपरदिने

एवनिशीथादन्यत्रजयन्त्याख्ययोगस्तत्रोपोषणद्वयंकार्यम्

व्रतद्वयस्यापिनित्यत्वेनाकरणेदोषात् जयन्त्यामष्टम्यन्तर्भावोक्तिस्तुमूर्खप्रतारणामात्रमितिप्रतिपादितम्

ममतुकौस्तुभादिनवीनपरिगृहीतमाधवमतरीत्याजयन्त्यनर्भावेनाष्टमीव्रतानुष्ठानमेवयुक्तंप्रतिभाति

अत्रव्रतेबुधसोमवारयोगःप्राशस्त्यविधायकोनतुरोहिणीवन्निणार्यकः

अथद्वितीयादिनेभोजनरूपंपारणंव्रताङ्गंविहितंतत्कालोनिर्णीयते

केवलतिथ्युपवासेतिथ्यन्तेनक्षत्रयुक्ततिथ्युपवासेउभयान्तेपारणंकार्यम्

यदितिथिनक्षत्रयोरेकतरान्तोदिनेलभ्यतेउभयान्तस्तुरात्रौतदादिवैवान्यतरान्तेपारणम्

यदा दिवानैकस्याप्यन्तस्तदानिशीथादर्वागन्यतरान्तेउभयान्तेवापारणम्

यदातुनिशीथाव्यवहितपूर्वक्षणे एकतरान्तउभयान्तोवातदानिशीथेपिपारणंकार्यम्

भोजनासंभवेपारणासंपत्त्यर्थंफलाद्याहारोविधेयः केचितूक्तविषयेनिशीथे पारणं

नकार्यंकिंतूपवासात्तृतीयेह्निदिवाकार्यमित्याहुस्तन्नुयुक्तम् अशक्तस्तुएकतरान्ताभावेपि

उत्सवान्तेप्रातरेवदेवपूजाविसर्जनादिकृत्वापारणंकुर्यात् ।

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP