संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथपारणानिर्णयः

धर्मसिंधु - अथपारणानिर्णयः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


यामत्रयादर्वाक्चतुर्दशीसमाप्तौचतुर्दशन्तेपारणाम् यामत्रयोर्ध्वगामिन्यांचतुर्दश्यांप्रातश्चतुर्दशीमध्येएवपारणमितिमाधवादयः

निर्णयसिन्धौतुयामत्रयादर्वाकचतुर्दशीसमाप्ताविचतुर्दशीमध्येएवपारेणंनतुकदाचिदपिचतुर्दश्यन्ते

उपोषणंचतुर्दश्यांचतुर्दश्यांचपारणम् कृतैःसुकृतलक्षैस्तुलभ्यतेयदिवानवा १ सिक्थेसिक्थेफलंतस्यशक्तोवक्तुंनपार्वति ।

इत्यादि नाचतुर्दशीमध्येपारणेपुण्यातिशयोक्तेरित्युक्तम् अत्रैवंव्यवस्थाबोध्या

यदानित्यकृत्यपूर्वकपारणपर्याप्ताचतुर्दशीनास्तितदावायेषांचतुर्दशीशेषदिनेदर्शादि

श्राद्धप्रसक्तिस्तैर्वातिथ्यन्तेपारणम् द्वादश्यामिवात्रनित्यकृत्यापकर्षकवाक्याभावात्

तिथ्यन्तपारणविधायकवाक्यसेत्वनंसकटविषयकज्जलपारणविधिवाक्यानामत्राप्रवृत्तेश्च

कर्मपर्याप्तचतुर्दशीसत्वेश्राद्धप्रसक्त्यभावेचतिथिमध्यएवपारणमिति ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP