संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथसंक्षेपणव्रतविधिः

धर्मसिंधु - अथसंक्षेपणव्रतविधिः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

प्रातःकृतनित्यक्रियः प्राङ्‌मुखोदेशादिसंकीर्त्यतत्तत्कालेसप्तम्यादिसत्वेपिप्रधानभूतामष्टमीमेवसंकीर्त्य

श्रीकृष्णप्रीत्यर्थजन्माष्टमी व्रतंकरिष्ये जयन्तीयोगसत्वेजन्माष्टमीव्रतंजयन्तीव्रतंचतत्रेणकरिष्येइतिसंकल्पयेत्

ताम्रपात्रेजलंगृहीत्वा वासुदेवंसमुद्दिश्यसर्वपापप्रशांतये । उपवासं करिष्यामिकृष्णाष्ट्यम्यांनभस्यहम् १

अशक्तौ फलानिभक्षयिष्यामीत्याद्यूहः आजन्ममरणंयावद्यन्मयादुष्कृतंकृतम् । तत्प्रणाशय गोविन्दप्रसीदपुरुषोत्तम १

इतिपात्रस्थंजलंक्षिपेत् ततःसुवर्णरजतादिमय्योमृन्मय्योवाभित्तिलिखितावा प्रतिमायथाकुलाचारंकार्याः

तायथा पर्यङ्केप्रसुप्तदेवक्याःस्तनंपिबन्तीश्रीकृष्णप्रतिमांनिधायजयन्तीसत्वेत्वन्यदेवक्याउत्सङ्गे

द्वितीयांश्रीकृष्णमूर्तिनिधायपर्वङ्कस्थदेवकीचरणसंवाहनपरांलक्ष्मीनिधायभित्त्यादौखङ्गधरं

वसुदेवंनन्दगोपीगोपान्लिखित्वाप्रदेशान्तरेमञ्चकेप्रसूतकन्ययासहयशोदाप्रतिमांपीठान्तरे

वसुदेवदेवकीनन्दयशोदाश्रीकृष्णरामचण्डिकाइतिसप्तप्रतिमाःस्थापयेत् एतावत्प्रतिमाकरणाशक्तौवसुदेवादिचण्डिकान्ताःसप्तवा

यथाचारंयथाशक्तिवाकृत्वा अन्याःसर्वायथायथं ध्यायेदितिभाति

निशीथासन्नप्राक्कालेस्नात्वाश्रीकृष्णप्रीत्यर्थंसपरिवारश्रीकृष्णपूजांकरिष्य

इतिसंकल्प्यन्यासानशङ्खादिपूजान्तंनित्यवत्कृत्वापर्यङ्कस्थांकिन्नराद्यैर्युतांध्यायेत्तुदेवकीम् ।

श्रीकृष्णंबालकंध्यायेत्पर्यङ्केस्तनपायिनम् १ श्रीवत्सवक्षसंशान्तंनीलोप्तलदलच्छविम् ।

संवाहयन्ती देवक्याः पादौध्यायैच्चतांश्रियम् २ एवंध्यात्वादेवक्यैनमः

इति देवकीमावाह्यमूलमन्त्रेणपुरुषसूक्तऋचावाश्रीकृष्णायनमः श्रीकृष्णमावाहयामिति

आवाह्यलक्ष्मींचावाह्यदेवक्यैवसुदेवाययशोदायैनन्दायकृष्णायरामायचण्डिकायैइतिनाम्नावाह्यलिखितादिदेवताः

सकलपरिवारदेवताभ्योनमैत्यावाह्यमूलमन्त्रेणसूतऋचावा अत्रावाहितदेवक्यादिपरिवारदेवतासहितश्रीकृष्णायनम

इत्यासनपाद्यार्घ्याचमनीयाभ्यङ्गस्नाननिदत्त्वापञ्चामृतस्नानान्तेचन्दनेनानुलेपयेत्

शुद्धोदकाभिषेकान्तेवस्त्रयज्ञोपवीतगन्धपुष्पाणिधूपदीपौच विश्वेश्वरायविश्वायतथाविश्वोद्भवायच ।

विश्वस्यपतयेतुभ्यंगोविन्दायनमोनमः १ यज्ञेश्वराय देवायतथायज्ञोद्भवायच ॥

यज्ञानांपतयेनाथगोविन्दायनमोनमः १ यज्ञेश्वराय देवायतथायज्ञोद्भवायच ॥

यज्ञानांपतयेनाथगोविन्दायनमोनमः २ इति मन्त्राभ्यांमूलमन्त्रादिसमुच्चिताभ्यांदद्यात्

जगन्नाथनमस्तुभ्यंसंसारभूयनाशन जगदीश्वरायदेवायभूतानांपतयेनमः १

इतिनैवेद्यं मूलमन्त्रादिकंसर्वत्रयोज्यम् ताम्बूलादिनमस्कारप्रदक्षिणापुष्पात्रल्यन्त्कार्यम्

अथवोद्यापनप्रकरणोक्तविधिनापूजा सायथा उक्तप्रकारेणव्यानावाहनेकृत्त्वा देवाब्रत्त्यादयोयेन स्वरूपंनविदुस्तव ।

अतस्त्वांपूजयिष्यामिमातुरुत्सङ्गवासिनम् १ पुरुषएवेदमासनम् । अवतारसहस्त्राणिकरोषिमधुसूदन ।

नतेसंख्यावताराणांकश्चिज्जानातितत्त्वतः २ एतावानस्येतिपाद्यम् । जातःकंसवधार्थायभूभारोत्तारणायच ।

देवानांचहितार्थायधर्मसंस्थापनायच । कारैवाणांविनाशायपाण्डवानां हितायच ।

गृहाणार्घ्यंमयादत्तंदेवक्यासहितोहरे ३ त्रिपादू० अर्घ्यम् । सुरासुरनरेशायक्शीराब्धिशयनायच ।

कृष्णायवासुदेवायददाम्याचमनंशुभम् ४ तस्मा० आचमनीयम् । नारायननमस्तेस्तुनरकार्णवतारक ।

गङ्गोदकंसमानीतंस्नानार्थप्रतिगृह्यताम् ५ यत्पुरुषे० स्नानम् । पयोदधिघृतक्षौद्रशर्करास्नानमुत्तमम् ।

तृप्त्यर्थंदेवदेवेशगृह्यतांदेवकीसुत ६ इतिपञ्चामृत । शुद्धोदकस्नानमाचमनम् । क्षौमंचपट्टसूत्राढ्यंमयानीतांशुकंशुभम् ।

गृह्यतां देवदेवेशमयादत्तंसुरोत्तम ७ तंयज्ञं०वस्त्रम् । नमः कृष्णायदेवायशङ्खचक्रधरायच ।

ब्रह्मसूत्रंजगन्नाथगृहाणपरमेश्वर ८ तस्माद्यज्ञा० यज्ञोपवीतम् । नानागन्धसमायुक्तं चन्दनंचारुचर्चितम् ।

कुङ्कुमाक्ताक्षयैर्युक्तंगृह्यतांपरमेश्वर९ तस्माद्यज्ञा० गन्धम् । पुष्पाणियानिदिव्यानिपारिजातोद्भवानिच ।

मालतीकेसरादीनिपूजार्थप्रतिगृह्यताम् १० तस्माद० पुष्पाणि । अथाङ्गपूजा श्रीकृष्णायनमः पादौपूजयामि संकर्षणायनमः गुल्फौ० ।

कालात्मनेन० नानुनीपू० । विश्वकर्मनेन० जङ्घेपू० । विश्वनेत्रायन० कटीपू० । विश्वकर्त्रेन०मेढ्रपू । पद्मनाभायनमः नाभिंपू० ॥

परमात्मनेन० ह्रदयंपू० । श्रीकण्ठायन० कण्ठंपू । सर्वास्त्रधारिणेन० शिरःपू० । विश्वरूपिणेनारायणायनमः सर्वाङ्गपूजयामि ।

वनस्पतिरसो० ११ यत्पुरुषं० धूपं० । त्वंज्योतिःसर्वदेवानांतेजस्त्वंतेजसांपरम् । आत्मज्योतिर्नमस्तुभ्यंदीपोयंप्रतिगृह्यताम् १२

ब्राह्मणो० दीपं० ।

नानागन्धसमायुक्तंभक्ष्यभोज्यंचतुर्विधम् । नैवेद्यार्थमयादत्तंगृहाणप्रमेश्वर १३ चंद्रमामनसो० नैवेद्यं० । आचमनंकरोद्वर्तर्नं० ।

ताम्बूलंचकर्पूरंपूगीफलसमन्वितम् । मुखवासकरंरम्यंप्रीतिदंप्रतिगृह्यताम् १४ सौवर्णंराजतंताम्रंनानारत्नसमन्वितम् ।

कर्मसाद्गुण्यसिद्ध्यर्थं दक्षिणांप्रतिगृह्यताम् १५ रम्भाफलंनारिकेलंतथैवाम्रफलानिच ।

पूजितोसिसुरश्रेष्ठ्यगृह्यतांकंससूदन १६ नाभ्याआ० नीराजनं० ।

यानिका० १७ सप्तास्या० प्रदक्षिणाम् यज्ञेनेत्यादिवेदमन्त्रैःपुष्पाञलि नमस्कारान् १८ अपराधस० पूजांनिवेदयेत् ।

सर्वोपचारपूजनसमाप्तौद्वादशाङ्गुलविस्तारंरौप्यमयंस्थण्डिलादिलिखितंवारोहिणीयुतंचन्द्रं सोमेश्वरायसोमायतथासोमोद्भवायच ।

सोमस्यपतयेनित्यंतुभ्यसोमायवैनमः १ इतिसंपूज्यसपुष्पकुशचन्दनंतोयंशंङ्खेनादायक्षीरोदार्णवसंभूतअत्रिगोत्रसमुद्भव ।

गृहाणार्घ्यंशशांकेरोहिणिसहितोमम १ ज्योत्सनापतेनमस्तुभ्यंज्योतिषांपतयेनमः ।

नमस्तेरोहिणीकान्त अर्घ्यनः प्रतिगृह्यताम् ५ इतिमन्त्राभ्यांचन्द्रायार्घ्यंदद्यात् ततःश्रीकृष्णायार्घ्यंदद्यात् तत्र मन्त्रः जातः

कंसवधार्थायभूभारोत्तारणायच ।

पाण्डवानांहितार्थायधर्मसंस्थापनायच १ कौरवाणांविनाशायदैत्यानांनिधनायच ।

गृहाणार्घ्यंमयादत्तंदेवक्यासहितोहरे २ इति ततःप्रार्थयेत् त्राहिमांसर्वलोकेशहरेसंसारसागरात् ।

त्राहिमांसर्वपापघ्नदुःखशोकार्णवात्प्रभो १ सर्वलोकेश्वरत्राइपतितंमांभवार्णवे ।

त्राहिमासर्वदुःखघ्नरोगशोकार्णवाद्धरे २ दुर्गतांस्त्रायसेविष्णोयेस्मरन्तसकृत्सकृत् ।

त्राहिमांदेवदेवशत्वत्तोनान्योस्तिरक्षिता ३ यद्वाक्कचनकौमारेयौवने यच्चवार्धके ।

तत्पुण्यंवृद्धिमायातुपाप्म्दहहलायुध ४ इति ।

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP