संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अस्यांचातुर्मास्यव्रतसमाप्तिः

धर्मसिंधु - अस्यांचातुर्मास्यव्रतसमाप्तिः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अस्यांचातुर्मास्यव्रतसमाप्तिः तत्रचातुर्मास्यव्रतानांसमाप्तौदानानि नक्तव्रतेवस्त्रयुग्मम् एकान्तरोपवासेगौःभूशयनेशय्या

षष्ठकालभोजनेगौःव्रीहिगोधूमादिधान्यत्यागेसौवर्णव्रीहिगोधूमादिदानम् कृच्छ्रव्रतेगोयुग्मम्

शाकाहारेगौःपयोमात्रभक्षणेपयोवर्जनेचगौः मधुदधिघृतवर्जनेवस्त्रंगौश्च ब्रह्मचर्येस्वर्णम् ताम्बूलवर्जनेवस्त्रयुग्मम्

मौनेघण्टाघृतकुम्भोवस्त्रद्वयंच रङ्गवल्लीकरणेगौःसुवर्णपद्मंच दीपदानव्रतेदीपिकावस्त्रद्वयंच भूमिभोजनेकांस्यपात्रंगौश्च

गोग्रासेगोवृषौ प्रदक्षिणाशतेवस्त्रम् अभ्यङ्गवर्जनेतैलपूर्णघटः नखकेशधारणेमधुसर्पिर्हेमदानम् यत्रविशेषतोदानंनोक्तंतत्रस्वर्णगौश्च

गुडवर्जनेगुडपूर्णससुवर्णंताम्रपात्रम् एवं लवणवर्जनेलवणपुर्णताम्रपात्रमितिक्वचित्

अस्यामेवलक्षप्रदक्षिनालक्षनमस्काराणामाषाढ्यादावारब्धानामुद्यापनंकार्यम् एवंतुलसीलक्षपूजां

कार्तिकेमाघेवारभ्यप्रत्यहंसहस्त्रतुलसीसमर्पणेनलक्षंसमाप्यमाघ्यांवैशाख्यांवोद्यापनंकार्यम्

एवंपुष्पादिलक्षपूजाअपितत्रबिल्वपत्रलक्षेणलक्ष्मीप्राप्तिःफलम् दूर्वालक्षेणारिष्टशान्तिः चम्पकलक्षेणायुष्यम् अतसीलक्षेणविद्या

तुलसीलक्षेणविष्णुप्रसादः गोधूमतण्डुलादिप्रशस्तधान्यलक्षेणदुःखनाशः एवंसर्वपुष्पैः सर्वकामावाप्तिः

एवंलक्षवर्तिव्रतमपिमासत्रयंकृत्वाकार्तिकेमाघेवैशाखेवाउत्तरोत्तरप्रशस्तेसमापनीयम् एवंधारणपारणव्रतोद्यापनमपिपौर्णमास्यामेव

कार्तिकमासव्रतानांमासोपवासादीनांद्वादश्यमेवसमापनम् तत्रासंभवेपौर्णमास्याम् एवं गोपद्मव्रतमाषाढशुक्लैकादश्यादावारभ्यप्रत्यहं

त्रयस्त्रिंशद्गोपद्मानिविलिख्य गन्धपुष्पैःप्रपूज्यतावत्संख्याकार्घ्यनमस्कारप्रदक्षिणाः

कृत्वाकार्तिकद्वादश्यांत्रयस्त्रिंशदपूपवायनंदद्यादेवंवत्सरपञ्चकमनुष्ठयोद्यापनंकुर्यात्

लक्षप्रदक्षिणादिगोपद्मपर्यन्तोद्यापनानामितिकर्तव्यताःकौस्तुभेद्रष्टव्याः कार्तिकपौर्णमास्याः

कृत्तिकानक्षत्रयोगेमहापुण्यत्वम् रोहिणीयोगेमहाकार्तिकीत्वम् कार्तिक्यांकृत्तिकायोगेयः कार्तिकेयदर्शनं

करोतिससप्तसुजन्मसुधनाढ्योवेदपारगोविप्रोभवेत् विशाखास्थे

सूर्येसतियद्दिनेचन्द्रनक्षत्रंकृत्तिकातत्रपद्मकयोगः अयंपुष्करतीर्थेऽतिप्रशस्ताः ।

N/A

References : N/A
Last Updated : May 02, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP